________________
९८
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[ प्रथमे विध्यरे
प्रमाणम्, समानानेकार्थातथा भूतार्थान्नीला दिसङ्घातात् प्रज्ञप्तिसत आलम्बनात् परमार्थसदाकारो लभ्यते, त एव हि परमाणवो नीलादित्वेनाभासन्ते इति तद्विषयं ज्ञानं प्रत्यक्षमिष्टं तथा घटसङ्ख्याद्याकारेभ्यः प्रत्यक्षज्ञानजनकार्थ सधर्मभ्यः समानानेकार्थजन्येन्द्रियखार्थेभ्यः समानानेकार्थातथाभूतार्थेभ्यः परमार्थसदाकारो लप्स्यते 5 इति घटादिज्ञानं प्रत्यक्षं स्यात्, संवृतिसदालम्बनत्वात्, नीलादिज्ञानवत् । नीलादिज्ञानं वा न प्रत्यक्षं स्यात्, घटादिज्ञानवत् । त एव हि ते परमाणव आभासन्ते । एवमुभयोस्तुल्ये जनकत्वे कुत एतत् - नीलाद्याभासं ज्ञानं प्रत्यक्षं न घटाद्याभासमिति । यथैव हि परमाण्ववयवसमुदाये त एवाभासन्ते तथा घटादिज्ञानेष्वपि समुदितास्त एवाभासन्ते, तथास्थेष्वेव घटबुद्धिः प्रवर्तते प्रज्ञप्तिश्व एवं तथास्थेष्वेव 10 नीलादिरूपबुद्धिः प्रवर्तते प्रज्ञप्तिश्च ।
'ज्ञानम्' इत्यभिसम्भन्त्स्यते, तदपि च तैमिरेकवदप्रमाणम्, तिमिरे भवं तैमिरम्, यथा द्विचन्द्रA६९-२ दर्शनं तथा समानेनाप्यनेकवर्णमणिसमूहेन जन्य इन्द्रियस्वार्थो मेचकस्तस्मादुत्पद्यमानं तदपि च तैमिरेकवदप्रमाणम् । कुतः ? यस्मात् समानानेकार्थात् तस्मादतथाभूतार्थात् तेन्नीलादिसङ्घाताज्ज्ञानमुत्पद्यते, अतथाभूतार्थत्वमस्य संवृतिसत्त्वमत आह- - सँमानाने कार्थातथाभूतार्थान्नीलादिसङ्घातात् प्रज्ञप्तिसत 16 आलम्बनात् संवृतिसतः परमार्थ सदाकारो नीलादिको लभ्यते, यतस्त एव हि परमार्थसन्तः परमाणवो नीलादित्वेनाभासन्त इति तद्विषयं ज्ञानं नीलादिप्रत्यक्षमिष्टम् । तथा निराकृतेभ्यः प्रत्यक्षत्वेन घटसङ्ख्याद्याकारेभ्यो घटसङ्ख्योत्क्षेपणसत्ताघटत्वाद्याकारेभ्यः प्रत्यक्ष ज्ञानजनकार्थसधर्मभ्यः, कतमेन साधर्म्येण सधर्मभ्य इति चेत्, उच्यते - समानानेकार्थजन्येन्द्रियस्वार्थेभ्य इत्येतत्सधर्मभ्यः । किमुक्तं भवति ? समानानेकार्थातथाभूतार्थेभ्यः, परमार्थसदाकारो लप्स्यते नीलादिसङ्घातवदित्यतस्तदुप20 संहृत्य साधनमाह - घटः संयुक्तो वियुक्तः परोऽपरः स्पन्दत इत्यादि ज्ञानं प्रत्यक्षं स च तद्विषयः प्रत्यक्षः स्यात्, संवृतिसदालम्बनत्वात्, नीलादिज्ञानवत् । नीलादिज्ञानं तदर्थश्च न प्रत्यक्षे वा स्याताम्, संवृतिसत्त्वात्, घटादिज्ञानार्थवत् । त्राशब्दस्य विकल्पार्थत्वादुभयत्र ज्ञानोत्पादकार्थाविशेषात् । तत् समर्थयति - त एव हि ते परमाणवो य एव घटादित्वेनाभासन्ते य एव नीलादित्वेनाभासन्त इति । एवमुभयोर्नीला दिघटादिज्ञानयोस्तुल्ये जनकत्वे तत् कुत एतत् - नीलाद्याभासं ज्ञानं 25 प्रत्यक्षं न घटाद्याभासमिति ? स्वरुचिमात्रा दैन्यत् कारणं नास्तीत्यर्थः ।
यथैव हीत्यादि यावत् समुदितास्त एवाभासन्त इति बुद्धावाभासनसामर्थ्याविशेषाच्च जनकहेत्वविशेषमेव दर्शयति । अत्र च यथा परमाण्ववयवर्समुदाये त एव नीलप्रत्यवभासत्वाज्ज्ञानस्याB६९-१ कारसन्निवेशविशिष्टाः सामान्यत आभासन्ते तथा घटादिज्ञानेष्वपि आकारविशेषेण समुदितास्त ऐवाभासन्ते, नान्यो घटो नामास्ति यस्तथाभासेत । तथास्थेषु तेन प्रकारेण स्थितेषु रूपादिष्वेव घट
१ °रिकवद य० ॥ २ तन्नादिसंघात जनमुत्पाद्यते प्र० ॥ ३ समानासमानानेका प्र० ॥ ४ कृतेभ्यः सत्पक्षत्वेन घट य० । 'कृतेभ्या घट° भा० ॥ ५ साधर्म्येन य० ॥ ६ समानासमानानेका य० ॥
९ एव भासते य० ॥
७ दन्यत्र प्र० ॥ ८ समुदायनाव नीलप्रत्य प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org