________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[ प्रथमे विध्यरे प्रयोगात् तथासत्यत्वसिद्धे शब्दार्थे पुनः 'न यथालोकग्राहं वस्तु' इति विरुध्येत स्ववचनेन । लोकविरोधस्तु प्रस्तुत एव, तदविरोधेऽप्रवृत्तेः। लोकाप्रामाण्ये च सर्वत्र प्रत्यक्षानुमानविरोधावुपस्थितावेव, तत्स्थत्वात्तयोः। लौकिकार्थपृथक्त्वे च तत्कल्पितार्थानाम् । इतिशब्दः प्रकारे, अनेन प्रकारेण इत्थं व्यवस्थाप्य बुद्ध्या 5 अभ्युपगम्य स्वनिश्चितार्थप्रतिपादनार्थ परेषां शब्दप्रयोगात्, पदावधिको वाक्यावधिको वा शब्दप्रयोगव्यवहारो लोकानुपातीत्थमिष्टं तैरपि शास्त्रकारैः । तत्र च तथासत्यत्वसिद्धे शब्दार्थे, तेन प्रकारेण तथा, येन प्रकारेण मृदूपादिपृथुकुक्ष्यादिकेऽर्थे घटशब्दो लोकेन प्रयुक्तस्तेनैव प्रकारेण सत्यत्वेन सिद्धे सत्यत्वसिद्ध लोके शब्दं प्रयुञ्जानैः शास्त्रविद्भिः 'लोकोऽभ्युपगतोऽस्माभिः' इत्युक्तमेव भवत्यर्थात्। ततः पुनः 'न
यथालोकग्राहं वस्तु' इति विरुध्येत । लोकस्य ग्राहो लोकग्राहः, प्राह इव पाहः, यो यो लोकग्राहो 10 यथालोकग्राहम् । किं तत् ? वस्तु । यथैवागोपालप्रसिद्धं वस्तु ब्रुवाणो वादी 'यो यः प्रयुज्यते मया शब्दः
स स न तथार्थः स्यात्' इत्यनेन स्ववचनेनैव विरुद्धमाह, स्वेन वचनेन तत्तद्वचनं विरुध्येत । विरुध्येत ४०-१ इति आशंसावचने लिङ् [पा० ३।३।१३४], कथं मुखनिष्ठरं 'विरुध्यत एवं' इत्यवधार्योच्यते ? 'कथञ्चिद् विरुध्येत' इति दाक्षिण्यमाचार्यः स्वकं दर्शयति । एवं तावत् स्ववचनविरोधः ।
लोकविरोधस्तु प्रस्तुत एव । रूढिविरोधो लोकविरोधः, स तु प्रस्तुत एव । तदविरोघेड15 प्रवृत्तेः, तेन लोकेन अविरोधे शास्त्राणामप्रवृत्तेः, तस्या रूढेः शब्दप्रयोगादेवाभ्युपगताया विरोधमनुपपाद्य
शास्त्राणामविशेषविशेषोभयानेकत्वैकान्तप्रतिपादनार्थानामप्रवृत्तेः। कथमप्रवृत्तिः ? तानि रूढमेवार्थमनुब्रूयुः, अरूढं वा व्युत्पादयेयुः ? यदि रूढम वदन्ति, व्यर्थानि । अथारूढं व्युत्पादयन्ति रूढिविरोधिनमर्थम् , विरुध्यन्त एव लोकेन निःसंशयमिति साधूच्यते - तदविरोधेऽप्रवृत्तेर्लोकविरोधः प्रस्तुत एवेति ।
__ किश्चान्यत् - लोकाप्रामाण्ये च शास्त्रकाराणां सर्वत्र पदे पदे वाक्ये वाक्ये प्रत्यक्षानुमानविरो20 धावुपस्थितावेव । तत्र तावत् 'अंशे प्रत्यक्षविरोध इत्याद्यभिहितं पूर्वम् , इदानीं सर्वत्र प्रत्यक्षविरोधो वाच्य इति विशेषः । अनुमानविरोधो वा नोक्तः सोऽभिधेयः, तदनुषङ्गेण पुनः प्रत्यक्षविरोधवचनं च तत्पूर्वकत्वादनुमानस्येति । शास्त्रकारप्रवृत्तेर्लोकविरुद्धत्वादेव प्रत्यक्षानुमानविरोधावप्युपस्थितावेव । एवेत्यवधारणे, न न भवतः, भवत एवेत्यर्थः । किं कारणम् ? तत्स्थत्वात् तयोः। लोकनाद्धि लोकोऽनुपहतेन्द्रियमनस्क: प्राणिगणो लोक इत्युच्यते । तयोः तस्मिल्लोके स्थितत्वात् प्रत्यक्षानुमानयोः 'लोकश्चे25 दप्रमाणं लोकस्थे प्रत्यक्षानुमाने प्रागेवाप्रमाणे । अथवा स एव स्थितस्तत्स्थः, सुपि स्थः [पा० ३।२७ ] ४०-२ इति वचनात् , लोक एव प्रामाण्येन व्यवस्थितः । क ? तयोः प्रत्यक्षानुमानयोः । स एव लोकः प्रत्यक्षा
नुमानज्ञानाधारत्वात् तद्रूपापत्तेश्च प्रत्यक्षमनुमानं च, ततस्तदप्रामाण्ये तयोरप्रामाण्यमिति । ____१ पातीत्यमिष्टन्नैरपि भा० । पातीत्यनिष्टन्नैरपि पा० । पातीत्यनिष्टान्नैरपि डे० ली० । पातीत्यनिष्टकैरपि वि० । पातीत्यलिष्टक्तैरपि २० ही० ॥ २ सत्यसिद्धे प्र० ॥ ३ आशंकावचने लिट् प्र० ॥ ४ °धस्तुत एव प्र. ॥ ५ अरूढं वा प्युत्पा भा० । अरूढ चा युत्पा य० ॥ ६°नुवंदिति य० ॥ ७°ध्यत एव य० ॥ ८ लोकप्रामाण्ये य० ॥९ पृ० ५४ पं० ४ ॥ १० °य तदनु य०॥ ११ लोकं चेद प्र०॥ १२ वा एव य० ॥ १३ °मानश्च भा०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org