________________
दिङ्गागकल्पितप्रत्यक्षनिरासः] द्वादशारं नयचक्रम् रूपैकतत्त्वैकरूपाध्यारोपाद् रूपान्तरसामान्यरूपविषयत्वात् तदतद्विषयवृत्तत्वादतदनपोहाद् नाम्यनुमानवत् तत्सामान्यात्मकतैव, प्रज्ञप्तिपरमार्थस्थितसञ्चयपरमाणुपरिग्रहाभेदात्मकत्वात् सर्वथा साधारणार्थता, कल्पनात्मकत्वान्न प्रत्यक्षम् , अप्रत्ययप्रत्ययात्मकत्वात्, शब्दाश्रावणत्वप्रत्ययवत्। संवृत्यतीन्द्रियत्वाभ्यां हि स्वरसेनैव भवनाद् भावानामेकवच(द)साधारणभवनत्वात् परमाणूनां स्वानि तत्त्वानि भिन्नानि । तैथा । तेषां परमाणूनां नीलादिरूपाण्यप्यनेकरूपाण्येव । तेषां च स्वतत्त्वानां तेषां च नीलादिस्वरूपाणामनेकरूपाणामेकद्वित्रिगुणादिभिन्नानां यथासङ्ख्यम् एकतत्त्वैकरूपाध्यारोपात् सर्वपरमाणुतत्त्वानामेकस्वतत्त्वाध्यारोपात् सर्वपरमाणुरूपाणामेकनीलरूपाध्यारोपादर्थान्तरनिरूपणम् । स चाप्यध्यारोपो रूपान्तरसामान्य-४४०१ रूपविषयत्वात् , रूपादन्यद् रूपं रूपान्तरम् , परमाणुरूपात् परमाण्वन्तररूपं रूपान्तरम् , एवं सर्वाणि । परमाण्वन्तररूपाणि, तेषां रूपं नीलमित्यभेदेन यत् सामान्यं बुद्ध्या गृह्यते सोऽध्यारोपस्तद्विषयः । तदपि 10 सामान्यं तदतद्विषयवृत्तत्वात् सामान्यमित्युच्यते, स चान्यश्चार्थों विषयोऽस्येति कृत्वा । ततश्चात्र प्रत्यक्षेऽन्यस्यानपोहः, अनुमाने त्वेनग्नेरग्नेरन्यस्यापोहः । तस्मादतदनपोहात् प्रत्यक्षमविविक्तविषयं स्वविषयाभिमतेऽन्यत्र चापरित्यागेन अभेदेन च वृत्तेः, नानुमानं स्वविषये सामान्यमात्र एव वृत्तेः । अतोऽनुमानात् परपरिकल्पितं प्रत्यक्षं पापीयः सङ्कीर्णतरविषयत्वादिति । तस्माद् नाग्यनुमानवदिति तत् अन्यनुमानतुल्यमपि तन्न भवति, अपोह्यार्थापोहशक्तिशून्यत्वात् । तस्मात् तत्सामान्यात्मकतैव ग्यनु- 15 मानस्य, न प्रत्यक्षस्येति तस्य नीलादेरर्थस्य प्रत्यक्षविषयस्य तज्ज्ञानस्य च तदवस्था सङ्कीर्णरूपता।
किञ्चान्यत् - तदतद्विषयवृत्ततापि न नीलरूपादेस्तज्ज्ञानस्य वोपपद्यते । किं कारणम् ? सदसतोः सम्बन्धाभावात्, घटखपुष्पवत् । तत उपचरितमेव तदतद्विषयवृत्तत्वमपीति तत्प्रदर्शनार्थमाह -प्रज्ञप्तिपरमार्थस्थितसञ्चयपरमाणुपरिग्रहाभेदात्मकत्वात् । प्रज्ञप्तिसन् सञ्चयः, परमार्थसन्तस्तु तथास्थिताः परमाणवः, तेषां परिग्रहः सदसदभेदात्मकः, तस्मात् सदसत्परिग्रहाभेदात्मकत्वात् तदतद्विषयवृत्तता । 20 सा च सर्वथा साधारणार्थता, सर्वथा एतेष्वनन्तरोक्तेषु हेतुषु । ततो मूलहेतुः 'कल्पनात्मकत्वात्' 'इति स एवैतैः साधितः, तस्मान्न तत् प्रत्यक्षं न चानुमानवदसङ्कीर्णस्वविषयमित्येतदर्थभावनार्थाः ४८-२ पुनस्त एव हेतवो व्यापारिताः प्रत्येकमपि पूर्ववदेतस्मिन्नर्थे योज्याः । इतश्च तज्ज्ञानमप्रत्यक्षम् , अप्रत्ययप्रत्ययात्मकत्वात् , शब्दाश्रावणत्वप्रत्ययवदिति । प्रत्ययः कारणं हेतुरित्यर्थः, न प्रत्ययोऽस्येति अप्रत्ययः,
१ स्वरसोनेव य० ॥ २ भावनामेकवचसाधारणभवनत्वाद्भवनत्वत्वात्पर' भा०। भावानामेकवचसाधारणभवनत्वा २ स्पर' य.। अत्र 'भावानामेकवदसाधारणभवनत्वादसाधारणभवनत्वात् परमाणूनाम्' इत्यपि पाठः य० प्रतिपाठानुसारेण सम्भाव्यते । एकैकवत् सर्वेषां परमाणूनामत्यन्तभिन्नं खतत्त्वमित्यभिधातुम् 'असाधारणभवनत्वादसाधारणभवनत्वात्' इति वीप्सया प्रयोग इति भाति । अथवा 'भावानाम्, एवं चासाधारणभवनत्वात् परमाणूनाम्' इत्यपि पाठोऽत्र स्यात् ॥ ३ तथा तथा तेषां भा०॥४सामान्यबुद्ध्या य० ॥ ५ वनग्नेरन्यस्या भा०॥ ६°दतनपो' भा०॥ ७नानुमात्र प्र०। 'यथा प्रत्यक्षमविविक्तम्वविषयं तथा नानुमानमविविक्तखविषयम् , खविषये सामान्यमाने एव वृत्तेः' इत्याशयोऽत्र भाति ॥ ८°वददि तत् य० । अत्र "वदपि तत नस्य प्र० ॥ १० °चरितमंच तद प्र० ॥११ ग्रहमेदा य० ॥ १२ °णार्थाता भा० ॥ १३ इति एवैतैः य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org