________________
दिङ्गागकल्पितप्रत्यक्षे दोषाः] द्वादशारं नयचक्रम् प्रत्यक्षम्। न तदुपपद्यते, तस्यार्थस्याभावात्। न च सञ्चयोऽर्थः, संवृतिसत्त्वात्। अतो नासावुत्पत्तिप्रत्यय इष्यत इति विशेषणविशेष्यत्वाभावाज्ज्ञानत्वप्रत्यक्षत्वाभ्युपगमहानिः।
चक्षुरादिज्ञानेष्वतः स्वनिर्भासव्यतिरिक्तप्रमेयाभावादसत्सत्प्रतिपत्तेरप्रत्यक्षत्वेन प्रसिद्धेन प्रत्यक्षत्वनिराकरणादनुमान विरोधः। ___ यथा चात्र समानानेकार्थजन्येन्द्रियस्वार्थाद्यदुत्पद्यते तदपि च तैमिरकवद
कर्षादुत्पद्यमानं ज्ञानमक्षं प्रति वृत्तेः प्रत्यक्षमिति ज्ञानेऽर्थस्य विशेषणता । सन्निकर्षाद्वा अक्षं प्रति यो वर्ततेऽर्थः स प्रत्यक्षः, अर्थेन्द्रियसन्निकर्षादक्षं प्रति वृत्तेः प्रत्यक्षमितत्वादुपचरितवृत्तिरर्थोऽक्षेण 'विशेष्यते इति । अत्रोत्तरमुच्यते - न तदुपपद्यते प्रत्यक्षं तस्यार्थस्याभावात् । ‘एवं च सति' इत्युच्चार्य सञ्चयः प्रसक्त इत्यभ्युपर्गम्य दूषयति – यस्मान्न च सञ्चयोऽर्थः। किं कारणं नार्थः सञ्चय इति चेत्, संवृतिसत्त्वात् । 10 संवृतिसत्त्वमद्रव्यत्वाद् वान्ध्येयवत् । अत एतस्मात् कारणाद् नासावुत्पत्तिप्रत्यय इष्यते, उत्पत्तौ । प्रत्यय आलम्बनप्रत्यय इत्यर्थः, सोऽसत्त्वान्नेष्यते । इतिशब्दो हेत्वर्थे, एतस्मात् कारणात् सोऽर्थो न विशेषणेन विशेष्यस्तस्माद्विशेषणविशेष्यत्वाभावाज्ज्ञानत्वप्रत्यक्षत्वाभ्युपगमहानिः, 'ज्ञानं प्रत्यक्षम्' इत्येतदभ्युपगतं विशेषणस्य विशेष्यस्य चार्थस्याभावात् किम्विषयं ज्ञानं प्रत्यक्षं च स्यादिति हीयते ।
किञ्चान्यत् - चक्षुरादिज्ञानेष्वत इत्यादि यावदनुमानविरोधः । चक्षुरादीन्द्रियबुद्धयः स्वविषय- 15 निर्भासस्वरूपमात्रा एव, ज्ञानत्वात् , वस्तुत्वात् , सत्त्वात् , तैमिरिकादिज्ञानवत् । अतश्चक्षुरादिविज्ञानेषु A६९-१ स्वनिर्भासव्यतिरिक्तप्रमेयाभावः। ततश्च तैमिरिकस्य केशोन्दुक-मशक-मक्षिका-द्विचन्द्रादिदर्शनवत् सा तु असत्सत्प्रतिपत्तिरेव, 'असदवस्तु सद्वस्तु' इति प्रतिपत्तिः । तस्माद्धेतोरसत्सत्प्रतिपत्तेविपर्ययप्रतिपत्तेस्तस्य ज्ञानस्याप्रत्यक्षत्वं प्रसिद्धमलातचक्रादिज्ञानवत् , तेन अप्रत्यक्षत्वेन प्रसिद्धेन त्वया प्रतिज्ञातं तत्प्रत्यक्षत्वं निराक्रियते, तन्निराकरणादनुमानविरोधः। ननु प्रत्यक्षनिराकरणात् प्रत्यक्षविरोधोऽयं 20 कथमनुमानविरोधः ? इत्यत्रोच्यते - त्वन्मतेन प्रत्यक्षधर्मस्य विकल्पस्योक्तानुमानेन निराकरणानिर्विकल्पकप्रत्यक्षत्वाभावात् कतमत् तत् प्रत्यक्षं येन निराक्रियेत यद्वा निराकुर्यात् ? अतोऽनुमानविरोध एवायम् ।
किश्चान्यत् - घटसङ्ख्योत्क्षेपणसत्ताघटत्वाद्याकारज्ञानानामपि प्रत्यक्षत्वप्रसङ्गः । कथमिति चेत्, उच्यते - यथा चात्रेत्यादि दीर्टान्तिकं मुक्त्वा दृष्टान्तं तत्साधर्म्य च वर्णयति । यथा चात्र भवन्मतेन समानानेकार्थजन्येन्द्रियस्वार्थात् , समानेन नीलवर्णेनाऽनेकेन परमाणुसङ्घातलक्षणेनार्थेन जन्य इन्द्रिय- 25 स्वार्थः, नासाधारणो वस्त्वभिमतस्वलक्षणस्वार्थः, कस्मात् ? तत्यक्त्वा तत्रानेकार्थजन्यत्वात् स्वार्थे सामान्यगोचरं ज्ञानम् [प्र० समु० ॥४] इति वचनादन्यादृशः स्वार्थस्येष्टत्वात , तादृशः स्वार्थाद् यदुत्पद्यते
१विष्यते प्र० ॥२°गमप्य दूष° भा० ॥ ३नासाधूत्पत्ति य० । नासात्पत्ति भा० ॥ ४ हीष्यते वि०॥ ५°रादिषु ज्ञाने य.॥६ प्रतिपत्तितस्तस्मा यः॥ ७°न सत्पक्षधर्मस्य विकल्पस्यो भा० । 'न सत्पक्षधर्मस्य विपक्षस्यों य० ॥ ८°प्रत्यत्वाभावात् भा०॥ ९ प्रत्यक्ष येन य०॥ १० दान्तिकमुक्त्वा य० ॥ ११ समानासमानानेका प्र० ॥ १२ अत्र 'तन्त्यक्त्वा' इत्यपि पाठः स्यात् ॥ १५ स्वार्थसामान्य य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org