________________
15
दिङ्गागकल्पितप्रत्यक्षे दोषाः] द्वादशारं नयचक्रम्
अथोच्येत-नीलादिसमुदाये द्रव्यसदाकारो विद्यते, तदण्वात्मकत्वात् तथासत्त्वात् तत्प्रत्यक्षत्वं न्याय्यम् । न तु घटाद्याकारः, अतत्परमाणुत्वात् तथाऽसत्वात् । एतच्च तुल्यमुभयत्राविशेषात् । यथैव तस्मिन् घटाद्यनाकारता तदनणुत्वात् तथाऽसत्त्वात् एवं रूपाद्याकारस्थानाकारता सञ्चितस्यैन्द्रियकत्वादालम्बनत्वात् तदनणुत्वात् तथाऽसत्त्वादन्यथाऽविषयत्वादनालम्बनत्वादप्रत्यक्षत्वात् । ।
__ पक्षान्तरापत्तिश्चैवं यथा ते विद्यन्ते तथा त आलम्बनमिति। यथा चोक्तं प्रत्येक इति बुद्धिः प्रवर्तते प्रज्ञप्तिश्च एवं तथास्थेष्वेव परमाणुषु नीलादिरूपबुद्धिः प्रवर्तते प्रज्ञप्तिश्चेति सर्वमुभयत्र तुल्यम् ।
अत्र परेणोभयो_धर्म्यप्रदर्शनार्थमथोच्येत-नीलादिसमुदाय इत्यादि यावत् तदण्वात्मकत्वात् तथासत्त्वादिति । नीलादिसमुदाये नीलादिद्रव्यसदाकारः परमार्थसदाकारः स विद्यते । किं 10 कारणम् ? तदण्वात्मकत्वात् तेषां नीलादीनामण्वात्मकत्वात् अणूनां द्रव्यसत्त्वात् । तत्प्रत्यक्षत्वं न्याय्यम् , न्यायादनपेतं न्याय्यं युक्तमित्यर्थः, तद्विषयस्य च ज्ञानस्य प्रत्यक्षत्वं तत्प्रत्यक्षत्वम् । न तु घटाद्याकारो न त्वस्ति घटसङ्ख्योत्क्षेपणाद्याकारः, अतत्परमाणुत्वात् , तस्याकारस्य परमाणुत्वं तत्परमाणुत्वम् , न तत्परमाणुत्वमतत्परमाणुत्वम् , अतोऽतत्परमाणुत्वात् । ततः किम् ? तथाऽसत्त्वात् , तेन प्रकारेणासत्त्वात् परमाणुत्वेन तेषां घटाद्याकाराणामसत्त्वात् ।
अत्राचार्य उत्तरमाह-एतच्च तुल्यमुभयत्राविशेषात् , परमाणुजन्यत्वादेव नीलादिघटाद्याकारप्रत्यक्षयोः । यथैव तस्मिन् रूपादिसमुदाये घटाधनाकारता तदनणुत्वात् , तस्य घटाद्याकारस्यानाकारता तस्याकारस्यानणुत्वात् , तथाऽसत्त्वादनणुसत्त्वेन घटाद्याकारेणासत्त्वादेणुत्वेनैवासत्त्वात् । एवं रूपाद्याकारस्यानाकारता अनन्तरोक्तहेतोः सञ्चितस्यैन्द्रियकत्वात् परमाणुसमुदायस्यैन्द्रियकत्वात तस्यैवालम्बनत्वात् , असश्चितस्यातीन्द्रियत्वादत एवानालम्बनत्वात् , तदनणुत्वात् तस्य सञ्चितस्यै- 20 न्द्रियकस्यालम्बनस्यानणुत्वात् तथाऽसत्त्वादनणुत्वादेवासत्त्वात् , अन्यथा[5]विषयत्वात् परमाणुत्वेना-२६९-२ विषयत्वात् , अविषयत्वादेव अनालम्बनत्वात् , अत एव अप्रत्यक्षत्वात् ।
किश्वान्यत् - पक्षान्तरापत्तिश्चैवम् । येदाभासं तेषु ज्ञानमुत्पद्यते तथा त आलम्बनम् [प्र० समु० वृ० १।१५] इत्येवं पक्षं परित्यज्य यथा ते विद्यन्ते तथा त आलम्बनमित्ययं पक्ष आश्रितो भवति, पक्षान्तरगमनं च वादावसानायेति । किञ्चान्यत् , अस्मिन्नपि च पक्षे त्वयैव वसुबन्धुं प्रत्युक्ता ये 25 दोषास्ते तवापि स्युः । यस्मात् त्वयापि चायं पक्षोऽङ्गीकृत एव । कथमिति चेत् , तद्दर्शयति - यथा च प्रत्यक्षोत्पत्तिबीजसञ्जननार्थमुक्तम्-प्रत्येकं च ते समुदिताः कारणमिति । तत्रानेकार्थजन्यत्वात् स्वार्थे सामान्यगोचरम् [प्र० समु० १।४] इत्यस्य व्याख्यायां पुनर्वसुबन्धुं दूषयितुकामेन विकल्पितः स एवार्थः - किं यथा विद्यमाना अन्याभासस्यापि विज्ञानस्य कारणं भवन्ति तथा प्रत्यक्षस्यालम्बनं रूपादयः' इति पूर्वपक्षत्वेन । एतयोश्च वचनयोरेकाकारार्थत्वादसावपि पक्षोऽभ्युपगतस्त्वया । ततः को
१°समुदयेत्यादि प्र० ॥२ दणुत्वेनैव सत्वात् भा० ॥ ३ °स्यैन्द्रियिकत्वात् य० ॥ ४ स्पैन्द्रियिक भा० ॥ ५ दृश्यतां पृ० ९६ पं० २५॥ ६ व्याख्याया य० । व्याख्यया भा० ॥ ७ दृश्यतां पृ० ९६ पं० २६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org