________________
धसुषन्धुधर्णितप्रत्यक्षे दोषाः] द्वादशारं नयचक्रम् द्रव्येण चक्षुर्विज्ञानमुत्पाद्यते यदा नीलादितत्प्रकारव्यवच्छेदो भवति, कदाचिदनेकेन यदा न तत्प्रकारव्यवच्छेदः, तद्यथा दूरान्मणिसमूहमनेकवर्णसंस्थानं पश्यतः। अत्रापि कथमनेकप्रकारभिन्नइति बुद्धवचनं प्रत्यक्षलक्षणानुषङ्गागतं चक्षुर्विज्ञानसमङ्गिनीलविज्ञानोदाहरणसभावनवाक्यवन्नोपपद्यते एवेत्युपपादयिष्यन्नुपन्यस्यति । इदं पुनर्बुद्धवचनं 'प्रमाणम्' इति अभिधर्मकोशे निदर्शितं तद्विचार्यम् । तत्रानेकः प्रकारः प्रकृष्टः कारः, कोऽसौ ? अन्योन्यातुल्यत्वम् । केन प्रकारेण भिन्नं रूपायतनम् ? । नीलपीतादिप्रकारभिन्नम् । तत्र तस्मिन् रूपायतेनेऽनेकप्रकारभिन्ने कदाचिदेकेन द्रव्येण चक्षुर्विज्ञानमुत्पाद्यते । केदा पुनरेकेन द्रव्येणोत्पाद्यते ? यदा नीलादितस्प्रकारव्यवच्छेदो भवति, 'नीलमेवेदं न पीतादि, पीतमेवेदं न नीलादि' इत्येकप्रकारव्यवच्छेदो यदा भवति तदा चक्षुर्विज्ञानमेकेन द्रव्येणोत्पाद्यते । कदाचिदनेकेन, कदा पुभरनेकेन ? यदा न तत्प्रकारव्यवच्छेदो भवति, नीलादिप्रकारव्यवच्छेदो यदा न भवति तदा चक्षुर्विज्ञानमनेकेन द्रव्येणोत्पाद्यते । अस्मिन्नर्थ उदाहरणमप्याह - तद्यथा 10 दूरान्मणिसमूहमित्यादि । विप्रकृष्टदेशस्थितं मणीनां समूहमनेकवर्णसंस्थानमनेकेन वर्णेन संस्थानं ५५-२ व्यवस्थानमस्य तमनेकवर्णसंस्थानं पश्यतः, अनेकवर्णमनेकसंस्थानं च पश्यत इति वा । यो नीलपीताद्यनेकवर्णो वृत्तव्यसाधनेकसंस्थानो वनेन्द्रनीलमरकतसस्यकपुष्परागपद्मरागस्फटिकादिमणिसमूहोऽनेकप्रकारभिन्नस्तं पश्यतः पुरुषस्य दूरान्न व्यवच्छेदो भवति, आरात्तु व्यवच्छेदो भवति-अयमिन्द्रनीलो वज्रादीनामन्यतमो वेति।
सत्र कल्पनापोढवलक्षणविषयप्रत्यक्षलक्षणचोद्योपक्रमप्रसङ्गेन यत्तीदं 'सञ्चितालम्बनाः पञ्च 1b विज्ञामकायाः [भि० पि०] इति तत् कथं यदि तदेकतो न विकल्पयति ? इति, यच्चोक्तमनेकप्रकारभिन्नैकानेकद्रव्योत्पाद्यज्ञानतेत्यत्र कल्पनात्मकत्वप्रसङ्गोऽस्वलक्षणविषयत्वप्रसङ्गश्चेति चोदिते तत्परिहारार्थम्'आयतनस्वलक्षणं प्रस्येते स्वलक्षणविषया न द्रव्यस्वलक्षणम्' [अभि० को० भा० १॥१०] इति कथं तत् कल्पनापेतम् ? इत्यत्र विचारः करिष्यते । इदमेव तावद्विचारयामो बुद्धवचनम् – कदाचिदेकेन द्रव्येण ज्ञानमुत्पाद्यते कदाचिदनेकेनेति । अत्रापि कथमनेकप्रकारभिन्नसामान्यवृत्तिरूपायतनतायां 20
भवति । कदाचिद् बहुभियंदा न व्यवच्छेदः, तद्यथा-सेनाव्यूहमनेकवर्णसंस्थानं मणिव्यूहं चा(वा) दूरात् पश्यतः । एवं श्रोत्रादिविज्ञानं वेदितव्यम् । काय विज्ञानं तु परं पञ्चभिः स्प्रष्टव्यैरुत्पद्यते इत्येके चतुर्भिर्महाभूतैरेकेन व श्लक्ष्णत्वादिना । सर्वैरेकादशभिरित्यपरे । ननु चैवं समस्तालम्बनत्वात् सामान्यविषयाः पञ्च विज्ञानकायाः प्राप्नुवन्ति, म स्खलक्षणविषयाः। आयतनखलक्षणं प्रत्येते स्व लक्षणविषया इष्यन्ते न द्रव्यस्खलक्षणमित्यदोषः।इदं विचार्यते - कायजिह्वेन्द्रिययोर्युगपद् विषयप्राप्तौ सत्यां कतरद् विज्ञानं पूर्वमुत्पद्यते ? यस्य विषयः पटीयान् । समप्राप्ते तु विषये जिह्वाविज्ञानं पूर्वमुत्पद्यते भोक्तृकामतावर्जितत्वात् सन्ततेः । उक्ताः पञ्चन्द्रियार्था यथा च तेषां ग्रहणम् ।” १११०॥
१°ष्यन्न पश्यति य० । ध्यन्न पव्यति भा० । अत्र ष्यन् पठति इत्यपि पाठः स्यात् ॥२°तने नैक प्र०॥ ३ कय पुन वि. विना। कथं पुन वि०॥४यदा तत्प्रकार य०॥५वृत्त्यत्रस्रा० प्र०॥६भवयत्यमिन्द्र य॥ ७ "एवं प्रत्यक्ष कल्पनापोढमुपपन्नम् , अभिधर्मेऽप्युक्तम् - 'चक्षुर्विज्ञानसमङ्गी नीलं विजानाति नोतु नीलमिति । अर्थेऽर्थसंज्ञी न त्वर्थे धर्मसंज्ञी' इति । यत्तीदं 'सञ्चितालम्बनाः पञ्च विज्ञानकायाः' [अभि. पि०] इति तत् कथं यदि तदेकतो न विकल्पयति ? यच्चोक्तम्-'आयतनखलक्षणं प्रत्येते खलक्षणाविषया न द्रव्यस्खलक्षणं प्रति' [अभि० को भा० १.१०] इति तत् कथम् ? इति चेत्, तत्रानेकार्थजन्यत्वात् स्वाथै सामान्यगोचरम् । अनेकद्रव्योत्पाद्यत्वात् तत् खायतने सामान्यगोचरमित्युच्यते न तु भिन्नेष्वभेदकल्पनात् ।"-इत्युक्तमिदं चोद्यतत्परिहारादिकं दिनागविरचितायां प्रमाणसमुच्चयखवृत्तौ ११४॥८°ल्पयंतीति यच्चों भा० । ल्पयति यच्चों य० ॥९°ज्ञानेत्यत्र य० ॥१० इदमेतावद्वि य०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org