________________
दिङ्गागकल्पितप्रत्यक्षे दोषाः] द्वादशारं नयचक्रम् पत्रालम्बनं ज्ञानमविवेकनोत्पद्यते, न च सङ्घातः कश्चिदेकोऽस्ति तेषामनारब्धलक्षणकार्यत्वात्, एवमणुष्वपि । अयमसमाधिरेव, अङ्गीकृतार्थविनाशित्वात् , शब्दकृतकत्वाभिव्यक्तिस्थापनार्थप्रवृत्तवैशेषिकवत् खविषयतां प्रतिज्ञाय तदतदभूतसामान्यगोचरोपसंहारात् । नन्वत एव न तत् प्रत्यक्षम् , खार्थे सामान्यगोचरत्वात् , अनुमानवत् । अनुमानमपि वा न।
त्मकम् , न तु भिन्नेष्वभेदैकाकारपरिकल्पनात् तदुत्पद्यते इति । अस्यार्थस्य दृष्टान्तः - यथा हि शमीशाखापत्रेष्वित्यादि । यथा सर्वपत्रालम्बनं ज्ञानमन्तादिमध्याविवेकेनोत्पद्यते एवं प्रत्यक्षमपि । स्यान्मतम् - तद्व्यतिरेकेण पत्रे समुदाये च यथा ज्ञानं प्रत्यक्षमपि* तथा स्यादिति । एतच्चायुक्तम् - न च सङ्घातः कश्चिदेकोऽस्ति, तेषामनारब्धलक्षणकार्यत्वात् । न हि समुदायो वैशेषिककल्पितकार्यद्रव्यवत् पृथगस्ति । नापि परिणामान्तरमापन्नम् , तेषां कारणभूतानां क्षणिकत्वादारम्भनिष्ठाकालभेदावस्थाना- 10 भावादिति । एवमणुष्वपीति दार्टान्तिकं 'निदर्शयति ।
___ अनोत्तरमुच्यते - अयमसमाधिरेव । कुतः ? अर्थस्यास्य जरत्कुटीरवंदारोटनाक्षमत्वात् त्वद्वाक्यजनितस्य प्राक्चोदितदोषस्यायं समाधिरप्यसमाधिरेव, अङ्गीकृतार्थविनाशित्वात् , शब्दकृतकत्वाभिव्यक्तिस्थापनार्थप्रवृत्तवैशेषिकवत् । वैशेषिकस्येव वैशेषिकवत् , 'अचाक्षुषप्रत्यक्षस्य गुणस्य सतोऽपवर्गः कर्मभिः साधर्म्यम् , सतो लिङ्गाभावात् [वै० सू० २।२।२५-२६] कार्यत्वात्' इत्यादिभि- 15 रनित्यत्वं वैशेषिकत्वात् सिद्धं कृतकत्वं च, तस्याभिव्यक्तिस्थापनार्थं प्रवृत्तस्य वैशेषिकस्येवाङ्गीकृतार्थनाशित्वमेवम् 'अनेकार्थजन्यत्वात् स्वार्थे सामान्यगोचरम्' इत्यर्थवचनयोर्दोषः। तद्व्याचष्टे, कुतस्तत्साधर्म्य-६२-१ मिति चेत्, उच्यते - स्वविषयतां प्रतिज्ञाय तदतद्विषयतया तदतदभूतसामान्यगोचरोपसंहारात् । स चासश्च विषयोऽस्य स तदतद्विषयः, तद्भावस्तदतद्विषयता । तदतदभूतं सामान्यम् , तद् गोचरोऽस्य विषय उपसंहारस्य, तस्मादुपसंहारात् । स चान्यश्च विषयः सामान्यस्येति तदन्यतरत्रैव न 20 प्रवर्तते एकतरत्रादृष्टत्वात् , त्वन्मतेनैव प्रेतिवं नियतत्वाद्भावानां नैकरूपमपि तन्न च तत्र वृत्तं न चातोऽन्यत्र। तत्रावृत्तत्वात् तन्न भवति, अतत्रावृत्तत्वादतन्न भवति । ततस्तदतदभूतं सामान्यं गोचरोऽस्योपसंहारस्य यः स तदतद्विषयतया त्वयेदानी क्रियते । तस्मात् तदतद्विषयतया तदतदभूतसामान्यगोचरोपसंहारादङ्गीकृतप्रत्यक्षविनाश इत्यत आह - नन्वत एव न तत् प्रत्यक्षं स्वार्थे सामान्यगोचरत्वादनुमानवत् । स्वार्थे इति स्वविषये स्वप्राये वस्तुनि, येत् स्वग्राह्ये वस्तुनि सामान्यगोचैर तज्ज्ञानमप्रत्यक्षं दृष्टं यथानुमान- 25 मिति । अनुमानमपि वा नेति, नानुमानमपि तत् स्यात् , स्वार्थे सामान्यगोचरत्वात् , प्रत्यक्षवत् ।
१ * * एतच्चिहान्तर्गतः स्यान्मतम् इत्यत आरभ्य प्रत्यक्षमपि इत्यन्तः पाठो भा० प्रतौ नास्ति ॥२°काय' प्र० ॥ ३ निर्द(दि.)शति भा० ॥४°वादा प्र० । रुट प्रतिघाते, प्रतिघाताक्षमत्वादित्यर्थोऽत्र भाति ॥ ५ तपेषस्यायं प्र०॥ ६°कायत्वात् प्र० । दृश्यतां पृ० ५५ पं० १२॥ ७ तदभावस्तदतद्वि य० । तदतद्वि भा०॥ ८ तदतद्भूतं य० ॥९ प्रतिष्टं प्र० ॥ १० तत्र य० ॥११ न प्रत्यक्षं य० ॥ १२ यत् स्वग्राह्ये वस्तुनि इति पाठो य० प्रतिषु नास्ति ॥ १३ °चरात्तद् शानम° प्र.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org