________________
दिङ्गागकल्पितप्रत्यक्षे दोषाः] द्वादशारं नयचक्रम् नियतमनुमानम् [प्र० समु० वृ० १।२]। प्रमेयाधिगमनिमित्तं हि प्रमाणम् । न चैतददृष्टार्थम्। न च प्रमाणयोर्विषयसङ्कर इत्यधिगम्यस्य द्वित्वात् तदधिगमनिमित्तं द्विरूपमित्येवं व्यवस्थापिते सामान्यगोचरव्यावृत्तार्थेन स्वार्थेन भवितव्यम्। ततः 'खार्थे सामान्यगोचरम्' इत्येतद् विरुध्यते। ....
सामान्ये खविषये प्रत्यक्षं ज्ञानमुत्पद्यते इति चेत्, सामान्यमेव 3 खविषयः, स्खलक्षणं नास्ति । अतो लक्षणद्वयाभावात् प्रमेयप्रमाणद्वित्वावधारणकल्पना व्यर्था, प्रमाणयोर्वा विषयसङ्करः प्राप्तः। प्रत्यक्षमपि वानुमानभेद एव स्थात्, अनेकार्थजनितसामान्यगोचररूपादिप्रकारपरिग्रहात्, धूमबलाकालिङ्गयस्माल्लोके दृष्टं प्रमेयाधिगमनिमित्तं प्रमाणम् , हिशब्दस्य हेत्वर्थत्वात् , प्रमेयाधिगमनिमित्तं हि प्रमाणमिति । न चेतत् 'अग्निहोत्रं जुहुयात् स्वर्गकामः, दानं दद्याद्धर्मकामः' [ ] इत्येवमाद्यागम-10 ददृष्टार्थम् , प्रत्यक्षदृष्टार्थमेवैतदुपलम्भकत्वादुपलभ्यस्य द्विविधस्य दृष्टत्वात्। न च प्रमाणयोर्विषयसङ्कर इति प्रागुक्तयुक्तिका विविक्तविषयतां दर्शयति । इतिशब्दः प्रदर्शने, एतावानत्र सङ्केपेणार्थः, तद्विस्तरोऽपरो ग्रन्थ इति सूचयति ।
___इदानी व्यवस्थापितार्थोपसंहारार्थमिदं वाक्यमाह -अधिगम्यस्य द्वित्वात् तदधिगमनिमित्तं द्विरूपमित्येवं व्यवस्थापिते लक्षणशब्दोऽर्थपर्यायवाची नेन्द्रियग्राह्यविशेषार्थप्रकृत इत्येतस्मिंश्चार्थे स्थिते 15 प्रत्यक्षानुमानयोः स्वरूपाभावः स्ववचनविरोधैंश्च दोषाः 'स्वार्थे सामान्यगोचरम्' इति ब्रुवतः प्रोक्तविधिनेति स्थितम् । पुनश्चात्र दोषः - एवमवस्थिते सामान्यगोचरव्यावृत्तार्थेन स्वार्थेन भवितव्यम् । ततः को दोषः ? 'स्वार्थे सामान्यगोचरम्' इत्येतद्विरुध्यते, न हि तादृशः स्वार्थस्य सामान्यतासम्बन्धोऽस्ति, नापि सामान्यस्य स्वार्थसम्बन्ध इति । - मा भूदेष दोष इति तस्मिन्नेव सामान्ये स्वविषये स्वार्थे प्रत्यक्षं ज्ञानमुत्पद्यत इति चेत् , 20 तत एवं सामान्यमेव स्वविषयः स्वलक्षणं नास्ति । अतः परिभाषितासाधारणस्वलक्षणविषयाभावादेवं : . कल्प्यमाने लक्षणद्वयं नास्ति, एकमेव सामान्यलक्षणम्, द्वयाभावात् तद्विषयमेकमेवानुमानं प्रमाणं स्यात् । ततश्च प्रमेयप्रमाणद्वित्वावधारणकल्पना व्यर्था, मा भूदवधारणवैयर्थ्यमिति, स्वार्थे सामान्ये च प्रत्यक्षं प्रवृत्तं तथानुमानं चेति प्रमाणयोर्वा विषयसङ्करः प्राप्तः । वाशब्दादेकस्य ज्ञानस्य द्वथर्थता वा । प्रत्यक्षमपि वा परपरिकल्पितमनुमानभेद एव स्यात् । कस्माद्धेतोः ? अनेकार्थजनितसामान्य- 25 गोचररूपादिप्रकारपरिग्रहात् । मा ज्ञासीदसिद्धोऽयं हेतुरिति, त्वयैवोक्तं हि
तत्रानेकार्थजन्यत्वात् स्वार्थे सामान्यगोचरम् । [प्र० समु० १।४] इति । अनेकेन भिन्नेनार्थेन अभिन्नमेकं सामान्य रूपं रस इत्यादिप्रकारं परिगृह्योत्पद्यमानं ज्ञानं तेन जनितं तत् , तस्मादनेकार्थजनितसामान्यगोचररूपादिप्रकारपरिग्रहात् तस्य ज्ञानस्य । को दृष्टान्तः ? धूम
१°वदृष्टार्थ य० ॥ २ प्रत्यक्षं दृष्टार्थ प्र०॥ ३°प्राकृत प्र० । अत्र प्रवृत्त इत्यपि पाठः स्यात् ॥ ४°ध च प्र. ॥५°त्तार्थेन भवितव्यम् य० ॥६ स्वार्थस्य प्र०॥ ७°लक्षणद्वया य० ॥ ८°धारणे य० ॥
नय० १२ Jain Education International For Private & Personal Use Only
www.jainelibrary.org