________________
७३
दिङ्गागकल्पितप्रत्यक्षे दोषाः] द्वादशारं नयचक्रम्
नीलं च सञ्चयं च प्रत्येकसमुदितकारणत्वाद् विज्ञास्यतीति चेत्, न, युगपज्ज्ञानासम्भवात् , ज्ञानस्य क्रियावैधम्योत्।
तयोरेकज्ञानत्वादेकज्ञेयत्वे इतरेतरत्वे सर्वसर्वात्मवादिता । सर्वनीलैक्ये हि समवायग्रहणे प्रत्येकैकनीलग्रहणं स्यात् । ततश्च यथात्र सन्द्रावात् सर्वनीलैकता को दृष्टान्तः ? अदग्धस्य दाहाज्ञानवत् , यथा अदग्धस्य दाहानुभवज्ञानं तदाकारज्ञानोत्पत्तिहेत्व- 5 भावान्नास्ति तथा नीलविज्ञानसम्बन्धी न भवति तत्सन्तान इति । एवं नीलरूपतत्सञ्चययोरेन्यतरविषय- ५१-१ त्वेष्टौ दोषा उक्ताः।
इदानीं प्रत्येकं त एव समुदिता इत्युभयैकविषयत्वे दोषं वक्तुकामः पक्षान्तरं ग्राहयति - नीलं च सञ्चयं च प्रत्येकसमुदितकारणत्वाद्विज्ञास्यतीति चेत्, स्यान्मतम् – त एव हि नीलपरमाणवः प्रत्येकं शिबिकोद्वाहन्यायेन समुदिताश्च कारणं न चैकैकः, न च समुदायस्तद्व्यतिरिक्तोऽस्तीत्युभय- 10 कारणत्वं ज्ञानस्य, तस्माज्ज्ञानोत्पत्तिहेत्वभावासिद्धिरिति । एतन्न, युगपज्ज्ञानासम्भवात् , द्वयोरर्थयोयुगपैदेकज्ञानाभावा देकैकस्मिंश्चार्थे युगपज्ज्ञानयोरभावाद्भवतः । यथोक्तम् -
विजानाति न विज्ञानमेकमर्थद्वयं यथा।
एकमर्थ विजानाति न विज्ञानद्वयं तथा ॥ [चतुःश० २६८ ] इति । स्यान्मतम् - हस्तेन अनेकबदरामलकाद्यर्थग्रहणवत् स्यादिति । एतच्चायुक्तम् , ज्ञानस्य क्रियावैधात् । 15 ज्ञानं च प्रत्यक्षमुच्यते, कैल्पनाया ज्ञानाव्यभिचारात्, प्रत्यक्षं कल्पनापोढं यज्ज्ञानमर्थे रूपादौ [न्यायप्र०] इति वचनात् । एवं रूपरूपसमुदाययोर्नानात्वे दोषः ।
___ यद्यपि स्यात् तयोरेकज्ञानत्वादेकज्ञेयत्वम् , एकं ज्ञानमनयोरित्येकज्ञाने, तयोरेकज्ञानत्वात् एकमेव ज्ञेयं तद्भाव एकज्ञेयत्वं दाहानुभववत्, तस्मिन्नेकज्ञेयत्वे इतरेतरत्वे अन्योन्यात्मापन्नत्वे सति सर्वसर्वात्मवादिता । कथम् ? समुदायानर्थान्तरत्वाद् रूपं समुदाय एव समुदायस्वरूपवत्, समुदायो 20 वा रूपमेव रूपानर्थान्तरत्वाद् रूपस्वरूपवत् । एवं रसादि-घटादि-रूपादिसमुदायान्तराभिमतार्थानामनर्थान्तरत्वात् सर्वसर्वात्मकत्ववादिता । तस्मात् सर्वपरमाणुनीलानां सञ्चयानर्थान्तरत्वादैक्ये सति समवाय-५१-२ ग्रहणे युवतिकेशपाशसमुदाये गृह्यमाणे, हिशब्दो यस्मादर्थे, यस्मात् सर्वनीलैक्यं तस्मादेकमेव नीलं रूपमेककेशगतं गृह्येत, एकमेकं प्रति प्रत्येकैकनीलग्रहणं स्यात् , एकनीलवालग्रहणेऽपि च सर्वनीलकेशपाशग्रहणमेकनीलात्मकत्वात् समुदायस्य । ततश्च यथात्र संन्द्रावात् सर्वनीलैकता, गुणसन्द्रावो 26 द्रव्यम् , नार्थान्तरम् , सैन्द्रुत्य सर्वनीलगुणा एकतामापन्नाः, तथा रूपादिपञ्चकस्यापि रूपरसँगन्धस्पर्शशब्दपञ्चकस्यापि 'सन्द्रावादेकता स्यात्' इति वर्तते । कस्माद्धेतोः ? गुणत्वात् , धर्मत्वादित्यर्थः, न हि वैशेषिकवद् द्रव्यगुणभेदोऽस्तीति कृत्वा । दृष्टान्तो नीलैकत्ववत् , यथा सर्वनीलानां गुणत्वाद्धर्मत्वा
१ 'अन्यतर विषयत्वस्य इष्टौ' इत्यर्थः ॥ २स्तीत्युरुषकार' भा० । °स्तीतिपुरुषकार य० ॥ ३ पदेदनाना प्र०॥४ वादेकसि भा०॥५ दृश्यतां पृ० ६. टि. १५॥६"आत्मप्रत्यायनार्थ तु प्रत्यक्षमनुमानं च द्वे एव प्रमाणे। तत्र प्रत्यक्षं कल्पनापोढं यज्ज्ञानमर्थे रूपादौ नामजात्यादिकल्पनारहितं तदक्षमा प्रति वर्तत इति प्रत्यक्षम्"-न्यायप्र० पृ. ७॥ ७ज्ञेयत प्र०॥८ प्रति प्रति प्रत्येकै भा०॥९°बाल प्र० ॥१० सद्भावात् प्र०॥ ११ दृश्यतां पृ० १५ पं० २० ॥ १२ संहृत्य य० ॥१३ °गन्धशब्दस्पर्शशब्दपंचक° प्र० ॥१४ सद्भावा य०॥
नय०१०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org