________________
૮૪
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[ प्रथमे विध्यरे
अत्र चैकरूपायतनाधारतया 'तत्र' शब्देन अनन्तरनिदिष्टमेव रूपायतनमुक्तं तस्यैवोभयरूपता पुनर्दर्शिता । एवं च तस्यैवैकानेकता, तथाऽविभक्ततत्त्वेन ज्ञानोत्पत्तेः । ततश्च स्यादेकं रूपायतनं स्यादनेकं रूपायतनम् उक्तहेतुवत् ।
द्रव्येण कदाचिज्ज्ञानमुत्पादयति कदाचिदनेकेनेति तद्वयवच्छेदाव्यवच्छेदाभ्यामिति, तदभ्युपगमात् स्याद्वाद6 समाश्रयः । स्याद्वादैकदेशाश्च नया एकान्तवादा:, यथोक्तम् - भहं मिच्छदंसण [ सन्मति ० ३।५९ ] गाहा । नैताः स्वमनीषिकाः, लक्षणमपि तथैव नयानाम्, उक्तं हि - द्रव्यस्यानेकात्मकत्वेऽन्यतमात्मकैकान्तपरिग्रहो नयः स्वप्राधान्येनार्थनयनान्नयः [ ], स च मिध्यादृष्टिरनेकाकारार्थस्य विपरीतप्रतिपत्तित्वात्, अनेकात्मकवस्तुप्रतिपत्तित्वात् स्याद्वादस्य याथार्थ्यम् । कथं पुनर्लोकभूतेन व्यवहार नयेनैकान्तवादिनो निगृह्यन्त इति चेत्, लोकनाथसमाश्रितत्वात् तेषां लोकनाथपक्षसमाश्रय एव प्रतिवादिपक्षाभ्युपगमः, स 10 निग्रहस्थानमेकान्तवादिनामभ्युपगमसमकालमेवावसितो वाद इति ।
५९-२
"
अत्र चैकरूपायतनाधारतयेत्यादि । त्वयापि स्याद्वाद्यभ्युपगतानेकात्मकवस्त्वेकानेकत्वानेकान्तवादोऽभ्युपगत एव, यस्मादैनेकप्रकारभिन्नमित्यादि यावदनेकवर्णसंस्थानं पश्यत इत्यत्र च वाक्ये एकमेव रूपायतनं ज्ञानाधार इतीष्टम्, यस्मात् तदाधारतया पुनः तंत्र इत्यधिकरणवाचिप्रत्ययान्तेन 'तत्र'शब्देनानन्तरनिर्दिष्टमेव रूपायतनमुक्तमव्यतिरेकमभेदं तस्य वस्तुन आगृह्येोक्तम् । तस्यैवोभयरूपता 15 पुनर्दर्शिता 'कदाचिदेकेन द्रव्येण कदाचिदनेकेन ज्ञानमुत्पाद्यते' इति ब्रुवता । रूपायतनस्यैवैकानेकसङ्ख्यानिर्देश्यत्वमनभ्युपगच्छता कथं 'तत्र शब्दसामानाधिकरण्यमापादयितुं शक्यते ? यदि तदेकमनेकं च न स्यात्, तथा इतरथा तत्र च रूपायतनेऽन्यत्र वेति स्यात्, न तु भवति ।
"
तस्मादेवं चेत्यादि । एवं चोक्तविधिना तस्य त्वयैवोक्तस्य रूपायतनस्यैकस्यैवैकताकता च अतस्त्वयैवोक्ता । कस्मात् ? तथाऽविभक्तेत्यादि । तेन प्रकारेण तथा अविभक्तं तत्त्वं तद्भावस्तत्त्वं 20 यस्य तदिदमविभक्ततत्त्वम्, तद्भावस्तत्त्वमेकानेकत्वाद्यविभक्तर्वस्तुतत्त्वम्, तेन तथाऽविभक्ततत्त्वेन ज्ञानोत्पत्तेरिति हेतुः । कस्मिन् साध्ये ? तस्यैवैकानेकतायाम् । दृश्यते हि तदेव रूपायतनमेकमनेकं च परमाणवस्तत्समूहश्चेति ज्ञानोत्पत्तिः । दूरान्मणिसमूहमनेकवर्णसंस्थानं पश्यत इत्युदाहरणमप्येवमेवै - कानेकरूपद्रव्यरूपायतनत्वे साध्ये चक्षुर्विज्ञानाधारस्य वस्तुनः साधर्म्यदृष्टान्तत्वं भजते, न एकान्तैकानेकरूपत्वे । ततश्चावश्यमेषोऽर्थ आपद्यते - स्यादेकं रूपायतनं स्यादनेकं रूपायतनमिति । कस्मात् ? 25 स्निग्धरूक्षत्वभ्यां बन्धैक्यपरिणामापत्तेस्तत्समूह ग्राह्यत्वादेकम्, द्रव्यार्थावस्थानात् परमाणूनां स्वरूप६०-१ भिन्नानां भेदादनेकम् । तत एव द्रव्यम्, रूपादिगुणपर्यायपरिणामापत्तेरद्रव्यम् । प्रतिस्वमसाधारणरूपादिपरिणामापेक्षया स्वलक्षणविषयम् । साधारणीभूतभेदसमूहाँपेक्षचाक्षुषत्वादिपरिणामापत्तेः सामान्यविषयम्,
१ यथार्थी भा० । यथार्थ य० ॥ २वादिभिगृह्यन्त य० । वादिभिर्गृह्यन्त भा० ॥ ३ वाद प्रति य० ॥ ४ दृश्यतां पृ० ७८ पं० २ ॥ ५ इतिष्टं २० ही ० । इमिष्टं रं० ही ० विना ॥ ६ तस्यैवोरूपरूपता य० । तस्यैवोरूपरूपरूपता भा० ॥ ७ अत्रण्यमुपपादयितुं शक्यते इति पाठः स्यादिति भाति ॥ ८ वस्तुत्वम् भा० ॥ ९ त्पत्ति प्र० ॥ १० दृश्यतां पृ० ७९ पं० २ ॥ ११ स्यादेकं पररूपा य० ॥ १२ 'त्वाभ्यां चवैक्यपरि° प्र० । “स्निग्धरूक्षत्वाद् बन्धः " - तत्त्वार्थसू० ५। ३२ । १३ 'हापेक्षं चाक्षुष' य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org