________________
दिङ्गागमतनिरासः]
द्वादशारं नयचक्रम् रजवां सर्प इति ज्ञानं रजुदृष्टावनर्थकम् ।
तदंशदृष्टौ तत्रापि सर्पवद् रजुविभ्रमः ॥ [ हस्तवालप्र० १] यच्चोक्तम् - 'आयतनस्वलक्षणं प्रत्येते स्वलक्षणविषया न द्रव्यस्वलक्षणं प्रति' इति तत् कथमिति चेत्,
. तत्रानेकार्थजन्यत्वात् स्वार्थे सामान्यगोचरम् ।। अनेकद्रव्योत्पाद्यत्वात् तत् स्वायतने सामान्यगोचरमित्युच्यते, न तु भिन्नेष्वभेदैकाकारपरिकल्पनात् [प्र०समु० वृ०॥४] । अत्राप्यनेकार्थविषयैकप्रत्ययत्वात् सामान्यरूपत्वादस्खलक्षणविषयभावे मुष्टिबुद्धिवत् । अतोऽङ्गुलिव्यतिरेकेण मुष्ट्यभाववत् कपालादिव्यतिरेकेण घटाभाव इति संवृतिसन् घटः । एवं क्रियासम्भवे क्रियया अपोहे । यत्रापि क्रिययाऽपोहो न सम्भवति तत्रापि धियाऽपोहेऽन्येषां रूपादीनां घंटस्य समुदायाद् न तद्बुद्धिरस्ति । रूपादिसमुदायस्य च परमाणुरूपाद्यपोहे 'न तद्बुद्धिरस्ति' 10 इति वर्तते, दृष्टान्तः - अम्बुवत् , एकस्मिन्नपि जलबिन्दौ जलबुद्धिदर्शनात् , रूपादिषु पुनर्बुद्ध्यापोढेषु न ६६.१ तोयबुद्धिरस्तीत्येतत् संवृतिसतो लक्षणम् । अथवा यस्मिन् घटे भिन्नेऽवयवशो न तद्बुद्धिर्भवति तद् घटवत् संवृतिसत् । यत्र चाम्बुबुद्ध्याऽर्थान्तरापोहे न तद्बुद्धिरर्थान्तरनिवृत्तिरूपस्य वस्तुनः स्वरूपाभावादमिवाय्वादिनिवृत्तिमात्र व्यवहारप्रसिद्धाम्बुवत् तदपि संवृतिसत् । परमार्थसदन्यथा, एतद्विपरीतलक्षणं 15 स्वत एव विविक्तरूपं यद्विद्यते रूपं रस इत्यादि तत् परमार्थसत् प्रत्यक्षगोचरमिति । - एतदपि परमार्थसदित्यभिमतं संवृतिसल्लक्षणानतिवृत्तेरसदेव, यथोक्तविधिना संवृतिसदेव सर्वमपीत्यत्रापि ज्ञापकोदाहरणं तत्संवाद्यभिहितम् - रज्वां सर्प इति ज्ञानम् , तावदेव रज्ज्वां सर्प इति विपर्ययज्ञानं भवति यावदेस्पन्दादिविशेषलिङ्गादर्शनम् । विशेषतस्तु तदवधारणदृष्टौ सत्यां प्राक्तनं सर्पदर्शनं जायतेऽनर्थकम् । सापि रज्जुबुद्धिस्तदवयवे दृष्टौ सत्यां यथा सर्प इति ज्ञानमनर्थकं तथानर्थिका, तत 20 आह -तदंशदृष्टौ तत्रापि सर्पवद् रजुविभ्रम इति । एवमनया कल्पनया सर्वपिण्डज्ञानानां संवृतिसद्विषयतैवेति साधूक्तम् - अप्रत्यक्षं नीलादिविषयं चक्षुरादिविज्ञान शाक्यपुत्रीयं भ्रान्तिवदिति । एवं तावत् कल्पनापोढप्रत्यक्षलक्षणसञ्चितालम्बनपञ्चविज्ञानकायग्रन्थविरोधोद्भावनचोद्योपक्रमायातपरिहारार्थस्यानेकार्थजन्यस्वार्थसामान्यगोचरवाक्यस्य सप्रसङ्गो दोषोऽमिहितः ।। - अधुना यदेतदनेक प्रकारभिन्न] रूपेत्यादिग्रन्थचोद्यद्वारायातकल्पनात्मकपरिहारार्थं येच्चोक्तम् 25 'आयतनस्वलक्षणं [प्रत्येते स्वलक्षणविषया न द्रव्यस्वलक्षणं] प्रति' इति तत् कथमित्येतत्परि- ६६-२ हारार्थस्य तस्य वाक्यस्य दोषं वक्तुकामः परपक्षमेव तावत् प्रत्युच्चारयन् व्याचष्टे सूरिष्टीकाकारलिखितं लिखन यावदेकाकारपरिकल्पनादिति गतार्थम् । उत्तरं तु अत्रापि, 'अपि'शब्दात् पूर्वस्मिन्नर्थविकल्पे व्याख्याता दोषास्तेऽत्रापि सम्भवन्ति । कथमिति चेत् , अनेकार्थविषयैकप्रत्ययत्वात् , अनेकोऽर्थः परमाणवः, तद्विषय एक इति प्रत्ययः सोऽनेकार्थविषयैकप्रत्ययः, तद्भावादनेकार्थविषयैकप्रत्ययत्वात् ।
१ अपोढे प्र० ॥२ घटास्य(ख्य?)समु भा० ॥ ३ वर्तते प्र० ॥ ४°हाराप्रसि भा० ॥ ५°दस्पंदस्पंदादि भा० ॥ ६ तदृष्टौ य० ॥ ७ दोभिहितः य०॥ ८ दृश्यतां पृ० ७८ पं० २॥ ९ दृश्यतां पृ० ७९ पं० २४ । पृ० ७९ टि० ७॥ .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org