________________
१००
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[प्रथमे विध्यरे च ते समुदिताः कारणम् [ प्र० समु० वृ० १॥१५]। एवमपि न त आलम्बनमतीन्द्रियत्वात्। एवम्विधालम्बनतायां च धूमोऽग्निप्रत्यक्षज्ञानालम्बनं स्यात् , तथा विद्यमानत्वेऽन्यथाभासस्यापि ज्ञानस्य कारणीभवनात्, त्वदुक्तप्रत्यक्षालम्बनवत् । चक्षुराद्यपि वालम्बनं स्यात् । । न च ग्राह्यस्य नीलादेर्विषयस्य चक्षुरादिविज्ञानस्य नीलादि परमाणव आलदोष इति चेत् , एवमपि न त आलम्बनमतीन्द्रियत्वादिन्द्रियगोचरातीतत्वाद् गगनवदिन्द्रियज्ञानालम्बनं न भवन्ति परमाणवः ।
किश्चान्यत् , उत्तरदोष उच्यतेऽभ्युपगम्यापि एवंविधालम्बनतायां चेत्यादि यावत् त्वदुक्तप्रत्यक्षालम्बनवदिति । 'अन्यथा विद्यमानाः परमाणवोऽतीन्द्रियत्वेन विद्यमानाः समूहाभासस्यापि 10 ज्ञानस्य कारणं भवन्ति' इत्येवंविधालम्बनतायां सत्यां धूमोऽग्निप्रत्यक्षज्ञानालम्बनं स्यात् , तथा ७०-१ विद्यमानत्वेऽन्यथाभासस्यापि ज्ञानस्य कारणीभवनात् । धूमत्वेन विद्यमानो धूमोऽग्याभासस्या
न्याभासस्यास्वाभासज्ञानस्य कारणीभवन्नुपलभ्यत इति पक्षधर्मत्वमस्त्यस्य । त्वदुक्तप्रत्यक्षालम्बनवदिति दृष्टान्ते तस्य सपक्षानुगमनं दर्शयति । यथा त्वदुक्तस्य प्रत्यक्षस्यालम्बनं परमाणवोऽन्यथा विद्यमानाः परमाणुत्वेन विद्यमानाः समूहाभासज्ञानस्य कारणं भवन्ति तथा धूमोऽपि तत्साधर्म्यात् तज्जनितज्ञाना15 लम्बनस्याग्नेः प्रत्यक्षालम्बनतया व्याप्तत्वात् प्रत्यक्षालम्बनतामात्मनः साधयति । धूमनिमित्ताग्निज्ञानं वा प्रत्यक्षं स्यात् , तथा विद्यमानत्वेऽन्याभासविज्ञानजनकार्थालम्बनत्वात् , त्वदुक्तप्रत्यक्षवत् । तत्साधादेवे वा त्वदुक्तप्रत्यक्षं सहार्थेनाप्रत्यक्षं स्याद् धूमजनितारन्यर्थज्ञानवत् ।
किश्चान्यत् , तस्मादेव हेतोश्चक्षुराद्यपि वालम्बनं स्यात् , एवमयमतिप्रसङ्गदोष एवंवादिनः । यदि कारणमालम्बनं विज्ञानस्यान्याभासस्यापीष्टं ततश्चक्षुरादीन्द्रियाणि चक्षुरादिविज्ञानानामालम्बनानि स्युः, 20 अन्यथा विद्यमानत्वेऽन्याभासस्यापि विज्ञानस्य कारणीभवनाच्चक्षुरिन्द्रियं चक्षुर्विज्ञानस्यालम्बनं स्याद्
रूपादिपरमाणुवत् । तज्ज्ञानं वा चक्षुरिन्द्रियालम्बनं स्यात् , तज्जन्यत्वे सत्यन्याभासत्वात् , परमाणुजन्य
रूपविज्ञानवत् । एवं श्रोत्रादिज्ञानानि । परमाण्वालम्बनत्वमभ्युपगम्यायं दोष उक्तः । ७०-२. न च ग्राह्यस्य नीलादेर्विषयस्येत्यादि । चक्षुरादिभिर्ग्राह्यस्य नीलादेः समूहात्मकस्य, विषयो
गोचरः, सम्बन्धि चक्षुरादिविज्ञानम् , तस्य नीलादिपरमाणवो न आलम्बनम् , अन्यथा परमार्थतो 25 विद्यमानत्वात् । अन्यथेति स्वाभासादन्यथाभासन्ते न तथा परमार्थतो विद्यन्ते परमार्थतस्तु स्वलक्षणा
अप्यग्राह्या विद्यन्ते, तस्मादन्यथा परमार्थतो विद्यमानत्वात् चक्षुरादिवन्नीलादिग्राह्यविषयज्ञानालम्बना न भवन्ति परमाणवः । यथा चक्षुरादीन्द्रियाण्यन्यथा परमार्थतोऽनीलादिपरमाण्वात्मकानि सन्ति अन्यथा नीलादिज्ञानोत्पत्तौ हेतुभावं विभ्रति नालम्बनानि तथा परमाणव इति । इतश्च परमाण्वालम्बनं न भवति
१गमनव प्र०॥ २ °ादेव वा तदुक्त भा०। ादेव तावदुक्त य० ॥ ३ भा० विनान्यत्रसहात्सहार्थेन वि० । सहात्महार्थेन पा० । सतात्महार्थेन डे० ली० । २०ही. प्रत्योस्तु अयं पाठ एव नास्ति । ४°रादपि प्र०॥ ५ स्याभास प्र०॥ ६°लम्बनमभ्युय०॥ ७** एतचिह्नान्तर्गतः अन्यथेति इत्यत आरभ्य मानत्वात् इत्यन्तः पाठो य० प्रतिषु नास्ति ॥ ८ परमानत्वात् भा०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org