________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[ प्रथमे विध्यरे
स्ववचनविरोधि कुमारब्रह्मचारिपितृवचनवच्चैतत् 'अस्वार्थविशिष्टे स्वार्थे स्वविषये रूपादिप्रकारे सामान्यगोचरम्' इति, यस्मादर्थविषयशब्दौ लक्षणार्थावेव, उक्तं हि स्वयैव - प्रत्यक्षमनुमानं च प्रमाणे । यस्मालक्षणद्वयं प्रमेयम् । न स्वसामान्यलक्षणाभ्यामन्यत् प्रमेयमस्ति । स्वलणक्षविषयनियतं प्रत्यक्षम्, सामान्यलक्षणविषय
5
८८
1
‘स्वार्थे सामान्यगोचरम्' इत्येतत् स्ववचनविरोधि । किमिव ? कुमारब्रह्मचारिपितृवचनवच्चै - तत्, यथा कश्चिद् ब्रूयात् 'पिता मे कुमारब्रह्मचारी' इति, तस्य तद्वचनं स्वत एव विरुध्यते - यदि पिता कथं कुमारब्रह्मचारी ? अथ कुमारब्रह्मचारी कथं पिता ? इति, तथेदमपि यदि तज्ज्ञानं स्वार्थे कथं ६२-२ सामान्यगोचरम् ? अथ सामान्यगोचरं कथं तत् स्वार्थे ? स्वार्थ इति च त्वया न चक्षुषोऽन्यस्य वेन्द्रियस्य विषय इति विशेषमाश्रित्य लक्षणमभिधीयते, किं तर्हि ? प्रमेयमुच्यते सामान्यतो वस्तु 'स्वलक्षणं स्वार्थः ' 10 इति । तथा सामान्यलक्षणमिति न धूमानुमेयाग्निमात्रम्, किं तर्हि ? लिङ्गगम्यं सर्वम् । एतस्यार्थस्य प्रतिपादनार्थमाह स्वार्थलक्षणमेव निरूपयन् - अस्वार्थविशिष्टे, स्वोऽर्थः स्वार्थः, न स्वार्थोऽस्वार्थः स्वार्थादन्यः, ततो विशिष्टः स्वार्थः, तस्मिन् स्वार्थे, तमेवार्थं पर्यायेणाह - स्वविषये, किमुक्तं भवति ? एकस्मिन् रूपादिप्रकारे प्रकृष्टे कारे रूपे रसेऽन्यस्मिन्नेव सामान्यगोचरमिति, सामान्यविषयं च स्वार्थे ज्ञानमिति च विस्पर्धितमेतत् परस्परतो द्वयम् । यस्मादर्थविषयशब्दौ लक्षणार्थावेव लक्षण15 शब्द पर्यायवाचिनौ तस्मात् स्वार्थः स्वविषयः स्वलक्षणमित्येतद्विवक्षितं भवतः, तद्विस्मृत्य भ्रान्तेन नेन्द्रियग्राह्यस्वार्थसामान्यभेदकैल्पनात् परिहारो युज्यते वक्तुम् । कस्मात् ? प्रत्यक्षव्याख्याविषयत्वात् स्वार्थस्वलक्षणस्वविषयशब्दानाम् ।
I
मा मंस्थाः – नैतदेवं भवतीति, उक्तं हि प्रमाणसङ्ख्यानिरूपणे त्वयैर्वै - प्रत्यक्षमनुमानश्च प्रमाणे इत्यादि । प्रमाणद्वित्वं नियम्यते, प्रमेयद्वित्वात्, परिमेयद्वित्वनियतप्रस्थतुलादिपरिमाणद्वित्ववत् । तद्दर्शयति20 यस्मालक्षणद्वयं प्रमेयम् । स्यान्मतम् - प्रमेयान्तरं स्वसामान्यद्विरूपलक्षणम्, तदपेक्षया प्रमाणान्तरं स्यादिति । तन्निवारणार्थमाह - न हि स्वसामान्यलक्षणाभ्यामन्यत् प्रमेयमस्ति, प्रत्यक्षानुमानाभ्यामग्रहणात्, खरविषाणवत् । स्यान्मतम् - तत्रैव विषयद्वये विकल्पसमुच्चयाङ्गाङ्गिभावैः प्रत्यक्षानुमाना६३-१ गमादीनां प्रमाणानां वृत्तिर्भविष्यतीति, तन्न भवति, यस्मात् स्वलक्षणविषयनियतं प्रत्यक्षं सामान्यलक्षणविषयनियतमनुमानमित्युक्तम् । कथं पुनर्लक्षणशब्दोऽर्थपर्यायः ? अर्यते गम्यत इत्यर्थः । तथा 25 लक्ष्यत इति लक्षणं कर्मसाधनत्वाल्लक्षणशब्दस्य । तच लक्षणं वस्तु स्वभावः स्वरूपमर्थः प्रमेयमिति पर्यायाः । तत् पुनर्द्विरूपं परिच्छेद्यं द्वाभ्यां प्रमाणाभ्यां परिच्छेद्यत्वात्, प्रमाणं परिच्छेदकं प्रमेयं परिच्छेद्यमित्यर्थः ।
१ 'चनविरोधे प्र० ॥ २ सामान्यं लक्ष प्र० ॥ ३ ष्टः तस्मिं भा० ॥ ४ एकस्मिन्नपादि प्र० ॥ ५ साथै प्र० ॥ ६ षय स्वलक्षणमित्येतद्विपक्षितं प्र० ॥ ७ कल्पना परि० प्र० ॥ ८ * * एतच्चिह्नान्तर्गतः प्रत्यक्ष' इत्यत आरभ्य त्वयैव इत्यन्तः पाठो भा० प्रतौ नास्ति ॥ ९ नैतदेवं न भवतीति य० । अत्र ' नैतदेवं संभवतीति' इत्यपि पाठः स्यात् । भा० प्रतौ तु अत्र सर्वोऽपि पाठो नास्त्येव ॥ १० " प्रत्यक्षमनुमानं च प्रमाणे द्वे एव । यस्मालक्षणद्वयं प्रमेयम् । न हि खसामान्यलक्षणाभ्यामन्यत् प्रमेयमस्ति । स्वलक्षणविषयं हि प्रत्यक्षम्, सामान्यलक्षणविषयं ह्यनुमानम्” - प्र० समु० वृ० १२ ॥ ११ न्यद्वित्वरूप' य० । १२ 'ङ्गाङ्गीभावैः प्र० । १३ अयते प्र० । 'ऋ गतौ' [पा० धा०] इति धातोः ‘अर्यते' इति रूपम्। “अर्यतेऽसौ अर्थ: " - अभि० चिन्ता० स्वो० २।१०६ ॥ १४ स्वाभ्यां भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org