________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[प्रथमे विध्यरे जनितज्ञानवत् । अस्खलक्षणविषयत्वं चोभयत्र।
अनेकैकत्वापत्तिसामान्यगोचरखलक्षण एवासावर्थ इति चेत्, न, आरात्परान्तमध्यवर्णप्रमाणसंस्थानविविक्तवृत्त्यवस्थपत्रविशेषस्खलक्षणविषयसामान्यानात्मकत्वात्। न च सङ्घातः कश्चिदस्ति, तेषामनारब्धलक्षणकार्यत्वात्। एवमणुष्वपि, 5 बलाकालिङ्गाजनितज्ञानवत् , 'धूमादत्रामिः, बलाकाभ्योऽत्र जलम्' इति लिङ्गजनितयोरग्निजलज्ञानयोरपि
खरूपतोऽनुमानत्वाभेदः, एवं रूपादिषूत्पद्यमानानां प्रत्यक्षा भिमतानामनुमानत्वाभेदः । एतस्मादेव हेतो६४.१ रस्वलक्षणविषयत्वं च, अस्वलक्षणविषयं प्रत्यक्षम् , अनेकार्थजनितसामान्यगोचररूपादिप्रकारपरिग्रहात्,
अनुमानवत् । उभयत्रेत्यनेन अनुमानेऽप्यस्वलक्षणविषयत्वम्, तत एव हेतोः, अनन्तरभावितप्रत्यक्षवत् ।
अथवा उभयत्रेति स्खलक्षणे सामान्यलक्षणे चास्वलक्षणविषयत्वम् । कथम् ? स्वलक्षणाभिमतमस्खलक्षणम् , 10 अनेकैकीभावात् , समुदायवत् । तत्सामान्यमपि न स्वलक्षणम् , अत एव, अनन्तरोक्तसमुदायवत्। सामान्यास्खलक्षणत्वं सिद्धं साध्यत इति चेत्, न, 'स्वार्थ एव सामान्यगोचरम्' इति वचनात् स्वार्थत्वेनाभ्युपगतत्वादिति । अवश्यं चैतदेवमभ्युपगन्तव्यम् , यतः शमीशाखापत्रसज्ञाताविशेषदर्शनोदाहरणेन च स्फुटमेव दर्शितमप्रत्यक्षत्वमेननुमानत्वमप्रमाणत्वमस्वलक्षणविषयत्वं विषयसङ्कर इत्येवमादि दोषजातम् ।
अनेकैकत्वापत्तिसामान्यगोचरस्वलक्षण एवासावर्थ इति चेत् । स्यान्मतम् - अनेकस्यैकत्वा1 पत्तिः सामान्यम् , स एव गोचरोऽस्येति* अनेकैकत्वापत्तिसामान्यगोचरः, स एव स्वलक्षणः सामान्यगोचर एव स्वलक्षणः, असावेवार्थः प्रत्यक्षस्येत्येषा भवत आशंसा चेत्, न, आरात्परान्तमध्येत्यादि यावत् स्वलक्षणविषयसामान्यात्मकत्वात् । नैतदुपपद्यते, पूर्वपरादिपरस्परविविक्तावस्थपत्रविषयसामान्यात्मकत्वात् । आरादन्तः, परान्तः, मध्यः, नीलप्रकर्षादिवर्णः, हस्बैदीर्घाल्पमहत्त्वादि प्रमाणम् ,
वृत्तादि संस्थानं च, तैर्विविक्ता वृत्तयोऽवस्थाश्च येषां पत्रविशेषाणां ते तैर्विविक्तवृत्त्यवस्थपत्र विशेषाः, 20 त एव स्वलक्षणाः, ते विषयोऽस्य सामान्यस्य तत् स्खलक्षणविषयं सामान्यमात्मा स्वरूपमस्य, तद्भावः ६४-२ सामान्यात्मकत्वम् , तस्मात् सामान्यात्मकत्वात् । एतदुक्तं भवति - देशार्केतिवर्णप्रमाणसंस्थानादिमि
रत्यन्तविशिष्टानां खलक्षणानामेव सामान्यात्मकत्वम् , नान्यत् सामान्यमस्ति, अतोऽनुपपन्नम् - अनेकैकापत्तिसामान्यगोचरस्खलक्षण एवार्थ इति । ननूक्तमनेकैकापत्तिसामान्यगोचरमिति, तन्न, यस्माद् न च सङ्घातः कश्चिदस्ति । चशब्दान्नावयवी, न च परिणामान्तरं तद्वयतिरिक्तं त्वन्मतेन । कस्माद्धेतोः ?
१°विप्रत्य प्र० ॥२ च स्व० प्र० ॥ ३ स्वार्थत्वेचाभ्यु प्र० ॥ ४ वभ्युप' भा० ॥ ५ मनुमानत्व प्र० । 'प्रत्यक्षमपि वानुमानभेद एव स्यात्' [पृ० ८९ पं० ७] इति वचनानुसारेण मनुमानत्व' इति सर्वप्रतिषु दृश्यमानस्य पाठस्यात्र सङ्गतत्वेऽपि शमीशाखापत्रसङ्घाताविशेषोदाहरणानन्तरम् 'नन्वत एव न तत् प्रत्यक्षम् , खार्थे सामान्यगोचरत्वात् , अनुमानवत् । अनुमानमपि वा न' [पृ० ८७ पं० ४] इत्यभिहितत्वात् "मननुमानत्व' इति पाठोऽत्र समीचीनतर इति प्रतिभाति ॥ ६ ** एतचिह्नान्तर्गतः अनेकैकत्वा इत्यत आरभ्य ऽस्येति इत्यन्तः पाठो य०प्रतिषु नास्ति ॥ ७°न्यं गोचरः प्र.॥८°क्षण सामा य०॥९ आसंचेत भा०॥ १० आचात्परान्त प्र०॥ ११ पूर्वापरा भा०॥ १२ 'वस्थापत्रवि भा० । 'वस्थापनवि य० ॥ १३ °दीर्घाभ्यमह° य० ॥ १४ पत्रशेषाः प्र० ॥ १५°क्षणाः खविषयो य० । क्षणाः । स विषयो भा० ॥ १६ °कृतियोवर्ण य० । कृतियोर्वर्ण भा०॥ १७°सामान्यसामान्यगोचर य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org