________________
वसुबन्धुवर्णितप्रत्यक्षे दोषाः] द्वादशारं नयचक्रम्
प्रकारावच्छेदानवच्छेदानेकप्रकारभिन्नत्वज्ञानान्यपि न स्युः, रूपायतनस्य सश्चितगतेरेव, नरसिंहवत् । नरसिंहानेकप्रकारगतिरपि हि नरवसिंहत्वसञ्चययोः पूर्व भेदेन दर्शनात् । असश्चये तु तद्रव्येष्वणुषु प्रकारग्रहणमेव नास्ति, असञ्चित-. स्यादर्शनात् ; कुत एव तव्यवच्छेदादि ?
'अनेकेन' इति वचनात् संवृतिसत्सामान्यासत्कल्पनविषयाः पञ्च विज्ञानकायाः,
किश्चान्यत् -प्रकारावच्छेदेत्यादि यावत् सञ्चितगतेरेव । न 'प्रकारः, अवच्छेदः, अनवच्छेदः, अनेकप्रकारभिन्नत्वम्' इत्येतान्यपि ज्ञानानि भवितुमर्हन्ति । कस्मात् ? रूपायतनस्य सञ्चितगतेरेव, सञ्चितमेव हि रूपायतनं गेम्यते नासञ्चितम् । अतो न 'प्रकारः' इति ज्ञानं घटते प्रकृष्टः कारः प्रकारः नीलः पीत इति, अयमस्माद्विशिष्ट इति परस्परतोऽत्यन्तभेदाभावे प्रकाराभावात् , अभेदगतेः सामान्ये न तु प्रकारज्ञानं घटते, तथावच्छेदोऽन्यस्मादन्यस्य भेदाभेदविकल्पनात् , तथानवच्छेदः, 10 'अनेकः' इति, 'अनेकेन च प्रकारेण भिन्नः' इति भिन्नानामभेदगतिः । संश्चितगतेरभेदगतेश्च न प्रकारादिज्ञानानि अकल्पनात्मकानि स्वलक्षणविषयाणि च भवितुमर्हन्ति । किमिव ? नरसिंहवत् , यथा नरस्याकारोऽधस्त्यः सिंहस्याकारः शिरोभागः, तदुभयाभेदगतेनरसिंह इत्युच्यते एवं प्रकारादिज्ञानान्यपि भिन्न-५७-१ ध्वभेदकल्पनादेव स्युर्नान्यथेति । नरे सिंहे च नरसिंहाविति भिन्नयोरभेदगत्यभावाददृष्टान्ततेति चेत्, न, सञ्चययोरेवाभेदरूपत्वात् । नरसिंहानेकप्रकारगतिरपि हीत्यादि, तयोहि प्रत्येक नेर इति सिंह इति च 15 भिन्नयोरपि प्रकारगतिर्यस्मान्नरत्वसिंहत्वसञ्चययोः, नीलादिपरमाण्वादिद्रव्याणां पूर्वं भेदेन दर्शनादभेदकल्पनात्मिका भेदगतिरिति युक्ता, न तथा तु।
___ अभ्युपेत्यापि नरसिंहप्रकारगतिमेव च असञ्चये तु तद्रव्येष्वणुष्वित्यादि । संञ्चितालम्बनाः पञ्च विज्ञानकाया इति यदुक्तं त्वया तद्विस्मृत्येदमुक्तम् - यदेतदनेकप्रकारभिन्नं रूपायतनं तत्र कदाचिदेकेन द्रव्येण ज्ञानमुत्पाद्यत इति । 'चक्षुर्विज्ञानसमङ्गी नीलं विजानाति नो तु नीलमिति' एतदपि 20 विस्मृत्येदमुक्तम् - केदाचिदनेकेन यदा तद्व्यवच्छेदो न भवति, तद्यथा- मणिसमूहमनेकवर्णसंस्थानं पश्यत इति, नीलपीताद्यनेकरूपस्य युगपद्हणाभ्युपगमे नीलैकरूपविज्ञानविरोधादित्यलं प्रसङ्गेन । प्रकृत- ५७-२ मुच्यते - द्रव्यसत्सु अणुषु नीलपीतादिप्रकारग्रहणमेव नास्ति तदसञ्चये । किं कारणम् ? असञ्चितस्यादर्शनात् । असञ्चितानामदर्शनमतीन्द्रियत्वादित्युक्तम् । कुत एंव तद्व्यवच्छेदादि ? सति हि दर्शने तद्वयवच्छेदानवच्छेदप्रकारभिन्नत्वज्ञानानि सम्भाव्येरन् , असति दर्शने दूरादेव तानि न स्युः । एवं तावत् 25 'एकेन द्रव्येण' इत्ययुक्तम् ।
___ यदपि चोक्तम् 'अनेकेन द्रव्येण कदाचिज्ज्ञानमुत्पाद्यते' इति, एतस्मात् 'अनेकेन' इति वचनात् तस्यानेकद्रव्यस्य संवृतिसत्त्वात् सामान्यता, सामान्यत्वादसत्कल्पनं तत्, तद्विषयाः पञ्च विज्ञानकायाः, असत्कल्पनविषयत्वादनुमानतदाभासज्ञानवदप्रत्यक्षमप्रमाणं वा दूरान्मणिसमूहदर्शनवद्वेति
१गतेरिव य० ॥ २ गम्यते वासंचितम् य० ॥ ३ प्रकारभावात् प्र० ॥ ४ संत्विगते य० ॥ ५नरसिंह इति च य० ॥६ पूर्वमेदेन प्र० ॥ ७ यक्का. ही.॥ ८ अभ्युपेत्यादि नर भा० । अभ्युपेत्येत्यादि नर' य० ॥ ९ दृश्यतां पृ० ६४ पं० १ ॥ १० दृश्यतां पृ० ७८ पं० २॥ ११ दृश्यतां पृ. ६१ पं० १॥ १२ दृश्यतां पृ० ७९ पं० १॥ १३ एतव्यच्छे प्र० ॥ १४ इत्युक्तम् य० ॥ १५ तस्यनेकद्रव्यसंवृति य० ॥
नय० ११
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org