________________
अनेकान्तवादसंश्रयापादनम्] द्वादशारं नयचक्रम्
ननु कदाचिच्छब्दः कालान्तरवचनः, न, एककाल एवोभयरूपत्वात् स्यात् तत् तत् स्यान्न तत् तत्, ग्रहणापदेशविशिष्टार्थत्वात्, अनेकवर्णमणिरूपवदेकपुरुषपितृपुत्रत्वादिवद्वा।
अतोऽनपेक्षितखाभ्युपगममनेकान्तदूषणमापद्यते । अविभावितैवमर्थ्यपूर्वायथोक्तम् -- भेदसङ्घाताभ्यां चाक्षुषाः [तस्वार्थ० ५।२८ ] इति । उक्तहेतुवदिति, तथाऽविभक्ततत्त्वज्ञानो-5 त्पत्तेर्भेदाभेदात्मकज्ञानोत्पत्तिदेतदपि वस्तु भेदाभेदात्मकमिति ।।
इतर आह - ननु कदाचिच्छब्दः कालान्तरवचनः । तस्मिन्नेव हि वस्तुनि कदाचित् कालान्तरे ज्ञानमेकाकारमुत्पद्यते कदाचिदनेकाकारम् , ज्ञानस्यैवाकारवत्त्वान्निराकारबाह्यवस्तुपक्षे इति । अत्रोच्यतेतन्न, एककाल एवोभयरूपत्वात् । एकस्मिन्नेव हि काले नीलपरमाणुसमूहाकारज्ञानस्य भेदाभेदात्मकत्वं दृष्टम् , अतो न सम्यगुक्तम् – 'कदाचिच्छब्दः कालान्तरवचनः, तस्मादेकाकारं कदाचित् कदाचिदनेकाकारं 10 ज्ञानमुत्पद्यते तस्मिन्नेव वस्तुनि' इति । तस्माच्चैककाल एवोभयरूपत्वात् स्यात् तत् तत् , तदेव तद्वस्तु परमाणुद्रव्यसमूहाभेदात् । स्यान्न तत् तत् , रूपादिपरिणामभेदात्। हेत्वन्तरमप्यत्रोच्यते -ग्रहणापदेशविशिष्टार्थत्वात् , ग्रहणं ज्ञानम् , ज्ञानमेवापदेशो हेतुः, तेन हेतुना विशिष्टो पँहणापदेशविशिष्टश्वासापर्थश्च, तद्भावो ग्रहणापदेशविशिष्टार्थत्वम् । यस्माच्चक्षुर्विज्ञानाद्धेतोर्विशिष्टोऽर्थो रूपं समुदायसमुदाय्यात्मकं गृह्यते तस्मादनेकात्मकं तद्वस्तु । को दृष्टान्तः? अनेकवर्णमणिरूपवत् , एक एव वा मणिर्मेचकस्फटिका- 15 द्यन्यतमस्तद्रूपवत् , नानावर्णानां वा मणीनां समूहस्य रूपवत् । यथा तद् ग्रहणापदेशविशिष्टं ज्ञानपरि- ६०-२ च्छिन्नं विभिन्नरूपं तथा चक्षुर्विषयाभिमतं वस्तु। एकपुरुषपितृपुत्रादिवद्वेति ग्रहणापदेशविशिष्टत्वसाधर्म्यदृष्टान्तान्तरम् । यथैकः पुरुषोऽनेकसम्बन्धिजनापेक्षया "पिता पुत्रो भागिनेयो मातुलः' इत्येवमादिव्यपदेश्यत्वं भजते न चास्य विरोध-सङ्करा-ऽनवस्थाप्रसङ्गदोषा ग्रहणापदेशविशिष्टार्थत्वादेवं चक्षुर्विज्ञानविज्ञेयं वस्तु प्रतिपत्तव्यम् ।
- 20 अतोऽनपेक्षितेत्यादि । अत एव कारणाद् येऽत्र चोदयन्ति परस्परविरुद्धानां कथमेकत्र सम्भवः [ ] इति, तेषां तदनपेक्षितस्वाभ्युपगममनेकान्तदूषणमापद्यते, स्वोऽभ्युपगमः स्वाभ्युपगमः, स नापेक्षितो यस्मिन् दूषणे तदनपेक्षितस्वाभ्युपगममनेकान्तदूषणम् । तद्यथा- सर्वं सर्वात्मकमविशिष्टं प्रतिज्ञाय परिणामभेदव्याख्यानं चानपेक्ष्यानेकान्तदूषणम् , देशकालकृतात्यन्तविशिष्टत्वं प्रतिज्ञाय सन्तानाविशेषव्याख्यानं चीनपेक्ष्यानेकान्तदूषणम् , असत्कार्योत्पत्तिं प्रतिज्ञाय तुल्यजातीयद्रव्यगुणान्तरारम्भनियम-23 व्याख्यानं चानपेक्ष्यानेकान्तदूषणं च । कस्माद्धेतोः ? अविभावितैवमर्थ्यपूर्वाभ्युपगमत्वात्त्वेकान्तवादिनाम् । उक्तानेकान्तस्वरूपोऽर्थ एवमर्थः, तद्भाव ऐवमर्थ्यम् , अविभीवितमैवमर्थ्य पूर्वाभ्युपगमश्च यैस्त ६१-१
१ चाक्षुष इति भा० ॥ २°वदेपदपि वस्तु भेदात्मकमिति प्र० ॥ ३ काल नील प्र० ॥ ४ ग्रहणाविशिष्ट य० ॥ ५°साधर्थश्च प्र० ॥ ६°दायात्मकं य०॥ ७°चकः स्फटिका य०॥ ८शविशिष्टं . शानं परिच्छिन्नं विभिन्नरूपं भा० । 'शविशिष्टशानं परिच्छिन्नविभिन्न रूपं य०॥ ९ स्वाभ्युप प्र० ॥ १० नापेक्षतो भा० । नापेक्षते य० ॥ ११ तदान य० ॥ १२ सानपेक्ष्या प्र०॥ १३ एवमर्थ्यम् प्र० ॥ १४ भातमै य.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org