________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[प्रथमे विध्यरे - विज्ञानमपि न विज्ञानं स्यात्, अन्यथार्थप्रतिपत्तेः, अलातचक्रादिज्ञानवत् । न च चक्षुर्विज्ञानं समङ्गति, रूपादन्यत्रासम्भवात् । न हि सञ्चयो रूपम् । यदपि च तद्रूपं तद्विषयमपि चक्षुर्विज्ञानस्य समङ्गनं नास्ति, अविषयत्वात्, अन्येन्द्रियविषयवत् । सश्चयविषयमपि संवृतिसत्त्वात् खपुष्पवत्। 5 नीलविज्ञानसम्बन्धी न भवति तत्सन्तानः, तदाकारज्ञानोत्पत्तिहेत्वभावात्, अदग्धस्य दाहाज्ञानवत् ।
विज्ञानग्रहणमप्यत एवानर्थकमित्यत आह - विज्ञानमपि न विज्ञानं स्यादित्यादि यावत् खपुष्पवदिति। 'विशेषेण ज्ञानं विज्ञानं तद्भवदभिमतं प्रत्यक्षं मुख्यं विज्ञानं न स्यात् , इतरथा कथमाचार्यश्री
मल्लवादी 'विज्ञानं न स्यादिति स्ववचनविरोधं मायेय-दिन्नाविव ब्रूयात् ? किं कारणं पुनर्विज्ञानं तन्न 10 स्यात् ? अन्यथार्थप्रतिपत्तेः, अरूपस्य सञ्चयस्य रूपत्वेन प्रतिपत्तेः सञ्चयत्वेन वा रूपमात्रस्य प्रतिपत्तेः ।
को दृष्टान्तः ? अलातचक्रादिज्ञानवत्। यथोल्मुकाग्निकणमात्रमर्थं 'चक्रम्' इति प्रतिपद्यमानं न विज्ञानमेवं तदपि । आदिग्रहणात् स्थाणौ पुरुषज्ञानमित्यादि । एवं तावच्चक्षुरिति विज्ञानमिति च द्वयं दूषितम् । 'चक्षुर्विज्ञानसमङ्गी' इत्यत्र समङ्गित्वमपि दूषयितुकाम आह-नं च चक्षुर्विज्ञानं समझतीति, तहारेण
पुरुषाख्यसन्तानैकगमनं समङ्गनं ततस्तन्निषेधः । कस्मान्न समङ्गति ? चक्षुर्विज्ञानस्य रूपादन्यत्रा16 सम्भवात् , न वा तत्सन्तानोऽन्यत्र सम्भवति, उक्तं हि - सति सम्भवे व्यभिचारे च विशेषण५०-२ विशेष्यभावः [ ] इति । सञ्चयापेक्षो व्यभिचारोऽस्त्यतो विशेष्यत इति चेत् , तन्न, यस्मान्न
सञ्चयो रूपम् । अरूपत्वाच्चक्षुर्विज्ञानसङ्गत्यभावः । स्यान्मतम् – नीलरूपाव्यभिचारादेव तदेकगमनात् समङ्गीत्युच्यते चक्षुर्विज्ञानमिति, एतच्चायुक्तम् , तस्याप्यतीन्द्रियत्वाञ्चक्षुर्विज्ञानाविषयत्वादरूपत्वम् । अभ्युपेत्यापि त्वन्मतेन यदपि च तद्रूपम् , रूपत इति रूप्यम् , चक्षुर्विज्ञानेन किल रूप्यत इति, तद्विषयं स 20 विषयो यस्य तत् तद्विषयम् , किं तत् ? एकगमनम् , कस्य ? चक्षुर्विज्ञानस्य, तदपि नास्ति । कस्मात् ? अविषयत्वात् । अविषयत्वमतीन्द्रियत्वात् प्रस्तुतप्रत्यक्षस्य । अन्येन्द्रियविषयवत् , यथा शब्दोऽन्येन्द्रियविषयश्चक्षुर्विज्ञानेन न समझ्यते तथा तदपि रूपमिति । स्यान्मतम् - सञ्चयश्चनुर्विज्ञानसङ्गतियोग्यः स्यादिति, अत्र ब्रूमः - सञ्चयविषयमपि 'चक्षुर्विज्ञानस्य समङ्गनं नास्ति' इति वर्तते ।
कस्मादसत्त्वम् ? संवृतिसत्त्वात् खपुष्पवदिति सङ्गमनाभावसाधर्म्यण दृष्टान्तः । एवं तावद् 'रूपम् , चक्षुः, 25 विज्ञानम् , समङ्गी' इत्येतानि दूषितानि ।
___ इदानीं 'नीलम् , विजानाति' इति च दूष्यम् । तत्र नीलं पदार्थतो दूषितमेव, विजानातीति च दूषितमेव पदार्थतः, रूपचक्षुर्विज्ञानानां सङ्गतेश्च दूषितत्वात् । मा भूदक्षरस्थानं दूषणशून्यमिति कृत्वा वाक्यार्थतोऽपि दूष्यते - नीलविज्ञानसम्बन्धी न भवति तत्सन्तानः, तदाकारज्ञानोत्पत्तिहेत्व
भावात् । स आकारोऽस्येति तदाकारं ज्ञानं नीलाकारम् , तस्योत्पत्तिस्तदाकारज्ञानोत्पत्तिः, तस्या हेतुः 30 सञ्चयो नीलरूपं वा स्यात् , उभयमपि तन्न भवत्युक्तविधिनैव, अंतस्तदाकारज्ञानोत्पत्तिहेत्वभावात् ।
विशेषणक्षानं प्र०॥२ स्यादितिरथा प्र०॥ ३°चक्रज्ञान य०॥४ स्थाणुपुरुष य० ॥५वज्ञान य० ॥ ६ न चक्षु भा०॥७ रूपाधन्यत्राप्र०॥ ८ सद्गमना प्र० । 'समगना' इत्यपि पाठः स्यादत्र ॥ ९ अस्तदा प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org