________________
लोकाप्रामाण्ये दोषाः]
द्वादशारं नयचक्रम् ___ अथ प्रतिज्ञैवाभ्युपगमः, तस्या लोकाप्रामाण्यात्। नन्वविशेषादिष्वसतः पक्षादेरुपादानाल्लोकाभ्युपगमात् 'लोकवदेव चार्थः' इति व्यवस्थाप्य शब्दलिङ्गे सङ्ख्यायां कारके कुत्सादौ पदार्थे च योज्यं क्रमेण युगपद्वा वाच्ये । तमभ्युपगम्याविशेषवादिनो विशेषवादिन उभयानेकत्ववादिनो वा 'न तथा' इति तमेव पुनर्बुवतो नैवोऽभ्युपगमविरोधः । नैव इति न स्वशास्त्राभ्युपगमेन, किं तर्हि ? तत्कालाभ्युपगमेनेत्यर्थः । स च सर्वत्राभ्युपगमविरोध इति ।
अथ प्रतिज्ञैवाभ्युपगमः । स्यान्मतम् - न हि पदप्रयोगविषयोऽभ्युपगमोऽस्ति, पदार्थाभावात्, पदार्थस्य उत्प्रेक्षाविषयत्वाद् वाक्यार्थाधिगमोपायत्वेन उद्धृत्य वाक्यार्थाद् व्याख्येयत्वात् । वाक्यमेव ३९-१ शब्दः, तदर्थ एव च शब्दार्थः । तस्मात् प्रतिज्ञैवाभ्युपगमः, तत्साधनार्थत्वाच्छेषवाक्यावयवव्यापारस्य। कस्मात् ? तस्या लोकाप्रामाण्यात् । ततः तस्याः प्रतिज्ञायाः हेतुभूतायाः, तद्बलादित्यर्थः, लोकाप्रामाण्यात् लोकस्याप्रमाणत्वसिद्धेः । 'नित्यः शब्दोऽकृतकत्वादाकाशवत्' इति नित्यत्वे सिद्धे तद्बलाद् 10 नित्यानित्याद्यनेकरूपैकवस्तुप्रतिपत्तिर्लोकोऽप्रमाणीभवतीति ।
____ अत्रोच्यते-नन्वविशेषादिष्वसतः पक्षादेरुपादानाल्लोकाभ्युपगमादिति । 'सर्वं सर्वात्मकम्' इत्येतस्मिन्नविशेषैकान्तेऽभ्युपगते पुनः 'नित्यः शब्दः' इत्यस्य पक्षस्य तद्धेतोदृष्टान्तस्य चाभावः पूर्वोक्तेभ्यो हेतुभ्यो निर्विशेषत्वादिभ्यः । तथा विशेषैकान्ते पूर्वोक्तहेतुभ्य एव पंक्षादीनामभावो निर्मूलत्वादिभ्यः । उभयानेकत्वैकान्तेऽपि परस्परविभिन्नखभावानां सामान्यविशेषेकार्यकारणानामभाव इत्युक्तम् । तस्माद. 13 विशेषादिष्वसतः पक्षादेर्लोकमतसिद्धस्योपादानाल्लोक एव पुनरभ्युपगतो भवति अगतिभिः शास्त्रविद्भिः । तस्माल्लोकाभ्युपगमाल्लोकः प्रमाणीकृत एव 'किञ्चिदकिञ्चित्तथान्यथा' इत्यादिपरस्परविलक्षणव्यवहाराभ्युपगमाच्च "लोकाप्रामाण्यं न सिध्यतीति ते यूयं सुदूरमपि गत्वा लोकमेव शरणं गन्तुमर्हथ शास्त्रविदः । एवं शास्त्रव्यवहारो लोकदर्शनमन्तरेण न सिध्यतीति वाक्यविषयः पदविषयो वा ततः साक्षाल्लोकपक्षापत्त्याभ्युपगमविरोध इत्युक्तः । ___ तथा तद्विषयः स्ववचनविरोधोऽपि प्रतिपत्तव्यः । कस्मात् ? लोकवदेव चार्थ इति व्यवस्थाप्य ३९-२ शब्दप्रयोगात् । लोकेन तुल्यं वर्तते लोकस्येव लोक इव वा लोकवत् , एवेत्यवधारणे, किमवधारयति ? लोकेऽर्थमवधारयति नार्थे लोकम् , शास्त्रविदामपि लोकत्वात् । पृथक्त्वेऽप्यर्थलोकयोरुभयत्र वायमेवकारो द्रष्टव्यः - लोकवदेवार्थः अर्थवदेव लोक इति, द्वयोरपि परस्पराव्यभिचारात् शास्त्रविदां लोकपृथक्त्वे
20
१ युगपद्वाच्यां भा० । घुगपद्वाच्यं यः । “अपोद्धारपरिकल्पनाव्यवस्थामाश्रित्य 'स्वार्थमभिधायशब्दो निरपेक्षो द्रव्यमाह समवेतम्' इति प्रतिपत्तिक्रमनियमानुगममात्रं क्रियते । न हि शब्दस्य क्रमवती विरम्य विरम्य स्वार्थादिषु वृत्तिः सम्भवति, सकृदुच्चारणादर्थेन च नित्यमवियोगात् । प्रतिपत्तिकमो ह्ययं श्रोतुरभिधातुर्वा न व्यवस्थितः। सर्वविशेषणविशिष्टं हि वस्तु संसर्गिणीनां मात्राणां कलापं योगपद्येन एकस्या बुद्धेविषयतामापन्नमुत्तरकालमिच्छन् बुड्यन्तरैः प्रविभजते"-इति भर्तृहरिविरचितायां वाक्यपदीयखवृत्तौ १।२६ ॥ २ नवाभ्यु य० ॥ ३ नवति न शास्त्रा' य० । न खशास्त्रा भा० ॥ ४ वाक्यार्थदर ही. । वाक्यार्थोद २० ही. विना ॥ ५ नत्वविशेषा° भा० पा० डे. ली। तत्वविशेषा वि. रं. ही० ॥ ६सर्वसर्वात्मकत्वम् वि० । सर्वसर्वात्मकम् वि. विना ॥ ७ वाभावः भा०॥ ८परोक्षादी प्र०॥ ९°षाकार्य प्र.॥ १०°लोकमसिद्ध य०॥ ११ लोकप्रामाण्यं य०॥ १२°महँच्च शास्त्र प्र० ॥ १३ इ वा लोकवत् प्र० ॥ १४ पृथक्त्वप्यर्थ प्र०॥
नय०८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org