________________
दिङ्गागकल्पितप्रत्यक्षे दोषाः ]
द्वादशारं नयचक्रम्
ग्रहणात् । नो तु नीलमेवं भवति, परमार्थसत्परमाणुनीलत्वात् ।
भावना त्वस्य - अनर्थेऽर्थसंज्ञी, न च कदाचित् कश्चिदप्यर्थे धर्मसंज्ञी । अनर्थे संवृतिसति समुदाये द्रव्यसन्नीलसंज्ञी, न त्वर्थेऽर्थसंज्ञी, न त्वर्थे एव द्रव्यसति अर्थसंज्ञी तस्यातीन्द्रियत्वात् । न च कदाचित् कश्चिदप्यर्थे धर्मसंज्ञी, अतीन्द्रियत्वादत्यन्तं सर्वकालमग्राह्यत्वात् । अनर्थे एव धर्मसंज्ञी, अनर्थे एवासति नामादि - 5 धर्मसंज्ञ्यपि, सञ्चयस्य नामादीनां च कल्पनात्मकत्वात् कल्पनापोहासम्भवात् ।
ग्रहणात् । नो तु नीलमेवं भवति, एवम्प्रकारमसद्रूपं नीलं न भवति, सदेव हि तन्नीलं न जानाति परमार्थसत् । किं कारणं तन्नीलं न भवतीति चेत्, परमार्थसत्परमाणुनीलत्वात्, परमार्थसन्तो हि परमाणव एव नीला न सञ्चयः । तस्मान्न नीलं विजानाति चक्षुर्विज्ञानसमङ्गीति ।
I
|
भावना त्वस्येत्यादि । उक्तोपपत्तिबलादेव त्वदुक्ता भावना ने घटते - अर्थेऽर्थसंशी, न त्वर्थे धर्म - 10 संज्ञी [अभि० पि०] इति । कथं तर्हि घटते ? इत्यत्राह - भावना त्वस्य अनर्थेऽर्थसंज्ञी, न च कदाचित् कश्चिदर्थे धर्मसंज्ञीति । तद्व्याचष्टे - अनर्थे संवृतिसति समुदाये । अनर्थो हि संवृतिसत्त्वात् समुदायः, तदग्रहे तद्बुद्ध्यभावात्, यथोक्तं यस्मिन् भिन्नेन तद्बुद्धिः [अभि० को ० ६ ४] इति श्लोक: पङ्कयादिवत् । इति त्वन्मतेनैव तस्मिन्नसल्लक्षणे समुदाये द्रव्यसन्नीलसंज्ञी परमार्थसत्परमाणुनीलसंज्ञी, तेषामेवात् । 'अनर्थे ऽर्थसंज्ञी' इत्येतस्माद्भावनावाक्यादर्थाक्षिप्तमेतल्लभ्यते - न त्वर्थेऽर्थसंज्ञीति । तद्वयाचष्टे - न त्वर्थ 15 एव द्रव्यसति परमाणुनीले एव अर्थसंज्ञी भवति । कस्मात् ? तस्यार्थस्यातीन्द्रियत्वादित्येतत् कारणं ५४-२ पुष्कल मस्त्यस्मिन्नस्मत्कल्पित भावनावाक्य इति दर्शयति । यद्येवमर्थे धर्मसंज्ञी भवतु, नेत्युच्यते, न च कदाचित् कश्चिदप्यर्थे धर्मसंज्ञी । कदाचिदिति समुदायस्यैवेन्द्रियविषयत्वात् तद्ब्रहणकाले इतरकाले वान धर्मसंयप्यर्थे भवितुमर्हति । अथवा प्रत्यक्षकाले ऽनुमानकाले वा । किं कारणम् ? अतीन्द्रियत्वात्, अत्यन्तं सर्वकालं 'कदाचित्' इत्यस्य व्याख्यानम्, अग्राह्यत्वात् । कस्य ? परमाणुनीलादेः । 20 ततोऽर्थादेतदयापन्नम् - अनर्थ एव धर्मसंज्ञीति । तद्वयाचष्टे - अनर्थ एवासति नामादिधर्मसंज्ञयपि 1 किं कारणम् ? सञ्चयस्य नामादीनां च कल्पनात्मकत्वादैनर्थे ऽनर्थसंज्ञीति यावत्, कल्पनात्मके सञ्चयेऽनर्थेऽनर्थकल्पनात्मकशब्दादिधर्मसंज्ञी । कस्मात् ? कल्पनापोहासम्भवात् समुदाये समुदायाश्रयनामादिषु वा, नामजात्यादियोजना च कल्पना, तदपोहस्तस्य ज्ञानस्य कल्पितसमुदायतन्नामादिविषयस्य न सम्भवत्येव । तस्मादस्मदुक्तैषा भावना घटते । अथवा त्वदीयैरेवाक्षरैरेषोऽर्थो भाव्यते - अर्थेS - 25 संज्ञी न, अर्थे नीलादौ परमार्थसत्यर्थसंज्ञी न भवत्यतीन्द्रियत्वात् तस्य । तुशब्दो विशेषणे, अर्थे धर्मसंज्ञी 'न' इति वर्तते, यस्तावदर्थ एवार्थसंज्ञी न भवतीति स कुतोऽर्थे धर्मसंज्ञी भवति ? इति विशेषस्तुशब्दात्- | अर्थापत्त्या पूर्ववदनर्थे ऽर्थसंज्ञी तस्मिन्नेव च धर्मसंज्ञीति ।
१ दृश्यतां पृ० ६१ पं० ४ ॥ २ न द्यते प्र० ॥ ३ दृश्यतां पृ० 'काले त्तइत्वर' य० । अत्र "काले उत्तरकाले वा' इत्यपि पाठः स्यात् ॥ ७ नर्थे ऽनर्थ यावत् य० ॥
७७
Jain Education International
६७ पं० ७ ॥ ४ कालेऽत्तइत्तर भा० ५ 'संज्ञाप्यर्थे प्र० ॥ ६ संज्ञपि प्र० ॥
For Private & Personal Use Only
www.jainelibrary.org