________________
दिङ्गागकल्पितप्रत्यक्षनिरासः] द्वादशारं नयचक्रम्
तत्र प्रतिविविक्तरूपान्तराविविक्तवतत्त्वे रूपसङ्घाते इन्द्रियसन्निकृष्टे आलम्बनविपरीता येयं प्रतिपत्तिरव्यपदेश्यैकात्मकनीलरूपविषया ननु हेत्वपदेशव्यपदेश्यैव सा । यतः सञ्चयग्रहणापदेशेन व्यपदेश्यं धूमेनेवाग्निरिव गृह्यते ततोऽन्यत् कल्पितमेकं सामान्यं नीलरूपं तबारेण ।
तत्र प्रतिविविक्तरूपान्तराविविक्तस्वतत्त्वे, प्रत्येकं विविक्तानि रूपान्तराणि प्रतिपरमाणु वा रसादिभेदेन वा, तेषामेव रूपान्तराणामविविक्तं स्वतत्त्वं यस्य सोऽयमविविक्तस्वतत्त्वः । कोऽसौ ? रूपसङ्घातः, रूपधातुभेदपरमाणुसङ्घातः अधिकृतचक्षुर्विषयाभिमतरूपसङ्घातो वा । तस्मिन रूपसङ्घाते इन्द्रियसन्निकृष्टे स्वेविषय्याभिमुख्येन उपस्थिते आलम्बनविपरीता परमार्थत आलम्बनभूतेभ्यः परमाणुभ्यः 'नीलम्' इति वा 'घटः' इति वा येयं प्रतिपत्तिः सा विपरीता, तदग्रहे तबुद्ध्यभावात् , बलाकासु पङ्क्तिज्ञानवत् , अव्यपदेश्यैकात्मकनीलरूपविषया, व्यपदेश्यानेकपरमाण्वालम्बनेभ्योऽन्योऽव्यपदेश्य एक 10 आत्मा अस्येति अव्यपदेश्यैकात्मकम् , किं तत् ? नीलरूपम् , तद् विषयोऽस्या इति अव्यपदेश्यैकात्मकनीलरूपविषया अभिमता 'प्रतिपत्तिः' इति वर्तते । सैव वा प्रतिपत्तिरव्यपदेश्या एकात्मकानेकपरमाणु'नीलरूपविपरीतैकनीलरूपविषया, तद्व्याख्यानार्थमभिधर्मपिटके भवतां यथोच्यते - नीलं विजानाति, नो तु 'नीलम्' इति । नाव्यपदेश्या सा प्रतिपत्तिरित्यभिप्रायः, तं प्रदर्शयति - ननु हेत्वपदेशव्यपदेश्यैव सा । यस्मादुक्तम् – हेतुरपदेशो निमित्तं लिङ्गं प्रमाणं कारणमित्यनर्थान्तरम् [वै० सू० ९।२।४ ] 15 इति । न चावश्यं शब्दाभिधेयमेव व्यपदेश्यम् , किं तर्हि ? यद्यदर्थान्तरेणाधिगम्यते तत्तद्वयपदेश्यम् , अर्थान्तरस्य हेत्वपदेशनिमित्तादिपर्यायत्वात् । तैवापि च यतः सञ्चयग्रहणापदेशेन निमित्तान्तरजन्यमि-४५-२ न्द्रियज्ञानमिष्टं तस्माद् व्यपदेश्यं तत् । तथा चोक्तम् - सञ्चितालम्बनाः पञ्च विज्ञानकायाः [अभि० पि०] इति, न सञ्चयालम्बना इति । एतस्यार्थनिदर्शनार्थमुदाहरणमाह -धूमेनेव अग्निरिव गृह्यते, यथा धूमेन अर्थान्तरभूतेन ‘अग्निरत्र' इति ज्ञानमुत्पद्यमानं व्यपदेश्यं दृष्टं तथैतदपि नीलरूपादिविषयं 20 चक्षुरादिविज्ञानं परमाणुभिरर्थान्तरैर्जनितत्वाद् व्यपदेश्यम् । ततोऽन्य दित्यादि । तत एव यथा व्यपदेश्य तथा धूमादग्निरिव तद् नीलरूपं ततः परमाणुभ्यः परमार्थसद्भ्यः अन्यत् कल्पितमकल्पितेभ्य एक बहुभ्यः सामान्यं विशेषेभ्यः, न साक्षादिन्द्रियैरव्यवहितं गृह्यते, किं तर्हि ? व्यवहितमेवार्थान्तरैः परमाणुभिः तद्वारेण परमाणुद्वारेण गृह्यते, न स्वत एवेति ।
१ तच प्रति भा० ॥ २°क्तस्य तत्वे य० ॥ ३ खं तत्वं भा० । स्वतंत्वं वि० ॥ ४ तंव' य० ॥ ५ स्वविषयाभि य० ॥ ६ अद्यपदे प्र. ॥ ७°म्बनेभ्योन्येन्यपदेश्य प्र०॥ ८ एकात्मिकानेक य० । एकाऽनेक भा० । अत्र यद्यपि य० प्रतिषु एकात्मिका इति पाठ उपलभ्यते तथापि प्रतिपत्तरेकात्मकत्वस्य आलम्बनविपरीतप्रतिपत्तित्वासाधकत्वात् एकात्मकनीलरूपविषयत्वस्यैव तत्साधकत्वाच एकात्मकानेक इत्येव पाठोऽत्र समीचीन इति भाति ॥ ९ नीलविपरीतै भा० ॥ १० “हेतुरपदेशो लिङ्गं प्रमाणं करणमित्यनर्थान्तरम्"-वै० सू० ॥ ११ यदर्था डे० ली० वि० । मदर्था २० ही० ॥ १२ तथापि च प्र० ॥ १३ जनामि प्र० ॥ १४ अन्यकल्पित प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org