________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[प्रथमे विध्यरे न खलक्षणविषयाः, एकविज्ञानानेकविषयतापि ।
यदपि च बुद्धेनोक्तम् -द्वयं प्रतीत्य विज्ञानस्योत्पत्तिर्भवति। कतमद् द्वयं प्रतीत्य ? चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानम् । श्रोत्रं प्रतीत्य शब्दांश्चोत्पद्यते श्रोत्रविज्ञानम् । घ्राणं प्रतीत्य गन्धांश्चोत्पद्यते घ्राणविज्ञानम्। जिह्वां प्रतीत्य रसांश्चोत्पद्यते जिह्वाविज्ञानम् । कायं प्रतीत्य स्प्रष्टव्यां3 श्चोत्पद्यते कायविज्ञानम्। मनः प्रतीत्य धर्माश्चोत्पद्यते मनोविज्ञानम् [ ]। अत्रापि यदि व्यक्त्यपेक्षो निर्देशः सञ्चयवचनाय ततोऽयमेव दोषः। अथ द्रव्योक्तये तत इहाभ्युपगमविरोधः। बुद्ध्यादेरपि चैन्द्रियकत्वम्, अतीन्द्रियत्वात्, रूपवत्। यश्चात्र विरोधः स तुल्यः परमाण्वन्द्रियकत्वेन । अतीन्द्रियत्वादनुमानविरोधः। न स्वलक्षणविषयाः प्रसक्ताः । न च 'केवलमस्खलक्षणविषयतैव दोषः, किं तर्हि ? एकविज्ञानानेक10 विषयतापि दूरदर्शनवदेवेति ।
बुद्धवचनासमञ्जसत्वप्रतिपादनप्रसङ्गेनेदमप्युपन्यस्तम् - यदपि च बुद्धेनोक्तमित्यादि यावद् धर्माश्चोत्पद्यते मनोविज्ञानमिति । यद्यनेकेन द्रव्येण ज्ञानमुत्पाद्यते, साक्षाद् बुद्धेनोक्तं यदपि च द्वयं प्रतीत्येत्यादि विरुध्यत इत्यभिसम्बन्धः। आध्यात्मिकमायतनं बाह्यं च द्वयं प्रतीत्य विज्ञानस्योत्पत्तिभवति इत्युक्त्वा स्वयमेव पुनः प्रतिपृच्छय व्याकरोति - कतमद्यं प्रतीत्य ? चक्षुः प्रतीत्य रूपाणि च 16 प्रतीत्य इत्यादि विभज्य वाच्यं गतार्थमेव तत् । द्वयषटाद् विज्ञानषटुमुत्पद्यत इति पूर्वपक्षः। तथा चाह - ५८-१
विजानाति न विज्ञानमेकमर्थद्वयं यथा ।
एकमर्थ विजानाति न विज्ञानद्वयं तथा ॥ [ चतुःश० २६८] इति । अत्रोत्तरमाह - अत्रापि 'चक्षुः प्रतीत्य रूपाणि च प्रतीत्य चक्षुर्विज्ञानस्योत्पत्तिर्भवति' इति द्वयी गतिर्बहुवचननिर्देशस्य – सञ्चयापेक्षयातीन्द्रियाणामपि रूपाणां व्यक्तिपदार्थाश्रयः स्यात् ? जात्याख्याया20 मेकस्मिन् बहुवचनमन्यतरस्याम् [पा० १।२।९] इति जातिपदार्थाश्रयो वा ? तत्र यदि व्यक्त्यपेक्षो निर्देशः सञ्चयवचनाय ततोऽयमेव संवृतिसत्सामान्यासत्कल्पनविषयाः पञ्च विज्ञानकाया न स्वलक्षणविषया इति दोषः । अथ द्रव्योक्तये तज्जातीयाः परमाणव एकरूपनिर्देशेन सर्वे निर्देष्टव्या इत्येकस्मिन् बहुवचनं तत इहाभ्युपगमविरोधः, अभ्युपगतं त्वया 'अतीन्द्रियाः परमाणवः' इति, तेन विरोधः। अस्मिंश्चाभ्युपगमेऽन्यदप्यनिष्टापादनमुच्यते -बुद्ध्यादेरपि चैन्द्रियकत्वम् , अतीन्द्रियत्वात् , 25 रूपवदिति । बुद्धिसुखदुःखेच्छाद्वेषवेदनादयो धर्माश्चाक्षुषाः स्युभवत्परिकल्पिताः, अतीन्द्रियत्वात् , रूप
वत् । रूपं वा न चक्षुह्यं स्यात् , अतीन्द्रियत्वात् , बुद्ध्यादिवत् । ब्रूयास्त्वम् - नन्वतीन्द्रियत्वं चक्षुग्राह्यत्वं च परस्परतो 'विरुध्येते इति । तन्मा मंस्थाः, भवतोऽनिष्टापादनपरत्वाद् भवद्बुद्धिनिवर्तनफलत्वाच्चास्य प्रयोगस्येति । अथापि यश्चात्र विरोधः सम्भाव्येत स तुल्यः परमाण्वैन्द्रियकत्वेन, परमोऽणुः परमाणुः,
१ केवल अखलक्षण प्र० । अत्र केवलोऽस्खलक्षण इत्यपि पाठः स्यात् ॥ २°दर्शनमवदेवेति प्र० ॥ ३°सवप्रति य० ॥ ४ कतद्वयं प्र० ॥ ५ चदुः य० ॥६णामपिरूपाणामरूपाणां प्र० ॥७ संचयवरनाय ततों य० । संचय ततो भा० ॥ ८ दृश्यतां पृ० ८१ पं० ५ ॥ ९ विरुध्येतेति य० ॥१०°माण्वंद्रिय प्र०॥ ११ परमाणुः परमाणु अणुशब्दः यः । परमाणुः परमाणुशब्दः भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org