________________
दिङ्गागकल्पितप्रत्यक्षे दोषाः] द्वादशारं नयचक्रम् स्पर्शनास्पर्शनयोः पिण्डाणुमात्रकत्वसप्रतिघत्वाभावादिदोषापत्तेर्देशस्पर्श एवोपातः। न स सञ्चयाते सम्भवति।। __यत्पृक्तं नो नीलमिति एतदेवैकं संवदति, कदाचिदपि नीलपरमाण्वाकारनियतज्ञानोत्पत्तिहेत्वभावात् , समुदायस्थानीलत्वात् । भेदतत्त्वाभिमतप्रत्येकसमुदायपरिग्रहेऽपि तेषामितरेतरनीलत्वेनानीलत्वादतद्रूपत्वाजात्याकारादिना अनन्यत्व- 5 सर्वात्मना स्पर्शाभावः । अस्पर्शनेऽपि सप्रतिघत्वाभावः । परमाणुषु चौविद्यमानः प्रतिघातः सिकताविवासत् तैलं तत्सङ्घातेऽपि न स्यात् , स च दृष्टः सङ्घाते, तस्मान्नात्यस्पर्शनं परमाणूनां सङ्घातानां च । तस्मात् सङ्घाता एव सङ्घातान् देशेन स्पृशन्ति । आदिग्रहणाद् गतिप्रतिबन्धाभावदोषस्तेषां स्यात् , ततश्च सङ्घाताभावादालम्बनाभावः स्यादित्यादिदोषापत्तेः देशस्पर्श एवोपात्तः । सोऽपि च स्पर्शो न च सञ्चयाते स सम्भवति कथञ्चिदिति साधूच्यते - सन्द्रावातिशयो मायेयीय इति । एवं 'नीलं 10 विजानाति' इति वाक्यार्थोऽपि न घटत इत्युक्तम् ।
एतत्तु तस्मिन्नभिधर्मे प्रत्यक्षलक्षणोदाहरणवाक्ये संवदत्यर्थतः । केनार्थेन कतमत् ? यत्तूक्तं नो 'नीलमिति 'विजानाति' इति वर्तते । अ-मा-नो-नाः प्रतिषेधे, 'नीलं न विजानाति' इति एतदेवैकं संवदति नान्यत् किश्चित् । किं कारणम् ? कदाचिदपि नीलपरमाण्वाकारनियतज्ञानोत्पत्तिहेत्वभावात् । ये तावत् परमाणवो नीला उच्यन्ते तेषां कदाचिदपि नीलाकारे नियतस्य ज्ञानस्योत्पत्तौ हेतुत्वं 15 न भूतं न भवति न भविष्यति चातीन्द्रियत्वात् , अतोऽसौ त्वदभिमतचक्षुर्विज्ञानसमझी न कदाचिन्नीलं विजानातीति सुनिश्चितोपपत्तिकं वचः । स्यान्मतम् -- सञ्चयस्येन्द्रियविषयत्वान्नीलात्मकत्वाच्च तस्य नीलं विजानातीति, एतच्चायुक्तम् , समुदायस्यानीलत्वात् । यदि समुदाये संवृतिसति नीलत्वं स्यात् ५३-१ स्यादेतदेवम् , न पुनरभावस्य नीलतास्तीति 'न विजानाति नीलम्' इत्येतदेवात्र सुभाषितमिति ।
स्यान्मतम् - न विजानीयान्नीलं यद्येकैकं परमाणुमतीन्द्रियं पश्यतीति ब्रूयात् तत्समुदायं वा खपुष्प- 20 स्थानीयमिति, किं तर्हि ? तानेव परमाणून प्रत्येकं भिन्नान् संहतान् सर्षपप्रचयवदेकस्थान् पश्यतीति । एतच्चायुक्तम् , भेदतत्त्वाभिमतेत्यादि । भेदा एव तत्त्वं भेदतत्त्वम् , तद्भावस्तत्त्वम् , 'भेदतत्त्वम् इत्यभिमताः प्रत्येकं त एव समुदायः, न समुदायप्राधान्यम् , किं तर्हि ? भेदप्रधान एव समुदायः प्रत्येकसमुदायः सः, तत्परिग्रहेऽपि भेदस्वरूपपरस्परविशिष्टसमुदायपरिग्रहेऽपि, शिविकोद्वाहकन्यायेन प्रत्येकमसामर्थेऽपि तत्प्रधानसमुदाये नीलज्ञानोत्पत्तिहेतुसामर्थ्यमस्त्वित्येतस्मिन्नपि च पक्षे परिगृह्य- 25 माणे नीलाभावान्न नीलं विजानाति । कस्मात् ? तेषामितरेतरनीलत्वेनानीलत्वात् । तानि नीलत्वानि प्रतिप माणु भिन्नानि स्वाश्रयपरमाणुतोऽन्यत्र न वर्तन्ते, स्वरसोत्पत्तिभङ्गवत्त्वादर्थान्तरासम्बन्धाच्च भावानाम् । तस्मादितरस्य नीलत्वमितरत्र नास्ति, तस्यापि नीलत्वमितरत्र नास्ति । किं कारणम् ? अतद्रूपत्वात् ,
१चा[s]विद्य प्र० ॥ २षतेषां स्यात् ततं च प्र०॥ ३°दृते संभवति भा० ॥ ४ नीलविजानाति पा० डे० ली. २० ही । नीलं विजानाति वि०॥५°कारनियत य०॥६ स्यान्मतं चयस्ये य.॥ ७ तस्या प्र० ॥ ८ स्यातेदेवम् य० ॥ ९ यद्येकं य० ॥ १० °माणू प्रत्येकं प्र०॥ ११ सस्तत्परि° य० ॥ १२ खरस्थोत्प भा० । स्वरस्योत्प° य० ॥ १३ तस्यापि नीलत्वमितरत्र नास्ति इति पाठो य० प्रतिषु नास्ति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org