________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
कारकतायामकारकतायां वा वस्तुनः पितृधूमादिवत् । अभिधानाव्यपदेश्यतैकात्मकत्वे अपि च नैव, अनुमिताग्निवद् बहुविषयत्वाद्
६८
20
नीलस्य ।
तद्धि नीलरूपनिरूपणं विकल्पः, प्रतिपरमाणुपरस्परप्रतिभिन्नस्वतत्त्वानेक6 रनुमेयोsप्रत्यक्ष तथा 'नीलरूपम् । यथा च धूमालम्बनोत्पादिताग्निज्ञानमनुमानमप्रत्यक्षं च तथा नीलज्ञानं संयोगोत्पादितमिति ।
"
किञ्चान्यत् – सर्वथा तद् नीलादिज्ञानं तेन सञ्चयेन व्यपदेश्यं तदविनाभावात् तस्य कारकतयामकारकतायां वा न कश्चिद् विशेषो व्यपदेश्यत्वसिद्धौ वस्तुनः । कुतः ? अर्थान्तरनिमित्तादेव, पितृधूमादिवत् यथा पिता पुत्रस्य जनकः, तेन व्यपदिश्यते कारकेण पुत्रः धूमेन ज्ञापकेन अग्निः, 10 अविशिष्टत्वाद्वस्तुनः। ततस्तुल्ये व्यपदेश्यत्वहेतौ अप्रत्यक्षत्वानुमानत्वसाधनसमर्थे सत्यव्यपदेशनिरोधकोऽयमनर्थको विचारः कारको ज्ञापक इति कारकत्वमभ्युपेत्याप्येष दोषोऽभिहितः । एवं तावदर्थकृतोऽस्य नीलस्य व्यपदेशः सिद्धो यत्सिद्धेरप्रत्यक्षानुमेयत्वे सिद्धे । तत्सिद्धेश्व तज्ज्ञानस्य अनुमानत्वं सिध्येत अव्यपदेश्यत्वादिलक्षणविरोधश्च । एवं तावदर्थतो व्यपदेश्यमेव ।
यदपीष्टम् - अभिधानतो न व्यपदेश्यं तन्नीलादिपरमाणुरूपं परमाणुसमूहाभेदादेकं चेति एते द्वे 15 अभिधानाव्यपदेश्यतैकात्मकत्वे अपि च नैव स्तो नीलरूपस्य इति प्रतिज्ञा । दृष्टान्तोऽनुमिताग्निवदिति प्रतिपत्तिसौकर्यात् प्रागेव हेतोर्दृष्टान्त उक्त', तेंदूलावयवसिद्धेः । हेतुसमर्थनार्थत्वात् दृष्टान्तस्य ४७-२ हेतुस्तर्हि क इत्यत्रोच्यते - बहुविषयत्वात् । यथा धूमज्ञानानुमितोऽग्निरंबा दिविनिवृत्त्युपलक्षितो देशकालादिभेदभिन्नोऽपि अभिधानव्यपदेश्योऽनेकात्मकत्वापन्न एव गृह्यते तथा नीलार्थोऽपि स्याद् बहुपरमाविषयत्वात्, तथा ज्ञानमपीति ।
इदानीं प्रागभिहितकल्पनात्मकत्वादिभिर्हेतुभिरनुमानात् पापीयस्त्वं तस्य प्रत्यक्षस्य प्रतिपादयितुकाम आह - तद्धि नीलरूपनिरूपणमित्यादि । तदिति प्रागपदिष्टं विकल्पात्मकत्वम्, हिशब्दो यस्मादर्थे, यस्मान्नीलरूपस्य निरूपणमुक्तन्यायेन अर्थव्यपदेशेन शब्दव्यपदेशेन वा दृष्टम् स च विकल्प एवेत्यविकल्पकत्वं नास्ति, अतः 'कल्पनापोढम्' इति दुष्ट लक्षणं ज्ञानार्थयोः । अध्यारोपाच्च निरूपणं तस्य, तत् कथमिति चेत्, उच्यते – प्रतिपरमाणु परमाणुं परमाणुं प्रति प्रतिपरमाणु परस्परतः प्रतिभिन्नानि स्वानि 25 तत्त्वानि । यो यस्य भावः स तस्य तत्त्वम्, नैं सोऽन्यत्र भवति, भवनमेव हि तत्त्वम्, अतो विभिन्नानि प्रतिपरमाणु तत्त्वानि, एकैकस्य परमाणोः परमाण्वन्तरेभ्योऽत्यन्तभिन्नं स्वं तत्त्वम्, भावान्तरमैनपेक्ष्य
।
[ प्रथमे विध्यरे
१ नीलं रूपम् य० ॥ २ कतया वा य० ॥ ३ थथा भा० ॥ ४ स्तुल्यो प्र० ॥ य० ॥ ६ 'निरोधिकोऽयम° प्र० ॥ ७ तद्ज्ञानस्य य० । तज्ञानस्य भा० ॥ ८ वेति प्र० ॥ अवयवसिद्धिश्चेति तद्बलावयव सिद्धि:' इति समासे यथाश्रुतपाठः सङ्गच्छते । 'तद्बलादवयवसिद्धेः' इत्यपि दृश्यतां पृ॰ ५१ पं० ९ ॥ १० रपादि प्र० ॥ ११त्वादिभिहे' य० । 'त्वादिति भा० ॥ १३ दृष्टं य० । द्रष्टव्यं भा० ॥ १४ नासो प्र० ॥ १५ मनवेक्ष १० | मनपेक्ष ही० । 'मनवेक्ष्य रं० ही ० विना ॥
५ मानसाधन ९ ' तद्बला चासौ सम्भवेदत्र पाठः, १२ दृष्ट य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org