________________
न्यायागमानुसारिणीवृत्त्यलकृतम्
[प्रथमे विध्यरे उक्तं वोऽभिधर्मे एव-सञ्चितालम्बनाः पञ्च विज्ञानकायाः, रूपादिपरमाणोरेकस्यासञ्चितस्यालम्बनस्य घटनीलादिष्वभावात् । तथा सम्भावनेऽपि तेषामतीन्द्रियत्वादालम्बनत्वानुपपत्तेश्चक्षुरादिविज्ञानानां रूपादिपरमाणुसङ्घात एवालम्बनम् । ततः प्रत्येकमालम्बनपरमाणूनां परमार्थसतामेषामविषयता। । अतः सदसदभेदपरिग्रहात्मकत्वात् तैमिरिककेशोण्डुकादिज्ञानवत् तदतद्विषयत्वमस्य । किश्चान्यत् - सर्वथा साधारणार्थत्वात् । साधारणोऽर्थोऽस्य ज्ञानस्येति साधारणार्थम् । तत्साधारणार्थत्वमभेदपरिग्रहात्मकत्वात् । आंदिग्रहणात् 'अन्वयव्यतिरेकार्थविषयत्वात् सामान्यविशेषात्मकार्थविषयत्वात्' इत्यादिभ्यो हेतुभ्यः । दृष्टान्तोऽनुमानादिज्ञानानि त्वयैवोदाहृतानि
भ्रान्तिसंवृतिसज्ज्ञानमनमानानमानिकम ।
स्मार्ताभिलाषिकं चेति तदाभासं सतैमिरम् ॥ [प्र० समु० ११०] इति । तस्माद्धेतुपारम्पर्येण कल्पनात्मकत्वसिद्धेरेकैकस्माद्वोक्तहेतोरप्रत्यक्षमिदं कल्पनापोढलक्षणलक्षितं ज्ञानम् ,
अनुमानादिज्ञानवदिति, यथा अनुमानादिज्ञानं कल्पनात्मकत्वादप्रत्यक्षं तथा भैवतेष्टमिन्द्रियज्ञानम् । ४४-२ मा मंस्थाः ‘प्रोक्तकल्पनात्मकत्वादिहेत्वसिद्धिः' इति । यस्मादुक्तं वोऽभिधर्म एव अभिधर्मपिटक
एव बुद्धवचनेऽभिहितम् - सञ्चितालम्बनाः पञ्च विज्ञानकाया इति । 'नित्यं सम्प्रयुक्तकधर्मैयुक्त15 त्वाद् रागादिभिः काया इत्युच्यन्ते पञ्च चक्षुरादिविज्ञानानि । रूपादिपरमाणोरेकस्य असञ्चितस्य
अन्यैः समानजातीयैरसङ्गतस्य आलम्बनेस्य विषयस्येन्द्रियबुद्धिग्राह्यत्वस्य घटादिषु घटपटरथादिषु नीलादिषु रूपरसगन्धस्पर्शशब्देषु तद्गुणेषु प्रत्यक्षाभिमतेषु संवृतिसत्सु अभावात् सश्चिताणुघटनीलाद्याकार एव गृह्यते चक्षुरादिभिः । तस्यां चावस्थायां परमाणुत्वेन अवस्थानम् आर्हतान् प्रत्यसिद्धम् ,
परिणामान्तरापत्त्यभ्युपगमात् । वैशेषिकाणां परमाण्वारब्धावयविद्रव्यम् । साङ्ख्यानां समवस्थानविशेषा20 पन्नाः सत्त्वादयो गुणाः । लौकिकानां तु स्थूलकार्यानुमिततज्जातीयसूक्ष्मकारणमात्रसम्भावनम् – सन्ति
केचित् सूक्ष्मा बहवः स्थूलस्य कारणभूताः पटस्येव तन्तव इति । सम्भावितानां तथासम्भावनेऽपि तेषां सङ्घात-परिणामाभ्यामृते चाक्षुषत्वाद्यभावो लोकव्याप्ताणुवत् , अतोऽतीन्द्रियत्वादालम्बनत्वानुपपत्तिः । अतश्चालम्बनत्वानुपपत्तेव्यसतां परमाणूनामेतत् प्रतिपत्तव्यम् - चक्षुरादिविज्ञानानां रूपादिपरमाणुसँचात एव आलम्बनमिति । आदिग्रहणाद् रसादिपरिमण्डलादिपरमाणुसङ्घात एव आलम्बनम् । 25 ततः किमिति चेत् , ततः प्रत्येकमालम्बनपरमाणूनाम् , आलम्बनार्थाः परमाणव आलम्बनपरमाणवः,
तेषां परमार्थसतामेषाम् , त एव हि परमार्थसन्तो न समूहो नीलादिर्घटादिश्च संवृतिसत्त्वात् , भव४५-१ सिद्धान्तेनैव अविषयता परमाणूनाम् ।
१ केशोंडुका य० । केशोंदुका भा० ॥ २ आविन भा० वि० विना ॥ ३ ज्ञानानि तथैवोदाहृतानि प्र० ॥ ४ °संज्ञान प्र० ॥ ५ स्माभिलाषिकं य० ॥ ६ “प्रत्यक्षाभं सतैमिरम्” -प्र० समु०॥ ७ भवतीष्ट' प्र.॥ ८°त्वादिहेतसिद्धि' भा० । 'त्वादिहेतुसिद्धि य० ॥ ९ नित्यसंप्र य० ॥ १० नानि तानि हि रूपादिपरमाणों य०॥ ११ असंचितस्यान्मैः समान भा० । असंचितस्यत्मैः समान य० ॥ १२ °नस्याविषय य०॥ १३ यसेंद्रिय प्र०॥ १४ अत्र "ग्राह्यस्य' इति पाठः सम्भाव्यते ॥ १५ परिमाणांतरा' य० ॥ १६ व्याप्त्याणु य० ॥ १७ °त्वाद्यलंबन भा० । 'त्वाद्यालंबन य० ॥१८ संबोधत प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org