________________
दिङ्गागकल्पित प्रत्यक्ष निरासः ]
द्वादशारं नयचक्रम्
कारकतापि च सञ्चयस्य नैव तस्य, परमार्थतोऽसत्त्वादलातचक्रवत् प्रत्यवयवव्यवस्थानमात्रत्वात् । लोकवत्तु सञ्चयसत्त्वे विशिष्टोऽपदेशो व्यपदेशो ग्राह्यादन्यः, तेन व्यपदेशेन व्यपदेश्यं प्रमेयमनुमेयं न प्रत्यक्षम्, धूमानुमिताग्निवत्, इदानीं कारकतामपि दूषयितुकाम आह - कारकतापि च सञ्चयस्य नैवास्ति तस्येति प्रतिज्ञा, परमार्थतोऽसत्त्वादिति हेतुः । अलातचक्रवदिति दृष्टान्तः । परमार्थतोऽसत्त्वं संवृतिसत्वाद् भवन्मतेन 5 घटवत् । यथोक्तम् -
यस्मिन् भिन्नेन तद्बुद्धिरैन्यापोहे धिया च तत् । घटावत् संवृतिसत् परमार्थ सदन्यथा ॥
[ अभि० को ० ६ | ४ ] इति ।
यथा उल्मुकं भ्रमद् भ्रान्तदृष्टेश्चक्रवाभाति, न तच्चक्रमस्ति, अग्निकणानां नैरन्तर्याभावात्, चक्रस्य पर - ४६-२ मार्थतोऽसत्त्वाच्च चक्रविज्ञानस्य अकारकता एवं सञ्चयस्य संवृतिसत्त्वान्नीलविज्ञानस्य अकारकता । तथा 10 अतीन्द्रियत्वादणुनीलानाम् । इतश्च सञ्चयस्य अकारकता, प्रत्यवयवव्यवस्थानमात्रत्वात्, अवयव - मर्वयवं प्रति प्रत्यवयवम्, अवयवा नीलादिपरमाणवः, तेषामेव "संहत्यैकत्र परस्परासत्त्या व्यवस्थानमात्रं सञ्जयो न तेभ्योऽर्थान्तरमिष्टं भवताम् । अतः परमार्थतो नास्त्येवासौ सञ्चयो नाम कश्चित् । तस्य असतः खैरविषाणस्येव का कारकता ?
६७
अभ्युपेत्यापि सञ्चयस्य सत्त्वं दोषं ब्रूमः - लोकवत्तु सञ्चयसत्त्वे, यथा लोकस्य अव्युत्पन्नस्यापि 15 समुदायिव्यतिरेकेण सन्नेव अवयवी परिणामान्तरं तत्समुदायो वा योऽस्तु सोऽस्तु परैव्युत्पादितः सन्नेवासौ तन्तुपटादिषु बुद्धि-शक्ति-कार्याऽभिधान - सङ्ख्या दिभेददर्शनादिष्टः, तत्राक्षरार्थानुसारेण व्यपदेशोऽस्त्येवेति गृह्यताम् । ततश्च 'अव्यपदेश्यो विषय: प्रत्यक्षस्य, प्रत्यक्षं चाव्यपदेश्यम्' इत्युभयमनृतम् । तत् कथमिति चेत्, विशिष्टोऽपदेशो व्यपदेश इति विशब्दस्य विशिष्टार्थताम् अपदेशशब्दस्य हेत्वर्थतां च दर्शयति । विशिष्टोऽन्य इत्यर्थः । कुतोऽन्य इति चेत्, उच्यते - ग्राह्यादन्यः, ग्राह्यो नीलादिः, तस्मा - 20 दर्भ्यः सञ्चयस्तद्वधपदेशः । तेन समयेन व्यपदेशेन हेतुना व्यपदेश्यम्, किं तत् ? प्रमेयं नीलादि त्वदभिमतप्रत्यक्षप्रमाणगम्यम् । किं भवति तन्नीलादिरूपम् ? अनुमेयं प्राप्नोति व्यपदेशव्यपदेश्यत्वात्, न प्रत्यक्षम् । तस्य ज्ञेयस्यास्मादेव हेतोः प्रत्यक्षत्वाभावोऽनुमेयभावश्च साध्यते, तद्वज्ज्ञानस्य अप्रत्यक्षता ४७-१ अनुमौनता च साध्यते । को दृष्टान्तः ? धूमानुमिताग्निवत् । यथा धूमेन व्यपदेशेन साधितोऽग्नि
Jain Education International
१ "यत्र भिन्ने” - इति अभिधर्मकोशे पाठः ॥ २ रन्यापोहधिया य० ॥ ३ यत् प्र० । अत्र 'तत्' इति अभिधर्मकोशे पाठस्तथैव च व्याख्यातो वसुबन्धुना तद्भाष्ये । नयचक्रवृत्तिकृतामपि 'तत्' इति पाठ एव सम्मतः, यतस्तैरेव अस्य श्लोकस्य विवरणावसरे इत्थं व्याख्यास्यते - “ यस्मिन् घटे भिन्नेऽवयवशो न तद्बुद्धिर्भवति तद् घटवत् संवृतिसत्" - नयचक्रवृ० पृ० ६६-१ ॥ ४°म्बुवृत् भा० वि० विना ॥ ५ ° दाहाति भा० ॥ ६ मार्थतोसत्वाच्चक्र' पा० रं० ही ० । 'मार्थसतोसत्वाश्च चक्र भा० ॥ ७ 'त्वान्नीलंविज्ञा य० ॥ ८ 'प्रत्यवयवस्थान' प्र० । ९ मवयं प्रति य० ॥ १० संहतैकत्र प्र० । ११ नाम कंचित् भा० । न मे कंचित् य० ॥ १२ खरविषाणस्यैव भा० । रसविषाणस्यैव य० ॥ १३ परिणामान्तरत् । तत्समुळे भा० । परिमाणान्तरवत् । तत्समु° य० । दृश्यतां पृ० ६४ पं० १९ ॥ १४ सन्नैवासौ भा० ॥ १५ सूत्राक्ष' प्र० ॥ १६ गृह्यतान् । भा० ॥ १७ हेत्वर्थतां त दर्श य० । हेत्वर्थतां दर्श भा० ॥ १८ न्य सञ्च प्र० ॥ १९ अमेयं प्र० ॥ २० पदेश । त्वात् भा॰ । 'पदेशत्वात् य० ॥ २१ तद्वज्ञानस्य भा० | तज्वज्ञानस्य य० ॥ २२ मानत्यव साध्यते प्र० ॥
For Private & Personal Use Only
www.jainelibrary.org