________________
दिङ्गागमतनिरासः ]
द्वादशारं नयचक्रम्
हारं त्वदुक्तिवदेवेदमप्रत्यक्षम्, कल्पनात्मकत्वान्निरूपण विकल्पात्मकत्वादालम्बनविपरीत प्रतिपत्त्यात्मकत्वादध्यारोपात्मकत्वात् सामान्यरूपविषयत्वात् तदतद्विषयवृत्तित्वात् सदसदभेदपरिग्रहात्मकत्वात् सर्वथा साधारणार्थत्वादेः, अनुमानादिज्ञानवत् ।
5
कल्पना
णम्,
हारम् । यस्मात् स्वं वचनं स्ववचनं प्रत्यक्षलक्षणवादिनो दिन्नभिक्षोः, स्ववचनस्य स्ववचने वा व्यपेक्षा प्रत्यवमर्शः स्ववचनव्यपेक्षा, सैव आक्षेप:, तेन आक्षेपेण दुस्तरो विरोधस्य परिहारोऽस्येति स्ववचन- ४३२ व्यपेक्षाक्षेपदुस्तरविरोधपरिहारम्, स्वेनैवैतद्वचनेन पौर्वापरेण प्रत्यवमृश्यमानेन विरुध्यते 'सदाहं 'मौनव्रतिकोऽस्मि, पिता मे कुमारब्रह्मचारी' इत्यादिवचनवत्, न तु अस्मदुपपत्तिवद् दूष्यमिदम्, तदर्थे दृष्टान्तमाह - त्वदुक्तिवदेवेदम्, यथेयं त्वदुक्तिः कल्पनात्मिका सती न प्रत्यक्षं तथैवेदमप्रत्यक्षमित प्रतिज्ञा । कल्पनापोढ लक्षणलक्षितं ज्ञानमत्र धर्मि, तदप्रत्यक्षत्वैधर्मविशिष्टं साध्यते । को हेतुः ? त्मकत्वात् । नन्विदमसिद्धं कल्पनात्मैकत्वं तस्य ज्ञानस्य कल्पनापोढत्वात् । अत्रेदं तत्साधनार्थमभिधीयते धर्मान्तरम् - तत् कल्पनात्मकं निरूपणविकल्पात्मकत्वात्, 'इदम् इत्थम्' इति ज्ञानं निरूपस एव विकल्पः, तदात्मकं तत् प्रत्यक्षं घटत्वादिज्ञानवदिति । आह - निरूपण विकल्पात्मकत्वमप्यसिद्धमिन्द्रियज्ञानस्येति, आँचार्योऽत्र तत्साधनार्थमाह - आलम्बनविपरीतप्रतिपत्त्यात्मकत्वात् । तँत्रालम्बनं द्रव्यसन्तो नीलादिपरमाणवो न तत्समूहो नीलपीताद्याकारवान् संवृतिसत्त्वात् । तस्यापि 15 नीलपीताद्याकारस्य प्रत्येकं तारतम्यवत्त्वात् यथा प्रतिपत्तिर्न तथालम्बनमित्यालम्बनविपरीतप्रतिपत्त्यात्मकं तत् । यदालम्बनविपरीतप्रतिपत्त्यात्मकं न तत् प्रत्यक्षम्, यथा स्थाणौ पुरुषप्रतिपत्तिरिति । स्यान्मतम् - द्रव्यसतामेवाणूनां नीलपीताद्याकारत्वान्न विपरीता प्रतिपत्तिरिति एतच्चायुक्तम्, आकारस्य अध्यारोपा - ४४-१ त्मकत्वात्, माणवके सिंहत्वाध्यारोपवत् । स चाध्यारोपित इति कुतो गम्यते ? सामान्यरूपविषयत्वात् । तत्सामान्यं च कारीष - तौष- तार्ण- पार्णादिविशेषानाश्रितामित्ववत् । तदपि असिद्धमिति चेत्, 20 सिद्धमेव, तदतद्विषयवृत्तित्वात् । सं च असश्च विषयस्तदतद्विषयौ, तत्र वृत्तिरस्येति तद्तद्विषयवृत्ति तद् ज्ञानम्, अनेकपरमाणुसमूहजत्वात् तस्य समूहे तेषु च वृत्तत्वात् समूहस्य असत्त्वात् समूहिनामेव द्रव्यसतामणूनां सत्त्वात् तयोश्च अभेदेन नीलाद्याकारपरिग्रहेण ज्ञानोत्पत्तेः । समूहासत्त्वं च तदग्रहे तद्बुद्ध्यभावात्, बलाकापङ्क्ति-मुष्टि- ग्रन्थ्यादिवत् । उक्तं च
Jain Education International
2
गुणानां परमं रूपं न दृष्टिपथमृच्छति ।
यत् तु दृष्टिपथप्राप्तं तन्मायेव सुतुच्छकम् ॥ [ षष्टित०] इति ।
६३
१ स्वेनैवेतद्वच' य० ॥ २ यौन प्रतिकौस्मि प्र० ॥ ३ त्वविशिष्टं य० ॥ ४ साधते प्र० ॥ ५ त्मकं तस्य य० ॥ ६ आचार्योतु तत्साध प्र० ॥ ७ अत्र ** एतादृशचिह्नान्तर्गतो यः तत्रालम्बनं इत्यत आरभ्य नीलपीताद्याकारत्वान्न इत्यन्तः पाठस्तत्स्थाने सर्वाखपि य० प्रतिषु एवंविधः पाठ उपलभ्यते - यथाप्रतिपत्तिरिति स्यान्मतं द्रव्यसतामेवाणूनां नीलपीताद्या कारवान् संवृतिसत्त्वात् तस्यापि नीलपीताद्याकारस्य प्रत्येकं तारतम्यवत्त्वात् यथाप्रतिपत्तिरिति स्यान्मतं द्रव्यसतामेवाणूनां नीलपीताद्याकारत्वान्न । अयं य० प्रतिस्थः पाठः खण्डितत्वात् परिभ्रष्टत्वात् क्वचिह्निर्भूतत्वाच्चासङ्गत इति परित्याज्य एव ॥ ८ सदाध्यारोपित प्र० ॥ ९ सच सच भा० । स चासंश्च य० ॥ १० समूहस्यात्सत्वात् प्र० ॥ ११ सतुच्छकं वि० । समुत्थकं पा० ॥
For Private & Personal Use Only
10
25
www.jainelibrary.org