________________
दिनागकल्पितप्रत्यक्षलक्षणम् ] द्वादशारं नयचक्रम्
शास्त्रवदेव तयोरप्यलौकिकत्वकल्पनार्थ लक्षणान्तरं कल्प्यं सामान्यविशेषैकान्तसंवादि । घटादिकल्पनापोडं प्रत्यक्षम् । अथ का कल्पना ? नामजातिगुण
स्यान्मतं भवताम् – कथं प्रमाणज्येष्ठं प्रत्यक्षं न प्रमाणीक्रियेत ? इति । तत्र वः सम्प्रधारमिमं प्रयच्छामि – तदपि च प्रत्यक्षमेवं कल्प्यं शास्त्रवदेवेत्यादि । शास्त्रे ज्ञातेऽपि तद्विहितक्रियासाध्यत्वात्तदिष्टफलस्य क्रियायाश्चाव्यभिचाराज्ज्ञाने, यथोक्तम् -
जानानाः सर्वशास्त्राणि च्छिन्दन्तः सर्वसंशयान् ।
न च ते तत् करिष्यन्ति गच्छ स्वर्ग न ते भयम् ॥ [ ] इति । तस्मात् ज्ञानं फलस्याव्यभिचारि कारणं क्रियासाधनवादिनोऽपि, किमङ्ग पुननिमात्रसाधनवा दिनः ? इति तदेव विचार्यते-शास्त्रवदेवेत्यारभ्य यावद् व्यञ्जनकाय इति । शास्त्र इव शास्त्रवत् , यथा शास्त्रेऽभिहिताः पदार्था अत्यन्तविलक्षणास्तथा प्रत्यक्षमपि लौकिकप्रत्यक्षविलक्षणं तथानुमानं चौस्तु, 10 तयोरप्यलौकिकत्वकल्पनार्थ प्रत्यक्षानुमानयोरप्यलौकिकत्वस्य कल्पनार्थं लक्षणान्तरं कल्प्यम् । किं तत् ? सामान्यविशेषकान्तसंवादि, सामान्यं च विशेषश्च सामान्यविशेषौ, सामान्यविशेषौ च सामान्यविशेषौ च सामान्यविशेषा इत्येकशेषः सरूपत्वात् 'सामान्यमेव, न विशेषः; विशेष एव, न सामान्यम् ; तौ परस्परविलक्षणौ वा' इति त एव एकान्ता लौकिकपदार्थविलक्षणाः शास्त्रेषु कल्पिताः। तैः संवदितुं शीलमस्य तदिदं सामान्यविशेषकान्तसंवादि । घट आदिर्यस्याः कल्पनायाः सा घटादिकल्पना घट-15 सयोत्क्षेपणसत्ताघटत्वाद्यध्यारोपात् , तस्याः ततः कल्पनाया अपोढं प्रत्यक्षं कल्पनीयम् । स्यादाशङ्का-४१-१ कल्पनापोडं प्रत्यक्षं विशेषकान्तवादिन एव मतं नेतरयोः, तयोः कथमलौकिकत्वमिति चेत् , अत्रोच्यते - यत् तावद् विशेषमानं स्खलक्षणविषयमनिर्देश्य प्रत्यक्षं तत् कल्पनापोढत्वादलौकिकं तत् सामान्यानात्मकत्वात खपुष्पवदसदिति सिद्धम् । तथा विशेषानात्मकत्वात् खपुष्पवत् सामान्यमानं सर्वं सर्वात्मकं कल्पनापोडं वस्तु तदसत्, असत्त्वात् तज्ज्ञानमपि तद्वत् । तथोभयानेकत्वैकान्ते तयोरितरेतरानात्मकत्वात् खपुष्पवदभाव 20 इत्यलौकिकत्वम् । यद्यपि सामान्यविशेषव्यपाश्रयं लक्षणमभिहितम् - श्रोत्रादिवृत्तिः प्रत्यक्षम् [ षष्टित० ], आत्मेन्द्रियमनोऽर्थसनिकर्षाद् यद् निष्पद्यते तदन्यत् [वै० सू० ३।११८] इत्यादि, तथापि सामान्यविशेषैकान्तवादिनां बलात् तदेव कल्पनापोढमलौकिकं चेत्यापन्नम् , तस्य चोभयात्मकत्वाभ्युपगमे प्रतिज्ञाहानिः । अथवा तेनैव दूषितत्वात् कस्तौ हतौ हनिष्यति ? इति तस्यैवोपरि बध्यते परिकर इत्यनेनाभिप्रायेण पूर्वमेव ताव तत्परिकल्पितप्रत्यक्षलक्षणमुपन्यस्य दूषयितुकामः सूरिरित्यलमतिप्रसङ्गेन । 25
प्रकृतमुच्यते - अथ का कल्पना ययापोढं ज्ञानं प्रत्यक्षमिति ? अत्रोच्यते - नाम-जाति-गुण
१ संपवारं भा० । संप्रचारं य० । “एवं तावत् कल्पितमेव भवसिद्धान्ते किं सम्प्रधारणया अत्र" - इति वक्ष्यते परमतोपन्यासान्तेऽत्रैव नयचक्रवृत्तौ पृ० ६२ पं० २६॥२ शास्त्रे ज्ञानेपि य० । शास्त्रे। ज्ञानेपि भा०॥३°याश्च । व्यभि भा० । 'याश्च व्यभि य० ॥ ४ साधकवादिनः प्र०॥ ५ कार्य इति पा० । कार्यति डे० ली । "कार्येति २० ही० वि० ॥ ६पदार्थात्यंत प्र० ॥ ७ वास्तु प्र० ॥ ८ "आत्मेन्द्रियार्थसन्निकर्षाद्” - इति मुद्रिते वैशेषिकसूत्रे पाठः, किन्तु अपपाठ एव सः। तुलना - "आत्मेन्द्रियमनोर्थानां सन्निकर्षात्प्रवर्तते। व्यक्ता तदात्वे या बुद्धिः प्रत्यक्षं सा निरुच्यते ॥”-चरकसं० १।११।२० ॥९ हृषितत्वात् य० । हषितत्वात् भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org