________________
अनेकान्तवादसंश्रयापादनम्] द्वादशारं नयचक्रम् उक्तभावनावत् खवचनविरोधोऽपि।
वादपरमेश्वरसंश्रयश्चैवम् । न च नस्तेन सह विरोधः, तस्य लोकनाथत्वात् । स हि विलुप्यमानस्य लोकतत्त्वस्य त्राता। कथं संश्रय इति चेत्, अनेकात्मकरूपायतनाभ्युपगमात्। अणुशब्दः सूक्ष्मपर्यायः, परमशब्दस्तदतिशयवाची, स चातीन्द्रियत्वे घटते, तस्यातीन्द्रियस्यैन्द्रियकत्वं चाक्षु-5 षत्वं यथा विरुद्धमेवमिदमपि बुद्ध्याय॑न्द्रियकत्वं तुल्यमिति समानदोषतया विरोधोद्भावनमस्तु को दोषः ? किश्चान्यत् , 'चक्षुः प्रतीत्य रूपाणि च प्रतीत्य चक्षुर्विज्ञानमुत्पद्यते' इति चातीन्द्रियत्वादनुमान-५८-२ विरोधः, स्थूलानां सूक्ष्मपूर्वकत्वात् कार्यानुमानसिद्धाः परमाणवः, तस्मान्नित्यानुमेयानां तेषां चक्षुर्विषयत्वाभ्युपगमे वचनयोरनुमानविरोधिता । किश्चान्यत् - उक्तभावनावत् स्ववचनविरोधोऽपि, [उक्ता भावना] उक्तभावना, तद्वदुक्तभावनावत् , अनयैव परमाणुरतीन्द्रियत्वाञ्चाक्षुषश्चेत्यनुमानविरोधभावनयोक्तया 10 तुल्यत्वात् 'अतीन्द्रियाभिमतः परमाणुश्चक्षुर्विषयतामायाति' इति ब्रुवतः स्ववचनविरोधोऽपि ।
वादपरमेश्वरसंश्रयश्चैवम् । एवं च भवत एकान्तवादिनस्तत्त्यागेनानेकान्तवादाश्रयः । वादाः सर्व एव लोकं स्वसाकर्तुं समर्थत्वाल्लोकस्य ईशते एकान्ता अपि । तेषां तु सर्वेषामनेकान्तवादः परमेश्वरस्तद्वशवर्तिनामीष्टे । तेषां स्वार्थोन्नयनसमर्थानामपि परस्परविरोधदोषवतामुदासीनमध्यमनृपतिवत् सैन्ध्यादिषागुण्यान्यतमगुणाश्रयिणां विजिगीषूणां परार्पणलक्षणसंश्रयगुणाधारः परमेश्वरः स्याद्वादः, 15 तत्संश्रयेणैव स्ववृत्तिलाभात् तदसंश्रये परस्परकार्यविलोपात् स्वयं विनाशाच तेषाम् । लौकिको व्यवहारनय आह - न च नस्तेन सह विरोधः। कस्मात् ? तस्य लोकनाथत्वात् । लोको हि व्यवहारनयस्तद्वशवर्तित्वेन तन्मतविलोकनात् , तस्य लोकस्य नाथत इति लोकनाथः स्याद्वादः । कस्मात् ? स हि इतोऽमुतो विलुप्यमानस्यैकान्तादिभिर्लोकतत्त्वस्य लोकसारस्य सम्यग्दर्शनरत्नस्य त्रोता त्राणशीलस्त्राणधर्मा साधु त्राणकारी वेति । कथं त्रातेति चेत् , सर्ववादभेदेत्यादि, लोकभूतानां सर्ववादानां भेदाः सर्ववादभेदा 20 नित्यानित्यायेकान्ताः, तेषां याथार्थ्यानि यथार्थभावाः स्वविषयसमर्थनानि, तेषां लोकसंवादेनोपग्रीहयितृ-५९१ त्वात् परस्परसाम्यावस्थापनेन परिपालनात् त्रातेत्युच्यते ।
इतर आह - कथं संश्रय इति चेत् । अस्तु तावद्वादपरमेश्वरत्वं लोकत्रीणात् स्याद्वादस्य लोकत्राणं च परस्पराविरोधोपपादनेनैकीकरणाच्च तेषाम् , वादपरमेश्वरसमाश्रयः कथमेकान्तवादानाम् ? इत्यत्रोच्यते-- अनेकात्मकरूपायतनाभ्युपगमात् । अनेक आत्मा यस्य तदिदमनेकात्मकं रूपायतनं यत् तदेकेन 25
१ 'अतीन्द्रियश्चाक्षुषश्च' इति वचनयोः ॥ २ अत्र 'उक्ता भावना, तद्वदुक्तभावनावत्' इत्यपि पाठः स्यात् ॥ ३ यच्चाक्षुष भा० । 'यत्वाक्षुष २० ही० ॥ ४'नायोक्तया प्र०॥ ५ संव्यादि प्र० । “षागुण्यस्य प्रकृतिमण्डलं योनिः । 'सन्धि-विग्रहा-ऽऽसन-यान-संश्रय-द्वैधीभावाः षाडण्यम्' इत्याचार्याः ।...."तत्र पणबन्धः सन्धिः १, अपकारो विग्रहः २, उपेक्षणमासनम् ३, अभ्युच्चयो यानम् ४, परापणं संश्रयः ५, सन्धि-विग्रहोपादानं द्वैधीभावः ६ इति षड् गुणाः । परस्माद्धीयमानः सन्दधीत १ । अभ्युच्चीयमानो विगृह्णीयात् २ । न मां परो नाहं परमुपहन्तुं शक्त इत्यासीत ३ । गुणातिशययुक्तो यायात् ४ । शक्तिहीनः संश्रयेत ५। सहायसाध्यकार्य द्वैधीभावं गच्छेत् ६ इति गुणावस्थापनम् ।"-इति कौटिलीया. र्थशास्त्रे ॥९८-९९ ॥ ६°कायविलों य० । कार्यावलो' भा०॥ ७ कलोको य० ॥ ८°वादिनेमि य० ॥ ९ तात्ता य० । ताता भा० ॥ १० यथार्थ्यानि भा० । यथार्थानि य० ॥ ११ समर्थभानिला तेषां य० ॥ १२ °ग्राहयित्वात्पर प्र० ॥ १३ °पनेन पालनात् य० ॥ १४ त्राणास्याद्वादस्या प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org