________________
७६
[ प्रथमे विध्य रे
}
करस्यानुपपत्तेरत्यन्तव्यावृत्तार्थत्वाद्द्रव्यसद्रूपत्वाद् ग्रहणाभावान्न नीलं विजानाति । अत एव प्रत्यक्ष विधिविधायकवाक्यस्यैषोऽर्थ आपद्यते - चक्षुर्विज्ञानसमङ्गी सञ्चितालम्बनः सन्तानः सञ्चयं संवृतिसन्तं नीलं विजानाति, तस्यासतश्चक्षुषा तदेव रूपं तद्रूपम्, ने तद्रूपमतद्रूपम्, तद्भावोऽतद्रूपत्वम्, तस्मादतद्रूपत्वात् । न हि तन्नीलमितैरनील ँ रूपं भवति । यदि भवेत् तदेव तत् स्यात्, तद्रूपत्वात्, तद्वत् ; न तु भवति । अथवा तद्रूपमस्य तद्रूपम्, न तद्रूपमस्य रूपमित्यतद्रूपम् । केन रूपेण ? जात्याकारादिना, न हि तन्नीलमितरनीलरूपं जात्या नीलत्व५३-२ लक्षणया सामान्यभूतया आकारेण वा संस्थानविशेषेण वृत्तपरिमण्डलादिना, जातिरूपेणाकाररूपेण वा यत् स्यादनन्यत्वकरं तयोर्नीलयोः परमाण्वोस्तस्य त्वन्मतेन कस्यचिदनुपपत्तेरतद्रूपत्वम् । अतो न नीलं नीलान्तररूपेणास्ति, तद्वन्नीलान्तरमपि तद्रूपेण नास्ति । आदिग्रहणात् प्रथमक्षणदृश्यं द्वितीयक्षणदृश्यरूपं 10 न भवति, तदपीतैररूपं न भवतीति । देशतोऽपि देशान्तरदृश्यं देशान्तर दृश्यरूपं न भवति । अतोऽनन्यत्वकरस्यानुपपत्तेरतद्रूपत्वम् । अनन्यत्वकरस्यानुपपत्तिरत्यन्तव्यावृत्तार्थत्वात् । अर्थ इति परमार्थसन् नीलपरमाणुरेव, ते च परमाणवोऽत्यन्तमितरेतरव्यावृत्तासाधारणरूपाः । कस्मात् ? द्रव्यसद्रूपत्वात्, द्रव्यसतो ह्येतद् रूपं यदन्यनिरपेक्षविविक्तस्वरूपत्वम्, तत्र यथा तद् रसरूपेण गन्धरूपेण वा नास्ति द्रव्यसद्रूपत्वात् तथा नीलान्तररूपेणापि नास्ति । तदपि च द्रव्यसद्रूपमणीषाद्यभावे रथाभाववत् नीला16 न्तररूपाभाववद्वा तद्भावेऽपि न भवत्येव, नीलत्वशून्यत्वाद्वा नीलान्तरनीलवत् । तदपि परनीलं तद्वद्नीलम् । अतः कतरत् तन्नीलं स्याद्यद्विज्ञायेत चक्षुषा चक्षुर्विज्ञानसंमङ्गिना ? इति ग्रहणाभावान्न नीलं विजानाति चक्षुर्विज्ञानसमङ्गी । अनन्यत्वकरस्य जात्यादेरभावादेव वा रूपमिति वा रस इति वात्यन्तभिन्नानां परमाणूनामभेदेन द्रव्यसतां ग्रहणाभावान्न नीलं विजानाति । इतरेतराभावपरमार्थत्वाद्वोक्तन्यायेनैव न नीलं नीलान्तरं चास्ति रूपरसादिवद् [न] न्यरूपमिति 'न नीलं विजानाति' इत्येतदेव 20 संवदतीति सूक्तमिति ।
"
अतएवेत्यादि । अत इत्यनन्तरनिर्दिष्टनीलार्थचक्षुर्विज्ञानसमङ्गनाभावात् एवेत्यवधारणे, वक्ष्यमाणवाक्यार्थापत्तिः, प्रत्यक्षविधेः प्रत्यक्षजन्मनो विधायकस्य वाक्यस्यैषोऽर्थ आपद्यते, 'नो तु नील५४ - १ मिति' इत्यत्र 'इति' शब्दस्य प्रकारार्थवाचित्वादेवंप्रकारो वाक्यार्थ आपद्यत इति । कतमस्य वाक्यस्येति स्फुटीकरणार्थं प्रस्तुतमेव प्रत्यक्षलक्षणोदाहरणवाक्यं प्रत्युच्चार्य प्रदर्शयति - चक्षुर्विज्ञान इत्यादि तदेव । 25 चक्षुर्विज्ञानसमङ्गी सञ्चितालम्बनः पूर्वोक्तः सन्तानः चक्षुर्विज्ञानसमङ्गी सञ्चितमालम्बनमस्येति सञ्चितालम्बनः सञ्चयं संवृतिसन्तं नीलं रूपं विजानात्यसद्वस्तु नीलाभिमतं जानाति, न सत् किञ्चिदित्ययमर्थो जायते । किं कारणम् ? तस्य नीलस्य सञ्चयस्य असतः चक्षुषा चक्षुरिन्द्रियेण
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
१ न तद्रूपं तद्भावो य० ॥ २ 'तरस्य नील य० ॥ ३ त स्यात् भा० ॥ ४ स्यादनत्वकरं तयो' भा० । स्यादनत्व करतयो य० ॥ ५ तन्मतेन य० ॥ ६ अत्ये न भा० । अन्ये न य० ॥ ७ °तरूपं प्र० ॥ ८ वृत्ताऽसाधा भा० । 'वृत्त्यासाधा' रं० ही ० ॥ ९ माणीयाद्यभावे प्र० । “अक्षाप्रकीले त्वयाणी । अक्षय नाभिक्षेप्यस्य काष्ठस्याग्रेऽन्ते बन्धार्थं कीलस्तत्र, अणति शब्दायते अणिः, आणिः 'कुशकुटि' [ उणादि ० ६१९] इति वा णिदिः - अभि० चिन्ता० खो० ३।४२० । ईषा रथावयवः ॥ १० समंगिने ग्रहणाभावान्न नीलं भा० । समंगिनेति नीलं य० ॥ ११ दृश्यतां पृ० ७५ पं० ३ ॥ १२ स्यैर्थोर्थ प्र० ॥ १३ विज्ञानात्यत्य' भा० । विज्ञानान्य य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org