________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् . [प्रथमे विध्यरे अनेकार्थजन्यत्वाच्च स्वार्थसामान्यगोचरतायां यदाभासं तेषु ज्ञानमुत्पद्यते तथा त आलम्बनम् , प्रत्येकं परमाणुरूपस्य बुद्धावसन्निवेशात् समुदयकृततन्निर्भासतयालम्बनमिति प्राप्तम् । एवं च सति अर्थसन्निकर्षादक्षं प्रति यदुत्पद्यते तज्ज्ञानं
___ इदानीं वसुबन्धोः स्वगुरोः 'ततोऽर्थाद् विज्ञानं प्रत्यक्षम्' [वादवि० ] इति ब्रुवतो यदुत्तरम( भिहितं परगुणमत्सराविष्टचेतसा तत्त्वपरीक्षायां परमोदासीनचेतसा तु येन केनचिदभिप्रायेण स्वमतं दर्शितमेव दिन्नेन वसुबन्धुप्रत्यक्षलक्षणं दूषयता, तस्य पुनरर्थो योऽस्तु सोऽस्तु किं नोऽनेन ? इदमेव तावदस्तु- रूपादिष्वालम्बनार्थो वक्तव्यः [प्र० समु० वृ० ॥१५] इति विकल्प्य विकल्पद्वये . दोषजातं तल्लक्षणे प्रक्रान्तं तत् तवापि समानमिति प्रतिपादयिष्यन् नयचक्रकारः सविशेषं तन्मतविरोधहेतुं
स्ववचनजनितमाह - अनेकार्थजन्यत्वाच्च स्वार्थसामान्यगोचरतायामित्यादि शिष्याचार्ययोस्तुल्योत्तर10 त्वात् । स्वार्थ इति नीलादिः, स एंव किल सामान्यमनेकार्थजन्यत्वात् , अनेकोऽर्थः परमाणवः तज्जन्य नीलविषयं प्रत्यक्षमत इन्द्रियस्य स्वार्थ इत्येतस्यामनेकार्थजन्यत्वाच्च स्वार्थसामान्यगोचरतायां यदाभासं तेषु
ज्ञानमुत्पद्यते तथा त आलम्बनं रूपादय इति नीलपीतादित्वेन यथैवाभासन्ते तथैवालम्बनमित्येत६८-२ दिष्टम् । किं कारणं त एव नीलादिपरमाणवो नालम्बनमिति चेत् , उच्यते - प्रत्येकं परमाणुरूपस्य
बुद्धावसन्निवेशात् , एकमेकं प्रति प्रत्येकं परमाणूनां यन्नीलादिरूपं तस्यातीन्द्रियत्वादुद्धौ न 15 सन्निवेशः, तस्मात् किं प्राप्तम् ? समुदयकृततन्निभासतयालम्बनमित्येतत् प्राप्तम् , नीलादिरूपस्य तत्समुदायात्मकत्वात् ।
एवं च सति परमाणुसञ्चयनीलादिनि सतयालम्बनत्वे सति प्रत्यक्षार्थ एवं जायते, तद्यथा-- अर्थसन्निकर्षादक्षं प्रति यदुत्पद्यते तज्ज्ञानं प्रत्यक्षमिति ज्ञानमर्थेन "विशेष्यते, अर्थेनेन्द्रियस्य सन्नि
१ ततोऽर्थाद् विज्ञानं प्रत्यक्षम्' इति प्रत्यक्षलक्षणं वादविधौ बौद्धाचार्येण वसुबन्धुनाऽभिहितम् । वसुबन्धोः शिष्यो दिन्नः। 'दिन्नः' इति च दिङ्गागस्यैव नामान्तरम् । दिन्नेन खगुरोर्वसुबन्धोः प्रत्यक्षलक्षणं दूषयितुकामेन प्रमाणसमुच्चये तद्वृत्तौ च विस्तरेण प्रक्रान्तमित्थम् - "ततोऽर्थाद्विज्ञानं प्रत्यक्षम् [ वादवि० ] इत्यत्र ततोऽर्थादिति सर्वश्वेद्
एवन। यदि 'ततः' इत्यनेन सवेंः प्रत्यय उच्यते, यज्ज्ञानं यस्माद्विषयाद्भवति तस्य व्यपदिश्यते, तत एव तु न भवति, आलम्बनप्रत्ययादेव ज्ञानं न भवति 'चतुर्भिश्चित्तचत्ताः' [अभि.को. २१६४] इति सिद्धान्तात्। आलम्बनं चेत् स्मृत्यादिशानं नान्यदपेक्षते ॥ १५॥ यदि 'ततोऽर्थात्' इत्यनेन विषयमात्रम् , स्मृत्यनुमानाभिलाषादिज्ञानमपि आलम्बनान्तर नापेक्षते, अन्यादिज्ञानं हि न धूमाद्यालम्बनम्। रूपादिध्वालम्बनार्थो वक्तव्यः -- किं यदाभासं तेषु ज्ञानमुत्पद्यते तथा ते आलम्बनम् , अथ यथा विद्यमाना अन्याभासस्यापि ज्ञानस्य कारणं भवन्ति ? ततः किमिति चेत्, यदि यदाभासं तेषु ज्ञानमुत्पद्यते तथा पञ्चानां विज्ञानकायानां सञ्चितालम्बनत्वात् संवृतिसदेवालम्बनमितीष्टं नीलाद्याभासज्ञानेषु ततोऽर्थाद् विज्ञानत्वात् प्रत्यक्षत्वं भवति, तथाहि - तेषु तत्समुदायाध्यारोपे सत्यपि द्रव्यसदाकारो लभ्यते। द्रव्यसङ्ख्याद्याकारोऽपि लप्स्यते, त एव हि द्रव्यादित्वेनाभासन्ते । अथ यथा विद्यमाना अन्याभासस्यापि ज्ञानस्य कारणं भवन्ति तथा सति द्रव्यादिप्रसङ्गदोषो नास्ति तथा तेषामसत्त्वात् , तथापि येन तस्य व्यपदेश इत्येतन्न लभ्यते, प्रत्येकं च ते समुदिताः कारणं न समुदायो व्यवहारसत्त्वात् । एतदेवाह - यदाभासा न सा तस्माञ्चितालम्बं हि पञ्चकम् । यतः सा परमार्थेन तत्र न व्यपदिश्यते । १६॥ इत्यवसरकारिका । चक्षुरादीनामप्यालम्बनत्वप्रसङ्गः, तेऽपि हि परमार्थतोऽन्यथा विद्यमाना नीलाद्याभासस्य द्विचन्द्रा द्याभासस्य च ज्ञानस्य कारणीभवन्ति' -प्र० समु० वृ० १।१५-१६॥२तन्मतविरोधं हेतुं य० ॥३एव विकल य०॥ ४ अनेकार्थः य०॥५एकमेकं प्रत्येकं प्र०॥६ज्ञायते प्र० । दृश्यतां पृ. ७६ पं० २७ ॥७विशिष्यते य.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org