________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[ प्रथमे विध्यरे
नाणुषु न सञ्चये प्रत्ययता तथाप्रतिपत्तिं प्रति । अनुमानज्ञानमपि च तन्न प्रतिपूर्यते सम्बद्धगृहीतस्यान्यथाप्रतिपत्तेः, विरुद्धादिज्ञानवत् ।
७०
तिष्ठतु तावत् प्रत्यक्षविधिविधानाभ्युपगमेन खलक्षणमात्रविषयप्रत्यक्षत्वस्य
aisal ? प्रत्ययः, प्रत्ययो विज्ञानम्, द्वितीयस्य प्रत्ययशब्दस्य विज्ञानार्थत्वात्, अकारणज्ञानत्वादित्युक्तं 5 भवति । कथं पुनरकारणं तज्ज्ञानम् ? संवृत्यतीन्द्रियत्वाभ्यां यस्मान्नाणुषु न सञ्चये प्रत्ययता तथाप्रतिपत्तिं प्रति, द्रव्यसतामविषयत्वात् तस्य, द्रव्यसन्तो हि परमाणवोऽतीन्द्रियत्वादेव न प्रत्यक्षज्ञानहेतवः; तथा नीलत्वादयः संवृतिसन्तः, तत्सचयोऽसत्त्वादेव अकारणम् । तस्मादुभयथापि अप्रत्ययः स प्रत्ययः 'नीलं रूपम्' इति । को दृष्टान्तः ? यथा 'अश्रावणः शब्द:' इति प्रत्ययोऽप्रत्ययोऽप्रत्यक्षं च तथेदमपीति । स्यान्मतम् – कल्पनात्मकत्वादिभ्य एव हेतुभ्योऽनुमानज्ञानं तर्हि चक्षुरादिविज्ञानं भविष्यतीति । 10 अत्रोच्यते - अनुमानज्ञानमपि च तन्न प्रतिपूर्यते । कर्मकर्तर्यात्मनेपदं यैक् च तत्प्रतिषेधाद् 'न प्रतिपूर्यते ' इति रूपम्, यथाऽयमोदनो विपन्नत्वात् पूतिमांसवदात्मानं न भोजयति न भुज्यते स्वयमेव तथेदमपि ज्ञानमात्मानं न प्रतिपूरयति न प्रतिपूर्यते । कस्माद्धेतोः ? सम्बद्धगृहीतस्यान्यथाप्रतिपत्तेः । सम्बद्ध एव गृहीतः, तस्य सम्बद्धगृहीतस्यान्यथाप्रतिपत्तेः, तस्य ज्ञानस्य अन्यथाप्रतिपद्यमानसम्बद्ध गृहीता४९-१ र्थत्वादित्यर्थः । यद् ज्ञानं सम्बद्धमेवार्थं गृह्णत् तमेवार्थमन्यथा प्रतिपद्यते तद् ज्ञानं नानुमानमपि सम्पूर्णं 15 भवति । तद्यथा - विरुद्धादिज्ञानम् । यथा ' कृतकत्वान्नित्यः शब्दः' इति पक्षधर्मज्ञानं शब्दसंम्बन्धि घटादिष्वनित्यानुगमसम्बद्धं गृहीत्वा नित्यं शब्दं प्रतिपद्यमानं विरुद्धहेत्वाभासज्ञानं भवति, आदिग्रहणात् प्रमेयश्रावणत्वद्वारं नित्यज्ञानं वा शब्दविषयमनैकान्तिकाभासं यथा तथेदमपि न सम्पूर्णमनुमानज्ञानमपीति ।
अथवा तिष्ठतु तावदित्यादि यावत् प्रत्यक्षविषयत्वाभ्युपगमविरोध इति । स्थितं तदस्तु विदूरस्थेन आगमेनाभ्युपगतेन प्रत्यक्षविषयत्वस्य विरोध इत्येतत् । इदमेवास्मिन् प्रकरणे यदुदाहृतं पूर्वं 20 चक्षुर्विज्ञानसमङ्गी इत्यादि तदेव न घटत इति वाक्यार्थः । प्रत्यक्षस्य विधिः प्रत्यक्षस्य जन्म, तस्य विधानं व्याख्यानम् - सैंञ्चितालम्बनाः पञ्च विज्ञानकायाः [ अभि० पि० ] इति, स एव अभ्युपगमः प्रत्यक्षविधिविधानाभ्युपगमः । स्वलक्षणमात्रविषयप्रत्यक्षत्वमेव, स्वलक्षणमात्रं विषयो यस्य तत् स्वलक्षणमात्रविषयम्, किं तत् ? प्रत्यक्षम् तस्य भावः स्वलक्षणमात्र विषयप्रत्यक्षत्वम्, तस्य प्रत्यक्षविधि
"
१ पुनः कारणं तद् ज्ञानम् य० । पुन कारणं तज्ञानम् भा० ॥ २ इति प्रत्ययो ऽप्रत्यक्षं च प्र० ॥ ३ त्वादिभ्यो हेतुभ्यो य० ॥ ४ तत्र प्रति य० ॥ ५ यक्व तत्प्रति० प्र० । “ भावकर्मणोर्यग्विधाने कर्मकर्तर्युपसङ्ख्यानम्" - पा० वा० ३|१|६७| "कर्मवत् कर्मणा तुल्यक्रियः [ पा० ३।१।८७ ] । कर्मस्थया क्रियया तुल्यक्रियः कर्ता कर्मवत् स्यात् कार्यातिदेशोऽयम् तेन यगात्मनेपदचिणचिण्वदिटः स्युः । कर्तुरभिहितत्वात् प्रथमा । पच्यते ओदनः । भिद्यते काष्ठम् ।” पा० सिद्धान्तकौ० ३।१।८७ ॥ ६ तभ्वदमपि भा० ॥ ७ सम्बद्धा गृहीं य० ॥ ८ यज्ञानं भा० ॥ ९ सम्बद्धमर्थ भा० डे० लीं । सम्बद्धमवार्थ भा० डे० लीं० विना ॥ १० गृद्धत्तामवार्थ भा० ॥ ११ तज्ञानं भा० ॥ १२ संबंधे घटादिस्वनित्या प्र० ॥ १३ शब्द प्रति य० ॥ १४ ताववस्तु य० ॥ १५ पूव्वक्षुर्विज्ञा पा० । पूच्चक्षुर्विज्ञा भा०डे० लीं० । तच्चक्षुर्विज्ञा २० ही ० वि० । दृश्यतां पृ० ६० पं० २ ॥ १६ दृश्यतां पृ० ६४ पं० १ ॥ १७ प्रत्यक्षणमात्रं विषयो यस्य भा० । अत्र 'प्रत्यक्षत्वम् एवं स्वलक्षणमात्रं विषयो यस्य' इत्यपि पाठः स्यात् ॥ १८ त्वन् । तस्य भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org