________________
७८ न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[प्रथमे विध्यरे ततः शून्यशून्यप्रत्युत्पादनावदसद्विषयत्वान्निर्मूलकल्पनामात्रसत्यता।
यचाप्यभिहितमभिधर्मकोशे- यदेतदनेकप्रकारभिन्नं रूपायतनं तत्र कदाचिदेकेन
५५-१ ततः किं जातम् ? शून्यशून्यप्रत्युत्पादनावदसद्विषयत्वं दोषजातमपि तस्याः कल्पनायाः ।
यथा शून्यं शून्येन गुणितं जातं शून्यमेवेति यथा गणकानां क्वचित् कल्पनमसद्विषयं शिष्यमतिपरिकर्मार्थ 6 तथेदमसद्विषयम् । ततश्च असद्विषयत्वान्निर्मूलकल्पनामात्रसत्यता, निर्बीजा समुदयकल्पना तद्धर्मकल्पना च, निर्मूले द्वे अपि कल्पने, ते प्रमाणमस्य तन्मात्रम् , तन्मात्रमेव सत्यम् , नान्यत् किश्चित सत्यं भवत्कल्पिते प्रत्यक्षे। तस्मान्निर्मूलकल्पनामात्रसत्यत्वाल्लौकिकेष्टसत्सलिलादिवीजमृगतृष्णिकादिकल्पनाभ्योऽपि पापीयस्यौ प्रत्यक्षानुमानकल्पने युष्मदीये ।
यच्चाप्यभिहितमभिधर्मकोशे यदेतदनेकप्रकारभिन्नमित्यादि यावदनेकवर्णसंस्थानं पश्यत
१ शून्यशून्यप्रत्युपादना' य० । शून्यप्रत्युपादना' भा० । अत्र प्रत्युत्पादना गुणनमित्यर्थः ॥ २ तथा य०॥ ३ निर्बीजात्समु य०॥ ४°ष्टमत्सलिला भा० । °ष्टमंसलिला' य० ॥ ५ यतदनेक प्र० । अभिधर्मकोशस्य तद्भाष्यस्य च वसुबन्धुप्रणीतत्वादभिधर्मकोशशब्देन अभिधर्मकोशभाष्यमेवात्र विवक्षितम् । तत्र च विद्वद्वरश्रीवासुदेवविश्वनाथगोखलेमहोदयानां प्रयासेन भदन्तश्रीशान्तिभिक्षमहोदयसाहाय्येन च विद्वद्वरश्रीप्रहादप्रधानमहोदयानां सौजन्यात् समुपलब्धे हस्तलिखितेऽभिधर्मकोशभाष्ये एवम्विधः पाठः
"रूपं द्विधा विंशतिधा शब्दस्त्वष्टविधो रसः । षोढा चतुर्विधो गन्धः स्पृश्यमेकादशात्मकम् ॥ १।१० ॥ निर्दिष्टानि पञ्चेन्द्रियाणि । अर्थाः पञ्च निर्देश्याः । तत्र तावद् रूपं द्विधा- वर्णः संस्थानं च। तत्र वर्णश्चतुर्विधो नीलादिः, तद्भेदा अन्ये । संस्थानं सप्तविधं दीर्घादि विसातान्तम् । तदेव रूपायतनं पुनरुच्यते विंशतिधा, तद्यथा-१ नीलम् , २ पीतम्, ३ लोहितम्, ४ अवदातम्, ५ दीर्घम् , ६ हुखम् , ७ वृत्तम् , ८ परिमण्डलम्, ९ उन्नतम्, १० अवनतम्, ११ सातम्, १२ विसातम्, १३ अभ्रम् , १४ धूमः, १५ रजः, १६ महिका, १७ छाया, १८ आतपः, १९ आलोकः, २० अन्धकारमिति । केचिद् नभश्चैकवर्णमिति एकविंशतिं सम्पठन्ति । तत्र सातं समस्थानम् , विसातं विषमस्थानम् , महिका नीहारः, आतपः सूर्यप्रभा, आलोकः चन्द्रतारकाम्योषधिमणीनां प्रभा, छाया यत्र रूपाणां दर्शनम् , विपर्ययादन्धकारम् । शेषं सुगमत्वान्न विपश्चितम् । अस्ति रूपायतनं वर्णतो विद्यते न संस्थानतः नीलपीतलोहितावदातच्छायातपालोकान्धकाराख्यम् । अस्ति संस्थानतो न वर्णतः दीर्घादीनां प्रदेशः कायविज्ञप्तिस्वभावः । अस्त्युभयथा परिशिष्टं रूपायतनम् । आतपालोकावेव वर्णतो विद्यते इत्यपरे, दृश्यते हि नीलादीनां दीर्घादिपरिच्छेद इति । कथं पुनरेक द्रव्यमुभयथा विद्यते ? अस्ति उभयस्य तत्र प्रज्ञानात्, ज्ञानार्थो ह्येष विदिः, न सत्तार्थः । कायविज्ञप्तावपि तर्हि प्रसङ्गः । उक्तं रूपायतनम् । शब्दस्त्वष्टविधः उपात्तानुपात्तमहाभूतहेतुकः सत्त्वासत्त्वाख्यश्चेति चतुर्विधः । स पुनर्मनोज्ञामनोज्ञभेदादष्ट विधो भवति । तत्रोपात्तमहाभूतहेतुको यथा हस्ताक्छब्दः । अनुपात्तमहाभूतहेतुको यथा वायुवनस्पतिनदीशब्दः । सत्त्वाख्यो वाग्विज्ञप्ति शब्दः। असत्त्वाख्योऽन्यः। उपात्तानुपात्तमहाभूतहेतुकोऽप्यस्ति शब्द इत्यपरे, तद्यथा-हस्त मृदङ्गसंयोगज इति। स तु यथैकवर्णपरमाणुर्न भूतचतुष्कद्व यमुपादायेष्यते तथा नैवेष्टव्य इति उक्तः शब्दः । रसः षोढा, मधुराम्ललवणकटुकतिक्तकषायमेदात् । चतुर्विधो गन्धः, सुगन्धदुर्गन्धयोः समविषमगन्धत्वात् । त्रिविधस्तु शास्त्रे-सुगन्धो दुर्गन्धः समगन्ध इति । स्पृश्यमेकादशात्मकम् , स्प्रष्टव्यमेकादशद्रव्यस्वभावम् - चत्वारि महाभूतानि श्लक्ष्णत्वं कर्कशत्वं गुरुत्वं लघुत्वं शीतं जिघत्सा पिपासा चेति । तत्र भूतानि पश्चाद् वक्ष्यामः । श्लक्ष्णत्वं मृदुता । कर्कशत्वं परुषता। गुरुत्वं येन भावास्तुल्यन्ते । लघुत्वं विपर्ययात् । शीतमुष्णाभिलाषकृत् । जिघत्सा भोजनाभिलाषकृत् , कारणे कार्योपचारात्, यथा- 'बुद्धानां सुख उत्पादः सुखा धर्मस्य देशना । सुखा सङ्घस्य सामग्री समग्राणां तपः सुखम् ॥' इति । तत्र रूपधातौ जिघत्सापिपासे न स्तः, शेषमस्ति । यद्यपि तत्र वस्त्राण्यकशो न तुल्यन्ते सञ्चितानि पुनस्तुल्यन्ते । शीतमुपघातकं नास्ति, अनुप्राहक किलास्ति । यदेतद् बहुविध रूपमुक्त तत्र कदाचिदेकेन द्रव्येण चक्षुर्विज्ञानमुत्पद्यते यदा तत्प्रकारव्यवच्छेदो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org