________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[ प्रथमे विधयरे
सामान्यवृत्तिरूपायतनतायां तद्रूपायतनं पश्यतस्तस्य तद्विषयत्वात् स्वलक्षणविष याः पञ्चविज्ञानकायाः पठ्यन्ते इति वक्तव्यम् । कथं चेति सञ्चितालम्बनतायामविभागसमवस्थसमूहात्मकत्वादेकप्रकारावच्छेदो मणिसमूहप्रभानुविद्धवर्णसंस्थानवत् ? एकस्य च द्रव्यस्य कदाचिदग्रहणादेकेन द्रव्येण कथं चक्षुर्विज्ञानमुत्पाद्यते, 5 रसानाखादनरसाज्ञानवत् । एकद्रव्यज्ञानोत्पादने तु सञ्चितालम्बनकल्पना निरर्थिकैव, तदभ्युपगमविरोधः ।
८०
यावत् पठ्यन्त इति वक्तव्यम् । कथं वक्तव्यमिति सम्बन्धः । अनेकप्रकारे भिन्ने सामान्ये वृत्तिरस्य रूपायतनस्य तदनेकप्रकारभिन्नसामान्यवृत्तिरूपायतनम्, तद्भावस्तादृग्रूपायतनता, तस्यां सत्यामनेकप्रकारभिन्नसामान्यवृत्तिरूपायतनतायां तद्रूपायतनं पश्यतः समूहात्मकं तदालम्बनत्वात् तस्य चक्षु10 विज्ञानस्य तद्विषयत्वात् सामान्याख्यसमूहरूपायतनविषयत्वात् कथं स्वलक्षणविषयं तद्युज्यते ? तथा ५६-१ सर्वरूपादिपञ्चविज्ञानकाया रूपायतनतद्विज्ञानयोरुदाहरणमात्रत्वात् कथं स्वलक्षणविषयाः पञ्च विज्ञानकायाः पठ्यन्त इति वक्तव्योऽत्र समाधिः । आयतनस्य सामान्यरूपत्वान्न स्वलक्षणतेत्यर्थः । कथं चेतीत्यादि यावदेकप्रकारावच्छेद इति । कथमिति हेतुपरिप्रश्ने, शब्दो दोषसमुच्चये, केन हेतुना तस्यामनेकप्रकारभिन्न सामान्यवृत्तिरूपायतनतायाम्, इतिशब्दः प्रकारवाची, इत्थं नानारूपं 10 रूपायतनं पश्यतः सञ्चितालम्बनतायामविभागसमवस्थ समूहात्मकत्वात्, अविभागेनैक्यापत्त्या समवस्था यस्य समूहस्य सोऽयमविभागसमवस्थसमूहः, तदात्मकत्वाद्रूपायतनस्य कथमेकप्रकारावच्छेदः ? न भवितुमर्हतीत्यर्थः । किमिव ? मणिसमूहप्रभानुविद्धवर्णसंस्थानवत्, यथा नानावर्णानां मणीनां समूहे तत्प्रभयानुविद्धे वर्णसंस्थाने नास्त्येकप्रकारावच्छेदस्तथैकद्रव्यावच्छेदाभाव इति ।
किञ्चान्यत् – एकस्य च द्रव्यस्य कदाचिदग्रहणात् एकस्य च द्रव्यस्य परमाणोः सर्वदाप्यती20 न्द्रियस्य ग्रहणाभावादेकेन द्रव्येण कथं चक्षुर्विज्ञानमुत्पाद्यते ? न कदाचित् कथञ्चिदुत्पाद्यत इत्यर्थः । तस्मात् 'कदाचिदेकेन द्रव्येण ज्ञानमुत्पाद्यते यदा नीलादिप्रकारव्यवच्छेदो भवति' इति किमेतदबुद्धवचनं बुद्धवचनम् ? इति चिन्त्यताम् । किमिव पुनरेकस्य द्रव्यस्य कदाचिदग्रहणाच्चक्षुर्विज्ञानं नोत्पाद्यते ५६ - २ इति चेत्, उच्यते - रसानास्वादनरसा ज्ञानवत्, रसनेन्द्रियेणानास्वादिते यथा रसज्ञानं नोत्पद्यत एवं चक्षुषा न गृहीते चक्षुर्विज्ञानं नास्ति । यदि चास्य बुद्धवचनस्य बुद्धवचनत्वसिद्ध्यर्थमेकेन द्रव्येण 25 ज्ञानमुत्पाद्यत इत्यभ्युपगम्यैते तत एकद्रव्यज्ञानोत्पादने तु सञ्चितालम्बनकल्पना निरर्थिकैव । यदा चैवं प्रत्येकं चक्षुर्विषयता अणूनामिष्यते तदेदमपरं बुद्धवचनमबुद्धवचनं निरर्थकं च जायते । कतमत्' •? सञ्चितालम्बना: पञ्चविज्ञानकायाः [ अभि० प० ] इति । एतस्य व सत्यत्वे तदसत्यता स्थितैवेति परस्परतो वचनद्वयविषयोऽभ्युपगमविरोध इत्यत आह - तदभ्युपगमविरोधः ।
1
१ पच्यंत प्र० ॥ २ अत्र अनेकप्रकारभिन्ने इत्यपि पाठः स्यात् ॥ ३ पव्यंत भा० ॥ ४ त्वान्न च लक्षण' भा० । 'त्वात्तच्चलक्षण य० ॥ ५ प्रकार सामान्य प्र० । दृश्यतां पं० ९ ॥ ६ नानारूपि य० ॥ ७ दृश्यतां पृ० ७८ पं० २ ॥ ८ ग्रहणचक्षु प्र० ॥ ९ उच्यते सानास्वादन प्र० । अत्र 'उच्यते रसनानास्वादने' इत्यपि पाठः स्यात् ॥ १० इत्यन्युप वि० । इत्यनुप वि० विना ॥ ११ गम्यते त एक भा० पा० ॥ १२ चा य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org