________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [प्रथमे विध्यरे त्वात् । प्रत्यक्षस्याप्रत्यक्षत्वसाधने च द्वे लेशेनोनीते त्वयैव-त्वदभिमतप्रत्यक्षमप्रत्यक्षमनेकार्थजन्यत्वादनुमानवत् । अनुमानमपि हि पक्षधांचनेकार्थजन्यम् ।
. ज्ञापकः स हेतुरिति चेत्, कारकादपि अनेकस्मादाजायते साध्यसाधनधर्मान्वयैकान्तवतः। 6 न, असञ्चितानेकार्थजन्यत्वादनुमाने । ननु धूमादिरपि सञ्चय एव गृहीतोऽ
तेषु परमाणुषु प्रत्येकमतीन्द्रियेषु समुदितेष्वसमुदितेषु वा प्रत्ययाभावात् तत्समूहेऽनेकार्थविषयः स एवैकः प्रत्ययः, समूहालम्बनतदाभासज्ञानोत्पत्त्यभ्युपगमात् । अर्थभेदविषयज्ञानाभ्युपगमे च विजानाति न विज्ञानम् [चतुःश० २६८ ] इत्यादि विरुध्येत । तस्मादेकः प्रत्ययोऽनेकार्थविषय एकार्थरूपः । तत एव सामान्यरूपस्तदतद्विषयतया तदतदभूतसामान्यगोचरः । ततश्च अस्वलक्षणविषयः, त एव 10 हि परमाणवः स्खलक्षणं न तत्समूहः सामान्यत्वात् । अत एव संवृतिसंश्च सः। तस्मादस्खलक्षणविषयत्वात् कल्पनात्मको निर्देश्यश्चेत्येवमाद्यस्माभिः प्राक् प्रक्रान्तं तत् सुतरामशेषं त्वयैव भावितम् 'अनेकार्थजन्यत्वात् स्वार्थे सामान्यगोचरम्' [प्र० समु० १॥४] इति परिहारं त्रुवता ।
किश्चान्यत् , भवदभिमतप्रत्यक्षस्याप्रत्यक्षत्वसाधने च द्वे लेशेनोन्नीते त्वयैव, मा भूत् स्वाभ्युपगमदोषव्यक्तिरिति कुशलजनतर्कगम्ये, न स्फुटे । कतमे द्वे ? अनेकार्थजन्यत्वात् स्वार्थे सामान्यगोचर 15 त्वादिति चैते द्वे । तत्र तावत् प्रथमं साधनम् - त्वदभिमतप्रत्यक्षमप्रत्यक्षम् , अनेकार्थजन्यत्वात् , ६७-१ अनुमानवत् । दृष्टान्तेऽनुमानेऽनेकार्थजन्यत्वमसिद्धमिति मा मंस्थाः, यस्मादनुमानमपि पक्षधर्माद्य
नेकार्थजन्यम् , पक्षधर्मः सपक्षानुगमो विपक्षव्यावृत्तिरित्यनेकार्थेन जन्यतेऽम्यनित्याद्यनुमानज्ञानं तथेदमपि प्रत्यक्षमनेकपरमाण्वर्थजन्यमिति । ज्ञापकः स हेतुरिति चेत् । स्यान्मतम् – अनुमाने पक्षधर्मादिरनेकोऽप्यर्थो धूमकृतकत्वादिरगयनित्यादिज्ञानस्य न कारकः, किं तर्हि ? पूर्वप्रसिद्धमेवाविनाभाविनं 20 सम्बन्धं स्मारयतीति ज्ञापकः स हेतुः, इतरस्तु प्रत्यक्षज्ञानस्य कारकोऽर्थः, तस्माद्वैधाददृष्टान्त इति ।
एतञ्चायुक्तम् , अत्रापि तुल्यत्वात् , कारकादपीत्यादि, 'अनुमानमपि' इति वर्तते, अनुमानमपि स्वार्थ कारकादनेकस्मादजायते । कतमस्मात् ? साध्यसाधनधर्मान्वयैकान्तवतः पक्षधर्मसपक्षानुगमविपक्षव्यावृत्तिमत ऐकान्तिकात्, 'अग्निमान् प्रदेशो धूमवत्त्वाचुल्लीमूलवत्, अनित्यः शब्दः कृतकत्वाद्
घटवत्, न नदीवन्नाकाशवत्' इति कारकहेतुतैवानुमानेऽपि तदर्थस्य । 25 इतर आह-न, असञ्चितानेकार्थजन्यत्वादनुमाने । नैतत् साधर्म्यमुपपद्यते, कस्मात् ?
असश्चितानेकार्थजन्यत्वादनुमानस्य सचितानेकार्थजन्यत्वाच्च प्रत्यक्षस्य । देशकालभिन्नसन्निहितासन्निहितार्थविषयं ह्यनुमानम् , तद्विपरीतविषयं प्रत्यक्षमिति। अत्रोच्यते - ननु धूमादिरपि सञ्चय एव गृहीतोऽ.
१त्पत्त्युपगमात् भा० ॥ २ दृश्यतां पृ० ७३ पं० १३ ॥ ३ °लक्षणाविषयः प्र०॥ ४°मूहसामा प्र०॥ .५°संचय स तस्मा पा० डे. ली. रं. ही० । संचयः स तस्मा वि०॥६लेशेनीते प्र०॥ ७°व्यतिरिति प्र०॥ ८ गम्यते न स्फुटे भा० । अत्र गम्ये ते, न स्फुटे' इत्यपि पाठः स्यात् ॥ ९ तदभिमत° प्र० ॥ १० 'रग्निनित्यादि प्र०॥ ११ वर्तते भा०॥ १२ कतस्मात् य० ॥ १३ धूमत्वाचु प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org