________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [प्रथमे विध्यरे ननु च सञ्चयस्य कारकहेतुत्वेनापदेशः प्रत्यक्षप्रतिपत्तेर्न धूमवज्ज्ञापकहेत्वपदेशतया अग्नेरिवार्थान्तरस्यैकरूपत्वस्य । नन्विदमस्यैवार्थस्य प्रदर्शनार्थं प्रस्तुतमस्माभिः, यदीदं प्रत्यक्षं स्यात् कारकादेव स्वार्थादालम्बनाद्धेतोर्जायेत दाहानुभवनवत् प्रत्यक्षत्वादव्यवहितप्रतिपत्त्यात्मकत्वात् प्रत्यक्षस्य स्खलक्षणविषयत्वादनध्यारोपात्मकत्वादिति यावत्।
अत्राह - ननु च सञ्चयस्येत्यादि यावदर्थान्तरस्यैकरूपत्वस्येति । नन्वित्यनुज्ञापने, चशब्दः प्रसिद्धभेदसमुच्चये, नन्विदं प्रसिद्धम् – अन्यः कारको हेतुरन्यो ज्ञापक इति । तस्मादणूनां तत्सञ्चयस्य नीलस्य च कारकसम्बन्धाद् धूमस्याग्नेश्च ज्ञापकसम्बन्धात् प्रत्यक्षानुमानप्रतिपत्त्योर्वैषम्यमतः साध्यधर्म
वैकल्यं दृष्टान्तस्य इष्टविघाताद् विरुद्धता हेतोरिति वाक्यार्थः । अक्षराण्युत्तानार्थान्येवेति न विवृण्महे । 10 अत्राचार्यो दोषद्वयं परिहरन्नाह - नन्विदमस्यैवार्थस्य प्रदर्शनार्थ प्रस्तुतमस्माभिः । नैतदनिष्ट
मस्माकं न वा साध्यधर्मवैकल्यं यत् सञ्चयस्य ज्ञापकत्वप्रसङ्गात् प्रत्यक्षप्रतिपत्तेस्तद्दोषद्वयमस्मान् प्रत्या
पायेत । न पुनरेवमेतत् , अस्यैव प्रतिपिपादयिषितत्वात् । तदुच्यते - यदि भवन्मतमिदं प्रत्यक्षं स्यात् , ४६-१ कारकादेव निष्पादकादेव चक्षुरादिविज्ञानस्य नीलपीतादेः खार्थाभिमतादालम्बनभूताद्धेतोर्जायेत
सञ्चयाख्यात् संवृतिसतः, न परमार्थसतोऽण्वादेरपि स्यात् , भवति तु । तस्मान्न प्रत्यक्षम् , ज्ञापकधूमाद्य15 पेक्षाग्निज्ञानवत्, वैधर्म्यण दाहानुभवनवत् । स्वार्थमात्रालम्बनं वा स्यात् प्रत्यक्षत्वाद् दाहानुभवनवत् । यथोक्तम् -
अन्यथा दाहसम्बन्धादाहं दग्धोऽभिमन्यते ।
अन्यथा दाहशब्देन दाहार्थः सम्प्रतीयते ॥ [वाक्यप० २।४२१] अव्यवहितप्रतिपत्त्यात्मकत्वात् प्रत्यक्षस्येति तस्यैवोपचयहेतुः, अर्थान्तरेणाव्यपेतस्यार्थस्य ग्राहक 20 प्रत्यक्षं दृष्टम् , यथा दाहानुभवः, तथा तस्य स्खलक्षणविषयत्वात् प्रत्यक्षस्यार्थान्तरनिरपेक्षता स्यात्, न
पुनरस्तीति स्वलक्षणविषयत्वादनध्यारोपात्मकत्वादिति यावत् , सर्वत्रार्थान्तराध्यारोपवृत्त्यर्थान्तरेहेयतयोत्पन्नं न ज्ञानमिति यावदुक्तं भवति तावदुक्तं भवति स्वलक्षणविषयत्वाँदव्यवहितप्रतिपत्त्यात्मकत्वात् प्रत्यक्षत्वादित्यादि । अर्थान्तरनिमित्तग्राह्यं चाप्रत्यक्षं दृष्टम् , यथा दाहशब्दजनितज्ञानमिति । एवं तावत् कारकतां सञ्चयस्याभ्युपगम्य दोष आपादितः।
१र्थान्तस्यैक भा० वि० विना । दृश्यतां पृ० ७७-२॥ २ °संबद्धाधूमस्य प्र० ॥ ३ प्रतिपत्त्योथैषगम्यतः साध्य य० ॥ ४ धर्मविकल्पं प्र० ॥ ५°न्तस्यैष्ट वि. विना ॥ ६ प्रत्यापायेव भा० । प्रत्यपाधव य०॥ ७ भा० विनान्यत्र-वमेवटस्यैव पा० वि० । 'वमेवचस्यैव डे. लीं । वमेववस्यैव रे. ही॥ भा. विनान्यत्र-स्यादकारका वि० डे० ली।स्यावकारका रे. ही। स्मावकारका पा०॥९शावत भा० विना॥ १०"अन्यथैवाग्निसम्बन्धाद्दाहं दग्धोऽभिमन्यते । अन्यथा दाहशब्देन दाहाद्यर्थः प्रतीयते ॥"-वाक्यप०॥ ११ ध्यारोपत्वादिति य०॥१२°न्तराहपतयोत्पन्नं तज्ञानामिति य० । न्तराह ॥ पतयोसन्नं तज्ञानमिति भा०॥ अत्र 'अर्थान्तराध्यारोपवृत्ति अर्थान्तरहेयतयोत्पन्नं न ज्ञानम्' इत्यर्थः प्रतिभाति । अर्थान्तरहेयतया अर्थान्तरगम्यतयेत्यर्थः, 'हि गतौ' [पा० धा० १२५८] इति 'हि'धातोर्गत्यर्थत्वात् सर्वेषां गत्यर्थानां च ज्ञानार्थत्वात् । तुलना-"अतस्तदर्थत्रयमुपसंहृत्य हेतुहेयनिगमनार्थमाह"-नयचक्रवृ० पृ०९७-२ । “अर्थान्तरनिमित्तग्राह्यं चाप्रत्यक्षं दृष्टम्" [पं० २३] इति च वक्ष्यते ॥ १३ °त्वादेर्व्यव° भा० ॥ १४ वा[s]प्रत्यक्षं प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org