________________
८६
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
भ्युपगमत्वात्त्वेकान्तवादिनां न विशेषदोषः कस्यचिदपि ।
आयतन स्वलक्षणं प्रत्येते स्वलक्षणविषयाः, न द्रव्यस्वलक्षणं प्रति [ अभि० को ० भा० १1१० ] इत्येतत् प्राक् चोदितमेव दोषं प्रतिष्ठापितवानसि । यत्तु 'समस्तालम्बनं विज्ञानं सामान्यविषयं प्राप्नोति, न स्वलक्षणविषयम्' इत्येतत् प्रतिष्ठापितमेव कृतम् । एष तु विशेषदोषः .. कुतः प्रत्यक्षत्वम् ?
6- अज्ञानत्वप्रसङ्गः स्फुटतरकः..
योsपि चैाकार परिकल्पनात् प्रत्यक्षस्य कल्पनात्मकत्वप्रसङ्गोऽस्वलक्षणविषयत्वप्रसङ्गश्च सञ्चितालम्बनतायामिति चोदिते समाधिरभिधीयतेऽखलक्षणत्वदोषपरिहारः -
........
[ प्रथमे विध्य रे
अनेकार्थजन्यत्वात् स्वार्थे सामान्यगोचरम् । 10 अनेकद्रव्योत्पाद्यत्वात् तत् 'स्वायतने सामान्यगोचरम्' इत्युच्यते, न तु भिन्नेष्वभेदकल्पनात् प्र० समु० ० १ ४ ] तेषु पृथक् पृथग्ग्रहणाभावात् । यथा हि शमीशाखापत्रेषु सर्वइमेऽविभावितैवमर्थ्य पूर्वाभ्युपगमा एकान्तवादिनः, तद्भावादविभावितैवमर्थ्य पूर्वाभ्युपगमत्वादुन्मुग्धभ्रान्तमत्तादिवदनपेक्षितस्वाभ्युपगममनेकान्तदूषणम्। तस्मात् कस्य वयं विशेष्य 'अयमेव उन्मुग्धो भ्रान्त उन्मत्तो वा' इति दोषं ब्रूमः ? सर्व एव यूयमेवं 'दोषदुष्टाः, किं तपस्विना विशेषैकान्तवादिनैवापराद्धं वादपरमेश्वर15 परिरक्ष्यलोकतत्त्वविलोपनोद्यमिना ? इत्यत आह - न विशेषदोषः कस्यचिदपीति प्रागभिहितम् । सम्बन्धागतकल्पनात्मकत्वापादनचोद्यदूषणमनुक्त्वा तदभ्युपगमेन परिहारोक्तिः 'आयतन - स्वलक्षणं प्रत्येते स्वलक्षणविषया न द्रव्यस्वलक्षणं प्रति' इत्येतत्तु व्याख्यानं प्रागुच्चार्य चोदितमेव दोषं चलयित्वा प्रतिष्ठापितवानसि स्थिरीकृतवानसीत्यर्थः । यत्तु समस्तालम्बन मित्यादि यावदित्ये - तत् प्रतिष्ठापितमेव कृतमिति । एष तु विशेषः कल्पनात्मकत्वदोषादन्यो दोषः । कतमः ? अज्ञान20 त्वप्रसङ्गः । तद्यथा - स्फुटतरक इत्यादि यावत् कुतः प्रत्यक्षत्वमित्येतदुपदर्शितमिति गतार्थम् ।
योsपि चैकाकारेत्यादि चोद्यप्रत्युच्चारणमेतद् यावत् सञ्चितालम्बनतायाम् । एतदुक्तं भवति - यदि तदेकतो न विकल्पयति कथं सवितालम्बनता ? कल्पनानीन्तरीयिका हि सा कल्पनामन्तरेण न सम्भवतीति चोदिते तत्रोत्तरो वक्ष्यमाणो यः समाधिरभिधीयते स एव च किल अस्वलक्षणत्वदोष६१-२ परिहारोऽभिमतोऽर्थद्वयवा चित्वाविरोधाद्स्य वाक्यस्येति तत् प्रत्युच्चारयति सव्याख्यानम् - अनेकार्थजन्य26 त्वात् स्वार्थे सामान्यगोचरमित्यादि यावत् तेषु पृथक् पृथग्ग्रहणाभावादिति गतार्थम् । पिण्डार्थस्तु - यद्यपि परमाणुसमूहजन्यत्वान्न ज्ञानमर्थतः सामान्यगोचरं तथापि रूपं रसो वा स्वार्थोऽन्यापृक्तत्वादर्थान्तरकल्पने तस्य ज्ञानस्यापटुत्वात् तच्च विज्ञानमुत्पादयितुं शिबिकोद्वाहवत् संहत्य समर्थाः परमावो नान्यथेति सामान्यगोचरतातु, को दोषः । यदि तद् भिन्नेष्वभेदं कल्पयदुत्पद्येत स्यात् कल्पना
"
Jain Education International
१ गमनेकान्त प्र० ॥ २ दोषद्रष्टाः भा० । दोषद्रष्टारः य० ॥ ३ परात्वं य० ॥ ४ वादिपरमेश्वर' प्र० । दृश्यतां पृ० ८३ पं० २ ॥ ५ 'तनं खल प्र० । दृश्यतां पृ० ७९ पं० २४ ॥ ६ दृश्यतां पृ० ७९ पं० २३ ॥ ७ दृश्यतां पृ० ७९ टि० ७ ॥ ८ भवता भा० ॥ ९ नन्तरी' प्र० । १० मतोर्थयद्वाचित्वा य० ॥ ११ वाकस्येति य० । वावस्येति भा० ॥ १२ स्तार्थोऽन्यापृथक्तत्वाद वि० । स्तार्थोन्यापृक्तत्वाद वि० विना ॥
For Private & Personal Use Only
www.jainelibrary.org