________________
दिनागकल्पितप्रत्यक्षे दोषाः] द्वादशारं नयचक्रम् न हि तदनेकद्रव्योत्पाद्यम् । न च सञ्चयः कश्चिदस्ति, अत एव न प्रत्ययस्यालम्बनं युज्यते, अनालम्बनत्वाचाभासार्थोऽपि न तत्रास्ति वन्ध्यापुत्रपुत्रत्वानाभासनवत् ।
खाभासां हि विज्ञप्ति जनयदालम्बनं युज्यते । अखत्वात्त्वस्य अद्रव्यत्वात् कुत आभासविज्ञापनम् ? खे तु परमाणवो नाभासमुत्पादयितुमलम् , अतीन्द्रियत्वात् । इति प्रत्यक्षज्ञानं नोत्पद्यते, निरालम्बनत्वात्, खपुष्पवत्।
।
तेषां पत्राणामनारब्धलक्षणकार्यत्वात् । न हि पनविशेषैरारब्धं किश्चित् कार्यान्तरमस्ति, ते एव ह्यनारब्धलक्षणाः पत्रविशेषाः सञ्चित्य कार्याभूताः, तस्मान्न तेष्वन्यत् सामान्यमस्ति । एवमणुष्वपि, परमाणुष्वपि तथा न किञ्चित् सामान्यमस्ति । तस्मान्न स्वार्थे सामान्यगोचरं तज्ज्ञानमिति ।
___ यदपि चोक्तम् - अनेकद्रव्योत्पाद्यत्वात् तत् स्वायतने सामान्यगोचरमित्युच्यते न तु भिन्नेबभेदकल्पनात् [प्र० समु० वृ० १४] इति, सा त्वदिष्टा सामान्यगोचरतापि च न घटते, यस्मान्न 10 तदनेकद्रव्योत्पाद्यम् । कुतस्तद्युत्पद्यते ? सञ्चयात् । न च सञ्चयः सामान्यम् , ततो न च स रूपादिभ्यो भेदेन कश्चिदस्ति रूपादिसञ्चयः । अत एव न प्रत्ययस्यालम्बनं युज्यते, प्रत्ययो ज्ञानम् । किं कारणम् ? अभूतत्वाद् वन्ध्यापुत्रवत् । स्यादाशङ्का - स्वाभासज्ञानोत्पत्तेरालम्बनं भविष्यति समुदायोऽकारणत्वे सत्यपीति । एतत् कुतः ? अकारणत्वादेवालम्बनत्वाभावे का प्रत्याशा आभासार्थस्य ? इत्यत आहअनालम्बनत्वाच्च आभासार्थोऽपि न तत्रास्ति । किमिव ? वन्ध्यापुत्रपुत्रत्वानाभासनवत् । 15 यथा ह्यसत्त्वादनालम्बनं वन्ध्यापुत्रोऽनालम्बनत्वाच्चानाभासस्तथा सञ्चय इति ।
६५.१ स्वाभासां हीत्यादि । विषयो हि नाम यस्य झानेन स्वभावोऽवधार्यते [आलम्बनपरीक्षावृ० १] इति त्वदुक्तोपपत्तिरेवात्र व्यापार्यते । तत् पुनः कुतः ? अस्वत्वादनात्मकत्वात् । यस्त्वात्मना स्वभावेनासिद्धः स विषयः स्याज्ज्ञानस्येति का युक्तिः ? अस्वत्वात्त्वस्याद्रव्यत्वात् परमार्थसत्त्वाभावात् कुत आभासविज्ञापनं परवाचोयुक्त्या, विज्ञापनं विज्ञप्तिर्बुद्धिरिति पर्यायाः, दूरत एव नास्तीत्यर्थः । एवं 20 तर्हि स्वे तु परमाणव आत्मानः ते विषयतां यान्तु, नेत्युच्यते, ते नाभासमुत्पादयितुमलमतीन्द्रियत्वात् । अतीन्द्रियत्वं निराभासत्वाद् वियद्वदिति । इतिशब्द उपसंहारे, इतीत्थमनालम्बनत्वं सञ्चयस्याणूनां च सिद्धं प्रत्यक्षज्ञानस्य, तस्मात् प्रत्यक्षज्ञानं नोत्पद्यते, निरालम्बनत्वात् , खपुष्पवत् । अतः प्रत्यक्षस्य निरालम्बनस्य खपुष्पवदनुत्पत्तेरुक्तोपपत्तिविधिना कल्पनापोढस्य सविषयस्य प्रत्यक्षस्य ज्ञानस्य वाऽभावे प्रतिपादिते स्ववचनव्यपेक्षाक्षेपदुस्तरविरोधप्रस्तुतेश्च 'कल्पनापोढं प्रत्यक्षम्' 25 इत्येतल्लक्षणमनर्थकं स्यात् , लक्ष्यस्याभावात् , खरविषाणकुण्ठतीक्ष्णादिनिर्णयवत् ।
१ रब्धस्वलक्षणकायस्वात् प्र० । तुलना-"तेषामनारब्धलक्षणकार्यत्वात्" पृ० ८७ पं० १॥ २ त ए हना य० ॥३कायीभूताः वि. विना ॥ ४ तज्ञान प्र० ॥ ५ दृश्यतां पृ० ८६ पं० १० । पृ० ७९ टि. ७ ॥ ६ स्यादशंका य० ॥ ७ आभार्थोपि भा० ॥ ८°पुत्रे प्र० ॥९ स्वाभासं ही य० ॥ १० स्वाभावोववायत इति भा० । स्वभावोववाय इति य० ॥ ११ °सविज्ञानं भा० ॥ १२ विज्ञपनं २० ही• विना ॥ १३ आत्मनः य०॥ १४ शब्दोपसं प्र.॥ १५ ज्ञानस्योनावेऽप्रति भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org