________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[प्रथमे विध्यरे खरूपसंज्ञी, अर्थस्वरूपविशेषमात्रालम्बनया संज्ञया निर्विकल्पया सम्प्रयुक्तं स्खलक्षणविषयमस्य सन्तानस्येति । न त्वर्थ रूपादिके यहच्छादिनामसंज्ञी। एवमभिधर्मे उक्तम्-धर्मो नामोच्यते नामकायः पदकायो व्यञ्जनकायः।
कल्पितमपि त्विदमफलमलौकिकत्वात् । खवचनव्यपेक्षाक्षेपदुस्तरविरोधपरि5 रूपरसगन्धशब्दस्प्रष्टव्यलक्षणे स्वरूपसंज्ञी रूपादिमात्रसंज्ञी, संजानातीति संज्ञी, स्वरूपसंज्ञा अस्यास्तीति वा स्वरूपसंज्ञी । किमालम्बना सा संज्ञा किस्वरूपा वा यया सम्प्रयुक्तं तत् प्रत्यक्षं रूपादिचित्तं निर्विकल्पं चैतसिक्या सम्प्रयुक्तकधर्माख्यया योगात् 'संज्ञया संज्ञीत्युच्यते तत्सन्तानः ? इत्यत आह - अर्थवरूपविशेषमात्रालम्बनया निर्विकल्पया 'संज्ञया सँम्प्रयुक्तमिति गतार्थं व्याख्यातत्वाद् भाष्येण । तदेव
स्वलक्षणविषयम् , स्वमेव विशेष एव लक्षणम् , लक्ष्यत इति लक्षणम् , कृत्यल्युटो बहुलम् [पा० 10 ३।३।१७३] इति कर्मणि ल्युट्प्रत्ययः, स्वलक्षण विषय]मनन्यविषयमित्यर्थः । अस्य सन्तानस्येति चक्षुविज्ञानसमङ्गिनः, चक्षुर्विज्ञानवत् चक्षुरादिपश्चविज्ञानकाया व्याख्याता इत्थं कल्पनापोढा इति प्रदर्श्यते । 'यत् पुनरुक्तं कल्पनात्मकं ज्ञानं न तत् प्रत्यक्षम् , अर्थस्वलक्षणाविषयत्वात्, गवि अश्वज्ञानवत्' इति
साधनम् । इतश्च सविकल्पकं 'नीलमिदम्' इत्यादिज्ञानं न प्रत्यक्षम् , विशेषणाध्यारोपात्, उत्पलाधार४३-१ सुरभ्यादिज्ञानवदिति । इति परिसमाप्त्यर्थः, 'अर्थेऽर्थसंज्ञी' इत्येतस्य व्याख्यानमिति परिसमाप्तम् । 18 'न त्वर्थे धर्मसंज्ञी' इत्यस्य व्याख्या-न त्वर्थे । नेति प्रतिषेधे, तु विशेषणे, तमर्थमध्यारोपविशिष्टं प्रतिषेधति । तस्मिन्नेव रूपादिकेऽर्थे न तु यदृच्छादिनामसंज्ञी यदृच्छा-जाति-गुण-क्रिया-द्रव्यशब्दसंज्ञी, 'धर्म'शब्दस्य 'शब्द'शब्दार्थपर्यायत्वात् धर्मसंज्ञी न भवति शब्दसंज्ञी न भवतीत्यर्थः । नैषा खमनीषिकोच्यते, किं तर्हि ? एवमभिधर्म उक्तम् अभिधर्मपिटकेऽभिहितम् । किमुक्तम् ? धर्मो नाम उच्यते नामकाय इत्यादि । नामैव नामकायः, कायवत् प्रतिक्षणं शरारुत्वाच्चतुर्भूतसङ्घातत्वाञ्च नाम्नां 20 वा विज्ञानादीनां सङ्घातत्वात् , संज्ञाशब्दानां क्षणिकानामपि संहतानामेव उत्पत्तिविनाशाभ्युपगमात् । यथोक्तम् -
वर्णो गन्धो रसः स्पर्शश्चत्वारोऽपि च धातवः।
अष्टावेतेऽविनिर्भागाः सहोत्पादाः सहक्षयाः॥ [ इति सिद्धान्तात् । पदानि नामाख्यातोपसर्गनिपाताः, तत्कायः पदकायः। व्यञ्जनानि अक्षराणि, अर्थस्य 25 व्यञ्जकत्वात् । तत्कायो व्यञ्जनकाय इति ।
_ एवं तावत् कल्पितमेव भवसिद्धान्ते, किं सम्प्रधारणया अत्र ? इदानी परमार्थो विचार्यते - कल्पितमपि तु इदमफलमित्यादि । नास्य फलमिति अफलम् । किं कारणम् ? अलौकिकत्वात् , खरविषाणकुण्ठतीक्ष्णादिकल्पनवत् । कस्मादलौकिकत्वमिति चेत्, स्ववचनव्यपेक्षाक्षेपदुस्तरविरोधपरि
१ यथा सम्म' य० ॥ २ युक्तधर्मा य० ॥ ३ संज्ञाया भा० ॥ ४ संयुक्त वि. विना ॥ ५ भा० विनान्यत्र-इति प्रदर्शने वि० । इतिः प्रदर्शने पा० डे. ली. २० ही• ॥ ६ अत्र 'यत् पुनरुक्तकल्पनात्मक' इत्यपि पाठः सम्भवेत् ॥ ७ अर्थेऽर्थःसंज्ञी प्र०॥ ८ मतु यदृच्छा भा० । मनु यदृच्छा य० ॥ ९ मभिधर्मस्य उक्तम् वि० । मभिधर्मपउक्तम् पा० ॥ १० धयो प्र० ॥ ११ अत्र 'नामैव कायो नामकायः' इत्यपि पाठः स्यात् ॥ १२ चतुर्भूतीसङ्घातत्वाञ्च प्र० ॥ १३ अष्टावेते विनि य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org