________________
७४
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[ प्रथमे विध्यरे
तथा रूपादिपञ्चकस्यापि गुणत्वात्, नीलैकत्ववत् । ततश्च गुणसन्द्रावद्रव्यत्वात् सर्वथा पृथिव्यादीनाम्, तेषामपि रूपादिपरमार्थत्वात् सर्वसर्वात्मकत्वम् ।
अयं तु सन्द्रावातिशयो मायेयीयः, सश्चितालम्बनाभ्युपगमाद् रूपादिपरमाणूनां सञ्चिताना मसञ्चितानां प्रागनभ्युपगमात् । आगम एवोक्तं हि वः - सङ्घाता 6 एव सङ्घातान् स्पृशन्ति, सावयवत्वात् [ ] । तत्र परस्परस्पर्श निरूपणे सर्वात्मदेकत्वं तथा रूपरसाद्येकत्वम् । ततश्च सैन्द्रावसिद्धौ गुणानां रूपाद्यैक्ये सति को दोषः ? उन्हयते - गुणसन्द्रावद्रव्यत्वात् गुणानां सेन्दुतिमात्रमेव यस्माद्रव्यं तस्मात् सर्वथा पृथिव्यादीनां पृथिव्यप्तेजोवाय्वादीनाम् 'एकत्वम्' इति वर्तते । किं कारणम् ? तदेव रूपाद्येकत्वं कारणम्, तत आह- तेषामपि रूपादिपरमार्थत्वादिति, रूपादय एव परमार्थो गुणसन्द्रावद्रव्यत्वात् तेषां चैक्यम्, अतः पृथिव्यप्तेजो10 वायुघटपटसरित्समुद्रज्योतिरादेः सर्वस्य लोकस्य तदात्मकत्वादैक्यं प्राप्तमिति । तदुपसंहृत्यैवाह - सर्वसर्वात्मकत्वमिति । अतः साधूच्यते - सर्व सर्वात्मवादितैव विशेषैकान्तवादिनोऽप्यविशेषैकान्तवा दिन इवेति । अविशेषैकान्तवादिनमतिशेते च विशेषैकान्तवादीति तद्वद्याचिख्यासुराह गुणसन्द्रावात्मक द्रव्यत्वापादनाय – [अयं] त्वित्यादि यावन्न स सञ्चयादृते सम्भवतीति । तुशब्दो विशेषणार्थः, किं विशिनष्टि ? रूपादीनामैक्यापत्तेः प्राक् पृथक्स्वरूपैस्तन्मात्रैः शब्दादिभिराहङ्कारिकैराकाशाद्यारम्भाभ्युपगमवादिनाम15 विशेषैकान्तवादिनां कदाचिदसचिताः सन्त्यपि रूपादय इति प्रक्रिया, विशेषैकान्तवादिनां तु सञ्चिततयैक्यापत्तिरेव क्वचित् पृथगसञ्चितरूपाद्यनभ्युपगमात् सर्व सर्वात्मकवादातिशय इति विशिनष्टि व्याख्यातार्थ सन्द्रावातिशयोऽयं मायेयीयः सश्चितालम्बनाभ्युपगमाद्रूपादिपरमाणूनामिति ग्रैन्थम् । तत्सवयत्व कारणप्रदर्शनार्थमाह- सञ्चितानामसञ्चितानां प्रागनभ्युपगमात्, प्रागसञ्चिताः परमाणुरूपादयः आलम्बनीभूता इति नाभ्युपगम्यते यस्माद् मायासूनवीयैः । अवश्यं चैतदेवं भवद्भिरभ्युप20 गतमेतदिति तदर्थोपप्रदर्शनार्थम् आगम एवोक्तं हि वः । हिशब्दो यस्मादर्थे, यस्मादुक्तं हि वः सिद्धान्ते, किमुक्तम् ? सङ्घाता एव सङ्घातान् स्पृशन्ति सावयवत्वादित्युक्तम् । किं परमाणवः परस्परं स्पृशन्ति ? न स्पृशन्ति ? स्पृशन्तोऽपि किं देशेन देशं स्पृशन्ति ? सर्वे वा ? सङ्घातं वा ? सङ्घाता वा सङ्घातान् स्पृशन्तो देशेन वा देशं सर्वं वा स्पृशन्ति ? [ ] इति परिप्रश्नोपक्रमं तत्र परस्परस्पर्शनिरूपणे इत्यादि, सर्वात्मस्पर्शना स्पर्शनयोर्दोषापादनेन निर्द्धारितम् - सङ्घाताः सङ्घातान् 25 देशेन स्पृशन्ति देशमेव [ ] इति । यदि परमाणुः परमाणुं स्पृशेद् देशाभावात् सर्वात्मना ५२-२ स्पृशेत्, ततश्च स तत्प्रवेशेन पिण्डोऽणुमात्रकः स्यात् सप्रतिघत्वहानं चास्य स्यात् । तथा सङ्घातोऽपीति
५२-१
१ सद्भाव प्र० । एवमग्रेऽपि ॥ २ संहृति० ॥ ३ 'वाचितैव प्र० ॥ ४ नाया वि० ॥ ५ न संचया' भा० ॥ ६ ‘स्तन्मात्रेः भा० । 'स्तस्मान्न वि० । 'स्तस्मात् भा०वि० विना ॥ ७ वादिनाविशेषै प्र० ॥ ८ सञ्चितयैक्या प्र० ॥ ९ शयोय य० ॥ १० मायेर्यायः प्र० ॥ ११ ग्रंथां प्र० ॥ १२ यत्वका य० ॥ १३ पंचात् प्र० ॥ १४ संचितालम्बनी' य० ॥ १५ संघातं वा इति पाठो भा० प्रतौ नास्ति ॥ १६ परमाणुपरमाणुं स्पृशेद् भा० । परमाणुं स्पृशेद् य० ॥ १७ स्यात्मप्रतिपद्यत्वहानं प्र० । “सनिदर्शन एकोऽत्र रूपं सप्रतिघा दश । रूपिणोऽव्याकृता अष्टौ त एवारूपशब्दकाः ॥ १२९ ॥ सप्रतिधा दश रूपिण इति रूपिग्रहणम रूपिनिरासार्थम्, रूपणं रूपम्, तदेषामस्तीति रूपिणः । दशेति चक्षुर्धात्वादयः पञ्च तद्विषयधातवश्च पश्चेति ।" - अभि० को० स्फुटा० ११२९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org