________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
भेदपदार्थोपादानाच्च 'न तथा' इति पुनर्नवोऽभ्युपगमविरोधः ।
स्तयोश्च कश्चिद्धर्मः प्रकारव्यपदेशभागेषितव्यः, तेषु त्रिष्वपि सिद्धेषु यस्मात् ' तथा ' इति घटते । एवंम् 'अन्यथा' इत्यपि, 'अयमन्यस्मादन्यः, अन्यश्च अस्मादन्यः' इति सर्वासर्वत्वसिद्धेर्लोकपक्षापत्तिः । एवं विशेषैकान्ते देशकालकृतात्यन्तभेदनिरुपाख्यशून्यत्वेषु किं तत् स्यात् 'किञ्चित्' इति विभज्य अन्यस्मादवस्थिता5 दनवस्थितमसद्वान्यदिति बोच्येत विलक्षणमिति ? एवं तथा अन्यथा इति च न घटेते । एवमुभयानेकत्यैकान्ते पूर्ववद् दैव्यादीनामितरेतरानात्मकत्वात् सामान्यविशेषयोः कार्यकारणयोर्वा निर्मूलत्वादिभ्यो वा हेतुभ्योऽसत्त्वाद् वस्तुनः 'किञ्चित्तथान्यथा' इत्यनुपपत्तेर्लोकपक्षापत्तिः । तया च सह सर्वसर्वात्मकत्वादिशास्त्राभ्युपगमो विरुध्यते । एवं तावत् प्रतिज्ञा दुष्टा । प्रतिज्ञा वद्धेतुदृष्टान्तावपि दुष्टावेव, तदसाधकत्वात् । उन्मत्त इति च दृष्टान्तो लोकपक्षपातादृते न सिध्यति, उत्कृष्टो मंद उन्माद इति मदान्तरापेक्षो 10 विमदत्वापेक्षो वा निर्देशः, स च लौकिक एव, तमभ्युपगम्य तेन्निराचिकीर्षव एवोन्मत्ततरा इति । ३८-२
15
५६
एवं तावद् वाक्यविषयो दोषः । इदानीमेकपदविषय उच्यते - भेदवदभेदपदार्थोपादानाच्च 'न तथा' इति पुनर्नवोऽभ्युपगमविरोधः । भेदोऽस्यास्तीति भेदवान्, नास्य भेद इत्यभेदः, भेदेवांश्च अभेद स एवेति भेदवदभेदः, कोऽसौ ? पदार्थः वृक्ष इत्यादिः स्वार्थ- द्रव्य-लिङ्ग-सङ्ख्या-कर्मादिकारकरूपः । यदुक्तं क्रम-यौगपद्यचिन्तायाम् -
स्वार्थमभिधाय शब्दो निरपेक्षो द्रव्यमाह समवेतम् । समवेतस्य तु वचने लिङ्गं सङ्ख्यां विभक्तिं च ॥
[ प्रथमे विध्यरे
Jain Education International
अभिधाय तान् विशेषानपेक्षमाणस्तु कृत्स्नमात्मानम् ।
प्रियकुत्सनादिषु तथा प्रवर्ततेऽसौ विभक्त्यन्तः ॥ [ पा० म० भा० ५।३।७४ ]
इति व्याकरणे सर्वतन्त्रसिद्धान्ते । तत्र स्वार्थ इति जातिराकारो [वो] च्येत स्व एवार्थः स्वार्थ इति सोऽ20 न्यापेक्षत्वादन्येन विना "न 'स्वः' इति स्यात्, अतो द्रव्यादिसिद्धेर्भेदवान् पदार्थः । तेषामेव च स्वार्थादीनामत्यन्तभेदेऽन्योन्यानात्मकत्वात् खपुष्पवद्भावः स्यात्, देशकालाद्यभेदोपलब्धेश्व अभेदसिद्धेरभिन्नः पदार्थः । तस्माद् भेदवदभेदपदार्थ उपात्तः पदं प्रयुञ्जानेन शास्त्रविदा स्वार्थमात्रवादिनापि । तथा द्रव्ये
१ कंचिद्धर्मः प्र• ॥ २ चोद्येत य० । वोद्येत भा० । “वद व्यक्तायां वाचि" [ पा० धा० १००९ ] इति धातोरत्र विवक्षायां तु प्रतिस्थो यथाश्रुतपाठोऽपि साधुरेव ॥ ३ दृश्यतां पृ० ४९ पं० २ ॥ ४ तथा अन्यथा भा० ॥ ५ द्रष्टाः प्र० ॥ ६ द्रष्टावेव भा० । इष्टावेव य० ॥ ७° साधत्वात् य० ॥ ८ माद य० । “मदोऽनुपसर्गे” पाठ एवं साधुः । “मदनं मदः व्यधजपमद्भषः'
[ पा० ३।३।६७ ] इति सूत्रण 'अप्' प्रत्ययस्य विधानात् मद इति भा० [ सिद्धहेम० ५-३-४७ ] इत्यल" - अभि० चिन्ता० स्वो० २।२२६ ॥ ९ तस्माल्लोकाभ्युपगमा लोकप्रमाणीकृत एव किंचिद किंचित्तथान्यथेत्यादि परस्पर विलक्षान्निरा वि० । अत्र च वि० प्रतिपाठे 'स्मा' इत्यत आरभ्य 'विलक्षा' इत्यन्तः पाठांशोऽग्रेतनात् [ पृ० ५७ पं०१७] स्थानात् उत्पत्य इह आगतः सर्वथा निरर्थकोऽशुद्धः परित्याज्य एव ॥ १० वाण्व भा० ॥ ११ वृक्ष इत्यादिखार्थ य० । अत्र वृक्षजात्यादिः स्वार्थ' इत्यपि पाठः स्यात् ॥ १२ " समवेतस्य च वचने लिङ्गं वचनं विभक्तिं च । अभिधाय तान् विशेषानपेक्षमाणश्च कृत्स्नमात्मानम् । प्रियकुत्सनादिषु पुनः प्रवर्ततेऽसौ विभक्त्यन्तः " - इति पातञ्जलमहाभाष्ये पाठः ॥ १३ व्येत भा० ॥ १४ भा० विनान्यत्र - न भव इति पा० । न भू इति डे० लीं० । न त्व इति रं० ही ० । नन्न इति वि० ॥ १५ न्येन्यानात्म' य० ॥
For Private & Personal Use Only
www.jainelibrary.org