________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [प्रथमे विध्यरे __ अभ्युपेतेऽपि तु सञ्चितालम्बनप्रत्ययत्वे नैवास्य प्रत्यक्षता, तदाभासत्वात् कल्पनात्मकत्वाद् भ्रान्तिज्ञानात्मकत्वात् संज्ञासंस्थानसङ्ख्यावर्णान्यथाकल्पनात्, मृगतृष्णिकाप्रत्ययवदलातचक्रप्रत्ययवद् द्विचन्द्रप्रत्ययवत् कामलोपहतचक्षुषो नीलरूपपीतप्रत्ययवत् । अत इदं नैव प्रत्यक्षम् , अतथाभूतार्थाध्यारोपात्मकत्वात्, 5 भ्रान्तिवत् संवृतिसज्ज्ञानवत्, यथा गोपाल.........तथा संवृतिसति.........। यथोक्तम्
यस्मिन् भिन्ने न तद्वद्धिरन्यापोहे धिया च तत् ।
घटाम्बुवत् संवृतिसत् परमार्थसदन्यथा ॥ [अभि० को० ६।५] अभ्युपेतेऽपि तु विषये दोषः । स चाभ्युपगम्यमानोऽपि विषयः सञ्चय एव सम्भाव्येत, न परमा10 णवोऽतीन्द्रियत्वात् । स चालम्बनप्रत्ययो ज्ञानस्य सञ्चयः, तस्मिन्नभ्युपेतेऽपि तु सञ्चितालम्बन
प्रत्ययत्वे नैवास्य प्रत्यक्षता सिध्यति त्वन्मतेनैव, तदाभासत्वात् । तदाभासत्वं कल्पनात्मकत्वात्, ६५.२ उक्ता च कल्पनात्मकता । तदुभयमपि भ्रान्तिज्ञानात्मकत्वात् । भ्रान्तिः 'संज्ञासंस्थानसङ्ख्या
वर्णान्यथाकल्पनात्, संज्ञा च संस्थानं च सङ्ख्या च वर्णश्च, तेषां तैर्वान्यथाकल्पनात् । अन्यथा
प्रतिपत्तिरेवात्र कल्पनाभिमता । संज्ञासंस्थानसङ्ख्यावर्णानामन्यथाप्रतिपत्तेमृगतृष्णिकाप्रत्ययवदलात1 चक्रप्रत्ययवद् द्विचन्द्रप्रत्ययवत् कामलोपहतचक्षुषो नीलरूपपीतप्रत्ययवदिति यथासङ्ख्यं दृष्टान्ताः - यथाक्रमं च हेतवो भ्रान्तिज्ञानात्मकत्वे साध्ये ततश्च प्रत्यक्षत्वाभावे साध्ये । तत्समर्थनार्थ उत्तरो ग्रन्थः । तदर्थमुपसंहृत्यान्ते साधनम् -अत इदं नैव प्रत्यक्षम् , अतथाभूतार्थाध्यारोपात्मकत्वात् , भ्रान्तिवत्, नावारूढस्य तीरवृक्षधावनदर्शनात्मिकामेकां क्रियाभ्रान्ति मुक्त्वा प्रोक्तचतुर्विधभ्रान्तिवत् । उपनयस्तु व्यवहारप्रसिद्धस्य परमाणुनीलत्वग्रहणस्य सर्वत्रातथाभूतार्थप्रतिपत्तिसाधर्म्यात् । अथवा तत एव 20 हेतोः संवृतिसज्ज्ञानवदप्रत्यक्षम् । तद्वयाख्या - यथा गोपालेत्यादिना दृष्टान्तं समर्थ्य तथा संवृति
सतीत्यादिना दार्टान्तिकसमर्थनम् । ___संवृतिसल्लक्षणे ज्ञापकमाह -यस्मिन् भिन्ने श्लोकः । यस्मिन् घटे भिन्ने कपालशकलशर्करादिभावेन घटाभिमताद्वस्तुनोऽन्येष्वप्यपोढेषु कपालादिषु न घटबुद्धिरस्ति, तदग्रहे तद्बुद्ध्यभावात् , अङ्गुल्य- १ संज्ञासंख्यासंस्थानवर्णा य० ॥ २ संज्ञा च संस्थानं च वर्ण च प्र० ॥ ३ °वात्कल्पना प्र० ॥ ४ दृष्टान्तः य० ॥ ५ हेतोर्वा भ्रांति य० ॥६ भ्रान्तिमुक्त्वा प्र०॥ ७ दृश्यतां पृ० ६७ पं० ७ । "चत्वार्यपि सत्यान्युक्तानि भगवता द्वे अपि सत्ये-संवृतिसत्यं परमार्थसत्यं च । तयोः किं लक्षणम् ? यत्र भिन्ने न तदुद्धिरन्यापोहे धिया च तत् । घटाम्बुवत् संवृतिसत् परमार्थसदन्यथा ॥ ६॥४॥ यस्मिन्नवयवशो भिन्ने न तद्बुद्धिर्भवति तत् संवृतिसत्, तद्यथा-घटः । तत्र हि कपालशो भिन्ने घटबुद्धिर्न भवति । यत्र चान्यानपोह्य धर्मान् बुद्ध्या तद्बुद्धिर्न भवति तच्चापि संवृतिसद् वेदितव्यम् , तद्यथा- अम्बु । तत्र हि बुद्ध्या रूपादीन् धर्मानपोह्य अम्बुबुद्धिर्न भवति, तेष्वेव तु सा संवृतिसंज्ञा कृता इति संवृतिक्शाद् घटश्च अम्बु चेति ब्रुवन्तः सत्यमेवाहुः न मृषेति एतत् संवृतिसत् । अतोऽन्यथा परमार्थसत्यम् । यत्र भिन्नेऽपि तद्बुद्धिर्भवत्येव अन्यधर्मापोहेऽपि बुद्ध्या तत् परमार्थसत्, तद्यथा-रूपम् । तत्र हि परमाणुशो भिन्ने वस्तुनि रसादीनपि च धर्मानपोह्य बुद्ध्या रूपस्वभावबुद्धिर्भवति । एवं वेदनादयोऽपि द्रष्टव्याः। एतत् परमार्थेन भावात् परमार्थसत्यमिति । यथा लोकोत्तरेण ज्ञानेन गृह्यते तत्पृष्ठलब्धेन वा लौकिकेन तथा परमार्थसत्यम्, यथान्येन तथा सत्यं संवृतिसत्यमिति पूर्वाचायोः । उक्तानि ६. त्यानि।"- इति विद्वद्वरश्रीप्रहादप्रधानमहोदयैः सौजन्यतः प्रदत्तेऽभिधर्मकोशभाष्ये ६४॥८°वपों भा. डे• लीं॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org