________________
दिङ्गागकल्पितप्रत्यक्षे दोषाः] द्वादशारं नयचक्रम् विरोधः प्रत्यक्षविषयत्वाभ्युपगमविरोधः। 'चक्षुर्विज्ञानसमङ्गिनीलविज्ञानम्' इत्येतदेव तु न घटते प्रत्यक्षलक्षणोदाहरणम् ।।
एवं ते सञ्चयस्य रूपमात्रत्वात् तद्वहणे तत्प्रत्यक्षत्वात् सञ्चितालम्बनकल्पनावैयर्थ्यादतन्मात्रत्वे संवृतिसत्त्वादरूपत्वाच चक्षुर्नैव चक्षुः स्यात् , उभयथापि रूपाग्राहित्वात् , घटादिवत् । विधानाभ्युपगमेन विरोधः समनन्तरग्रन्थोपपादितोऽसौ स्थित एव। चक्षुर्विज्ञानसमङ्गिनीलविज्ञानमित्येतदेव तु न घटते । तुशब्दो विशेषणे, किं विशिनष्टि ? पूर्वस्माल्लक्षणवाक्यादागमस्यास्याशुद्धतरतां विशिनष्टि । चक्षुषः चक्षुषि चक्षुषा वा विशिष्टं ज्ञानं विज्ञानमसाधारणविषयम् , तत् समङ्गति समन्वेतीति चक्षुर्विज्ञानसमङ्गी, कः ? सन्तानः, विज्ञानस्य तदर्थैकगमनात् तद्वारेण तत्सन्तानोऽपि समङ्गतीत्युच्यते । तत्समङ्गिनो नीलविज्ञानम् । तदेव 'प्रत्यक्षं कल्पनापोढमनिर्देश्यं स्वलक्षणविषयम्' 10 इत्यादि वचनं तेन लक्षितस्य उदाहरणम् 'इदं तत्' इति प्रत्यक्षीकरणं प्रदर्शनम् , यथा वृद्धिरादैच् .... [पा० १॥३॥१] इत्युपलक्षितस्य 'आश्वलायनः' इत्युदाहरणम् ।
कथं तन्न घटते ? तत आह -एवं ते सञ्चयस्येत्यादि यावत् सञ्चितालम्बनकल्पनावैयादिति । एवं ते उदाहरणत्वेष्टौ सत्यां सञ्चयस्य रूपमात्रत्वात, किं भवति ? सञ्चितालम्बनकल्पनावैयर्थ्यं स्यादित्यभिसम्भन्त्स्यते । रूपमात्रत्वं सञ्चयस्य कुत इति तद्ब्रहणे तत्प्रत्यक्षत्वात् , यद्हे यस्य 15 प्रत्यक्षत्वं तत् तावन्मात्रमेव दृष्टम् , यथा दाहग्रहे दाहप्रत्यक्षत्वे दाहमात्रमेव नातोऽन्योऽर्थ ईष्ट एवं सञ्चयग्रहे नीलरूपमात्रमेव । अतः किम् ? सञ्चितालम्बनकल्पनावैयर्थ्यम् , सञ्चयाभावात् । सञ्चयाभावो रूपमात्रत्वात् । सञ्चितालम्बनकल्पनावैयर्थ्याच्चोदाहरणमेव तु न घटते 'चक्षुर्विज्ञानसमङ्गी' इत्यादि ।
अतन्मात्रत्वे संवृतिसत्त्वादित्यादि यावदुभयथापि रूपाग्राहित्वाद् घटादिवत् । अथ मा भूदेष दोष इति न रूपमा सञ्चयः, स एव च गृह्यत इतीष्यते, ततः सञ्चयस्य संवृतिसत्त्वादरूपत्वं 20 खरविषाणवत् । संवृतिसत्त्वं प्रागुपपादितम्। अरूपत्वाच्च न चक्षुह्यः स्यात् सञ्चयः, रूपादन्यत्वात् , शब्दवत् खपुष्पवद्वा। ततः को दोष इति चेत् , उच्यते -- चक्षुर्नैव चक्षुः स्यात् , रूपस्याग्राहकत्वात् , घटवत् जिह्वावत् त्वग्वदित्यादि । कथं 'रूपस्याग्राहकं चक्षुः' इति दृष्ट-प्रसिद्धिविरुद्धमुच्यत इति १००१ चेत्, तवैव दृष्टप्रसिद्धिविरोधावापाद्यते मया । किं कारणम् ? उभयथा रूपाग्राहित्वात्तस्य । यदि सञ्चयस्तथाप्यसन्नरूप एवेत्युक्तत्वादचक्षुर्विषयो रूपम् , ततो रूपस्याग्राहकत्वाच्चक्षुरचक्षुः श्रोत्रवत् । अथा- 25 सञ्चितमेव परमाणुनीलरूपमिष्टं तथाप्यतीन्द्रियत्वादचक्षुर्विषयो रूपम् , अतो रूपस्याग्राहकत्वाच्च चक्षुर्न च चक्षुः स्यादुक्तवदिति सूक्तम् – उभयथापि रूपस्याग्राहकं चक्षुरिति । एवं तावत् 'चक्षुर्विज्ञानसमगी' इत्यत्र चक्षुषोऽचक्षुष्वाच्चक्षुर्ग्रहणमनर्थकम् ।
घटते प्र०॥ २ तस्याण्वलायन भा० । तस्याएवलायन य० । अश्वलो नाम मुनिः, तस्य अपत्यमाश्वलायनः। नडादिषु परिगणितात् 'अश्वल'शब्दात् “नडादिभ्यः फक्" [पा० ४।१।९९] इति सूत्रेण 'फ'प्रत्यये विहिते "तद्धितेषु अचामादेः" [पा० ॥२।११७] इति सूत्रेण "वृद्धिरादैच्" [पा० १.११] इति वृद्धौ ‘आश्वलायनः' इति रूपम् ॥३°न्त्स्यते भूपमात्रत्वं भा० ॥४ द्रष्ट य० ॥ ५ रूपादिग्राहि पा० वि०॥ ६ प्यासन्नरूप एवेत्यक्त य.॥
त्येतदे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org