________________
wwwwwwwwww
बौद्धकल्पितप्रत्यक्षलक्षणम् ] द्वादशारं नयचक्रम् विशानसमङ्गी नीलं विजानाति नो तु 'नीलम्' इति अभिधर्मागमोऽपि।प्रकरणपादेऽप्युक्तम्
नीलः स नाम नीलं न नीलार्थोऽनक्षरः स च ।
नीलमिति भाषमाणो नीलस्यार्थ न पश्यति ॥ एतस्यैवार्थस्य भावना तु- अर्थेऽर्थसंशी, न त्वर्थे धर्मसंक्षी [अभि० पि०] । अर्थे रूपादिके
"चक्षुर्विज्ञानसमङ्गी नीलं विजानाति नो तु 'नीलम्' इति" अभिधर्मागमोऽपीति । 'विश्वस्तमेव लौकिकप्रत्यक्षविलक्षणं केल्प्यमानमचीक्लपः, तवागमोऽप्येवमेवेति दर्शयति । चक्षुर्विज्ञानसमझी चक्षुर्विज्ञानसमन्वयी सन्तानः, अगि रगि लगि गत्यर्थाः [पा० धा० ], चक्षुर्विज्ञानं समङ्गितुं शीलमस्येति चक्षुर्विज्ञानसमङ्गी, एवं श्रोत्रादिविज्ञानसमङ्गिनः । नीलं विजानाति, रसादिविविक्तं रूपं स्वलक्षणं विजानाति । नो तु 'नीलम्' इति विजानाति, इतिशब्दस्य शब्दपर्यायत्वात् 'इदं तद् नीलम्' इति शब्दनिर्देश्यं न 'विजानाति, अपटुत्वादिन्द्रियविज्ञानस्य कुतः शक्तिरेवं कल्पयितुम् । 10
प्रकरणपादेऽप्युक्तमिति भंवत्संमतागमव्याख्यानग्रन्थान्तरेऽप्येतदर्थानुवादिन्यभिहितमिति दर्शयति । नीलः से नाम नीलं [ने]ति श्लोकः । यदेतन्नीलमेतदिति नाम्ना "निर्देशो नीलमस्य नाम एतन्निरूपणविकल्पकृतम् । न नीलार्थः नीलस्य रूपस्य वस्तुनश्चक्षुरिन्द्रियविषयस्य परमार्थः स्वरूपतोऽनक्षरः अक्षरैर्व्यञ्जन-पद-नामकायैरनभिलपनीयः । स च पुरुषो निरूपणकाले स्वयं निश्चिन्वन्ननुस्मरणकाले वानुस्मरन् परं 'अंतिपिपादयिषन् वा नीलमिति वाचं भाषमाणो नीलस्यार्थमनभिलाप्यस्वरूपं स्वज्ञानाशव- 15 दविकल्पं न पश्यति, तदा तत्स्वरूपविषयस्याविकल्पस्य नीलार्थविज्ञानस्य च निरुद्धत्वात् तदान्यस्य ४२-२ नीलशब्दाभिलाप्यस्याध्यारोपितस्य सामान्यस्य इन्द्रियगोचरानागतेः ।
एतस्यैवार्थस्य भावना तु । तुशब्दो विशेषणार्थः, एनमेवार्थ भावनयाऽनया विशेषयति । भवति ऎषोऽर्थः, तं भवन्तं भव भव' इति बुद्धौ भावयति यया व्याख्यया सा भावना। का पुनः सा ? अर्थेऽर्थसंज्ञी, न त्वर्थे धर्मसंज्ञीति । एतस्य भावनावाक्यस्य पुनर्व्याख्या - अर्थे रूपादिके प्रत्यक्षविज्ञानविषये 20
विश्वस्तमेत लौकिक भा० । विधेस्तमेत लौकिक य० । अत्र विश्वस्तमेतल्लोकिक इत्यपि पाठः सम्भवेत् ॥ २ कल्प्यांमानचीकृपः भा० । कल्प्यमानंचीकृपः पा० । कल्प्यमानचीकृपः भा० पा० विना ॥ ३ “१२८ उख १२९ उखि १३० वख १३१ वखि १३२ मख १३३ मखि १३४ णख १३५ णखि १३६ रख १३७ रखि १३८ लख १३९ लिखि १४० इख १४१ इखि १४२ ईखि १४३ वल्ग १४४ रगि १४५ लगि १४६ अगि १४७ वगि १४८ मगि १४९ तगि १५० त्वगि १५१ श्रगि १५२ श्लगि १५३ इगि १५४ रिगि १५५ लिगि गत्यर्थाः" इति पाणिनीयधातुपाठे॥ ४ समंगिलः निलं प्र०॥५विजानात्पटुत्वाप्र०॥ ६ पदे य० । “यच्च शास्त्रमिति अभिधर्मशास्त्रमभिप्रेतम् । तत्तु सानुचरम्...... । अन्ये तु व्याचक्षते शास्त्रमिति ज्ञानप्रस्थानम् । तस्य शरीरभूतस्य षट् पादाः-प्रकरणपादो विज्ञानकायो धर्मकायः प्रशप्तिशास्त्रं धातुकायः संगीतिपर्याय इति । अतस्तदपि शास्त्र सानुचरमेव।"-अभि० को० स्फु० व्याख्या १।२॥ ७ भवत्संगतागम प्र० ॥ ८°न्तरेण्यतदर्थानुवादिन्यभि' भा० । °न्तरेण तदर्थानुवादिनाभि ॥९ स नाम नीलं ति स्तोकः पदेतन्नी य० । स नाम नीलं ति स्तोकः
° भा० ॥ १० अत्र निर्देशे' इत्यपि पाठः सम्भवेत् ॥ ११ वस्तनं चक्ष प्र०॥ १२ कालो य० ॥ १३ प्रतिपिपादयिषित्वा नील य० । प्रतिपादयिषत्वा नील भा० ॥ १४ °शचवद भा० ॥ १५ °कल्पनीलार्थ भा० ॥ १६ लाप्यसाध्यारोपि प्र०॥ १७ डे० लीं० विनान्यत्र - भावनात् तुशब्दो भा० पा० वि० २० ही० । भवेत् तुशब्दो डे० ली० ॥ १८ °णार्थ भाव भा० ॥ १९ भावनयानया प्र० ॥ २० एवोर्थः य० ॥.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org