________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [प्रथमे विध्यरे क्रियाद्रव्यस्वरूपापन्नवस्त्वन्तरनिरूपणानुस्मरणविकल्पना। ततोऽपोढमक्षाधिपत्योत्पन्नमसाधारणार्थविषयमभिधानगोचरातीतं प्रत्यात्मसंवेद्यं ज्ञानं प्रत्यक्षम् । चक्षुक्रिया-द्रव्यस्वरूपापन्नवस्त्वन्तरनिरूपणानुस्मरणविकल्पना । ततोऽपोढम् अपेतम् । 'नाम संज्ञा
शब्दः' इत्यनान्तरम् , तद्वारिका कल्पना । सा द्विविधा समासतः - यादृच्छिकी नैमित्तिकी च । 5 नामग्रहणाद् यादृच्छिकी जात्यादिग्रहणाच्च नैमित्तिकी गृहीता । निमित्तनिरपेक्षं नाम यादृच्छिक 'डित्थो ४१-२ डवित्थः' इत्यादि । शब्दद्वारत्वे सत्यपि जात्यादिनिमित्तापेक्षा भिन्ना। तत्र 'गौः' इति जात्या 'शुक्लः' इति गुणतः
मतुब्लोपादभेदोपचाराद्वा विशेषणस्वरूपापन्नं ततो विशेषणादन्यद् वस्तु तयोर्विशेषणविशेष्ययोरभेदसम्बन्धनात्मिकया कल्पनया पूर्व मनसा निरूप्यते पश्चादनुस्मर्यते। तथा डित्थादिष्वपि 'अस्येदम् , सोऽयम्' इति वा
भिन्नयोराभिधानयोरभेदसम्बन्धनया निरूपणानुस्मरणे, शब्दार्थयोर्निमित्तनैमित्तिकयोभिन्नयोरभेदाध्यारो10 पात् । क्रियाशब्देषु पाँचकः' इत्यादिषु नाभेदोपचारः अभिन्नरूपत्वात् क्रिया क्रियावतोः, अतो न निरूपणं किन्तु अनुस्मरणमेव । सर्वत्र च शब्दार्थाभेदोपचारान्निरूपणानुस्मरणे स्त एव । तथा द्रव्यशब्देषु संयोगसमवायनिमित्ताद् 'दण्डी, विषाणी' इत्यादिषु । तस्याः कल्पनाया अपोढम् । अक्षाधिपत्योत्पन्नमिति,
रूपालोकमनस्कारचक्षुर्यः सम्प्रवर्तते ।।
विज्ञानं मणि-सूर्याशु-गोशकृद्भय इवानलः ॥ [ ] 15 चक्षुः प्रतीत्य रूपं च आलोकं च बाह्यं समनन्तरनिरुद्धं मनःसंज्ञितं चित्तं चित्तान्तरावकाशदानात्मकं प्रतीत्य चक्षुर्विज्ञानमुत्पद्यते, चतुर्भिश्चित्तचैत्ताः [अभि० को० २०६४] इति सिद्धान्तात् । तथापि च अधिपतिना चक्षुषा व्यपदिश्यते 'चक्षुर्विज्ञानम्' इति, असाधारणकारणत्वात् , यथा यवाङ्कर इति
बीजतुवारिमारुताकाशसंयोगे सत्यपीति । असाधारणार्थविषयमिति, चक्षुरादिज्ञानानां परस्परविविक्त४२-१ रूपादिनिर्विकल्पस्वलक्षणविषयत्वात् । अभिधानगोचरातीतम् , मनोनिरूपितार्थविषयत्वादभिधानस्य 20 तद्गोचरातीतम् । किं कारणम् ? प्रत्यात्मसंवेद्यत्वात् , आत्मानमात्मानं प्रति प्रत्यात्म, प्रत्यात्मना संवेद्यते नान्यस्मै शक्यमाख्यातुं शूलादिवेदनास्वरूपवत् । ज्ञानमिति कल्पनाया अन्यत्रासम्भवात् सम्बन्धः । प्रत्यक्षम् , अक्षमक्षं प्रति वृत्तेः पञ्चेन्द्रियजम् ।
१°नुस्मरणं विकल्पना य० । “निरूपणानुस्मरणविकल्पेनाऽविकल्पकाः ।" - अभि० को० १॥३३॥ २ भा० विनाऽन्यत्र-यात्तिकी पा० । यावृत्तिकी वि० डे० ली. २० ही० ॥३द्वारच्चे सत्यपि भा० । द्वाराच्च सत्यपि य०॥४°खरूपायत्तं ततो प्र०॥ ५ भा० विनान्यत्र काया कल्पनया पा० डे० लीं. वि० । काया कल्पनाया २० ही० ॥ ६ पारकः प्र०॥७°पणां भा० वि०पणा भा० वि० विना ॥ ८सर्वत्र च शब्दार्थमेदो भा० । सर्वत्र शब्दार्थाभेदो य० ॥९ नमस्कार वि० ॥ १० आलोकं बाह्यं य० ॥ ११°रुद्धमनः य० ॥ १२°त्तवेत्ता प्र. ॥१३ बीजवारि भा० । बीजैतुवारि य० । “यच्चासाधारणं तद्व्यपदेशभाग् भवति, तद्यथा-ऋत्वादिकारणात् प्रादुर्भवन्नंकुरो न ऋत्वादिभिर्व्यपदिश्यते, अपि त्वसाधारणेन बीजेन व्यपदिश्यते ‘यवाङ्कुरः' इति । तथेहापीत्यदोषः ।"न्या०या० १११४, पृ०९९ । “जलकर्षणबीजतुसंयोगात् सस्यसम्भवः।"-चरकसं०१।११।२३॥१४ कल्पस्य लक्षण, य० ॥ १५ कल्पनायाऽन्यत्र भा० । कल्पनमन्यत्र य० । “वरूपविप्रतिपत्तिनिराकरणार्थमाह-प्रत्यक्षमित्यादि । अक्षं प्रतिगतं प्रत्यक्षम् । इदं लक्ष्यम् । कल्पनापोढमिति लक्षणम् । कल्पनापोढनिर्देशाच्च तज्ज्ञानात्मकमिति प्रतीयते । यस्माज्ज्ञाने एव कल्पनासंसर्गोऽस्ति तस्मात् तत्प्रतिषेधेन तदेव प्रतीयते। यथा 'अवत्सा धेनुरानीयताम्' इति वत्सप्रतिषेधेन गोधेनुरेव प्रतीयते, नान्या।"-प्र० समु० टीका १३ । “कल्पनाप्रतिषेधाच ज्ञानस्य सामर्थ्यलब्धत्वात्, अवत्सा धेनुरानीयतामिति यथा वत्सप्रतिषेधेन गोधेनोः"-तत्त्वसं० पं० पृ० ३६७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org