________________
दिमागकल्पितप्रत्यक्षे दोषाः] द्वादशारं नयचक्रम् ग्यादिमणूनिव गमयति। - हेतुप्रत्ययोऽसौ, अनधिपतिप्रत्ययः कल्पनाया इति चेत्, कारकादप्यनेकस्मादाजायते साध्यसाधनधर्मान्वयैकान्तवतः।
___ अथ कथमसावनधिपतिः इन्द्रियाविषयत्वात् । ननु सश्चयहेतुप्रत्ययोऽप्यनधिपतिरिन्द्रियाविषयत्वात् । तथा खार्थे सामान्यगोचरत्वादनुमानवदप्रत्यक्षम् ।" अनुमानं वा प्रत्यक्षं स्यात् , अनेकार्थजन्यत्वात् स्वार्थे सामान्यगोचरत्वात् , प्रत्यक्षवत् । द्वयमप्येतदेकमेव, एकलक्षणत्वात् ।। ग्यादिमणूनिव गमयति । नन्विति प्रसिद्धानुज्ञापने, ननु धूमोऽग्निमत्त्वविशिष्टप्रदेशधर्मश्चतुर्भूतसहातोऽन्वयव्यतिरेकसहितोऽग्निमत्त्वविज्ञानं प्रदेशे जनयत्यणुसमुदय इव रूपविज्ञानम् , गमयत्यग्निं ६७-२ तज्ज्ञानं जनयतीति ज्ञानोत्पत्तौ कारकत्वाव्यभिचारादुभयोति ।
10 हेतुप्रत्यय इत्यादि । स्यान्मतम् – 'हेतुः प्रत्ययो निमित्तमनालम्बनमित्यर्थः, असौ धूमोऽनुमाने निमित्तम् । अनधिपतिप्रत्ययः, कल्पनाया हेतोः, निर्विकल्पं हि ज्ञानमधिपतिप्रत्ययं प्रत्यक्षम् , न तथानुमानम् , अतो वैधान्न दृष्टान्त इति चेत्, एवं चेन्मन्यसे ।।
अत्र परेणैवोत्तरं वाचयितुकाम आह -अथ कथमित्यादि । इँदमसि त्वं प्रष्टव्यः-कथमसावनधिपतिधूम इति, अनालम्बनमित्यर्थः । इतर आह - इन्द्रियाविषयत्वाद्धेतुप्रत्येयस्यार्थस्याम्यादिलक्षणस्य । 15 आचार्य आह-ननु संञ्चयहेतुप्रत्ययोऽप्यनधिपतिरिन्द्रियाविषयत्वात् । परमाणुसञ्चय एव प्रत्यक्षेऽप्यनधिपतिः, तस्मादेव हेतोरिन्द्रियाविषयत्वात् , सञ्चयस्य परमाणुव्यतिरिक्तस्यासत्त्वादिति विस्तरेण प्रागभिहितमेतत् । तस्मात् सर्वथा तुल्यमुभयं कारकत्वेनेति । तथा स्वार्थे सामान्यगोचरत्वादनुमानवदप्रत्यक्षमित्येतस्मिन् साधने कारकहेतुत्वप्रतिपादनार्थः प्रपञ्चस्तुल्य इत्यतिदिशति ।।
अनुमानं वेत्यादि । वाशब्दो विकल्पार्थः, यदि प्रतिपादितमिदं युक्तिवशात् प्रत्यक्षस्य त्वदभिमत- 20 स्यानुमानत्वं मया तत् त्वया स्वग्राहरक्तमनसा स्वसमयप्रसिद्ध्यनुपातिना नेष्यते प्रत्यक्षत्वमेवेष्यते ततस्तस्मात् साधादनुमानं वा प्रत्यक्षं स्यादनेकार्थजन्यत्वात् स्वार्थे सामान्यगोचरत्वादित्येताभ्यामेव हेतुभ्यां प्रत्यक्षवदित्येते अपि द्वे साधने लेशेनोनीते, न स्फुटमिति ।
किश्चान्यत् , एतस्मादेव हेतुद्वयाद्विषयैक्यापत्तेः प्रमाणैक्यमित्यत आह - द्वयमप्येतदेकमेव, एक-६८.१ लक्षणत्वात् । स्वसामान्यलक्षणं ह्येकमेव वस्तु विषयोऽस्य प्रमाणद्वयस्येत्युक्तविधिना प्रसक्तत्वात् प्रत्यक्ष- 25 मेवैकं प्रमाणं तदुभयं स्यात् , अनेकार्थजन्यसामान्यैकगोचरत्वात् , चक्षुरादिद्वारजन्मप्रत्यक्षभेदप्रत्यक्षत्ववत् । अनुमानमेव वा स्यात् , तत एव कारणात्, धूमकृतकत्वाद्यनुमितान्यनित्या दिज्ञानानुमानवत् ।
१'त्यग्निं न शानं जनयतीति प्र० ॥२ अत्र 'हेतु प्रत्ययो' इत्यपि पाठः स्यात् ॥ ३ निमित्तमालम्बन प्र० । अत्र 'निमित्तं नालम्बन' इत्यपि पाठः स्यात् ॥ ४ इदमसिद्धं द्रष्टव्यः कथं साधनधिनऽधिपतिधूमः भा० ।
मसिद्धं द्रष्टव्यं कथं साधनाधिपतिधमः यः॥ ५संचयन हेत. य०॥ ६°यविषयत्वात प्र.॥ ७ प्रत्यक्षोप्यन प्र०॥ ८ युक्तिवक्तात्मत्य भा० । युक्तिवत्तात्प्रत्यय०॥ ९°न्यमित्यादि प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org