________________
लोकाप्रामाण्ये दोषाः]
द्वादशारं नयचक्रम् प्रत्यक्षविरोधः, अंशे खवचन विरोधः, अंशेऽभ्युपगमविरोधः, खोक्तविपर्ययरूपाभ्युपगमात् । अथ तथा ततो न तर्हि लोकगृहीतमन्यथा।
किश्चित् तथा किश्चिदन्यथा उन्मत्तप्रतिपत्तिवदिति चेत्, एवं तर्हि साक्षाल्लोकपक्षापत्त्याभ्युपगमविरोधः, किञ्चिद्हणात्तथाग्रहणादन्यथाग्रहणाच । भेदवदषत्वात् प्रत्यक्षविरोधः । अंशे स्ववचनविरोधः, तत्काले प्रतिपादनशब्दविशेषत्वेष्टेः । अंशेऽभ्युपगम-5 विरोधः, स्वशास्त्रे सर्वत्र प्रसिद्धेन पूर्वकालाभ्युपगतेन सर्वात्मकत्वेनाधुनातनधर्मधर्मिविशेषस्य विरोधात् । स्वोक्तविपर्ययरूपाभ्युपगमादित्यन्ते कारणमुक्तम् , प्रत्यक्षस्ववचनाभ्युपगमानामभ्युपगमाविशेषात् । ३७-२ एवं विशेषकान्ते श्रोत्रेन्द्रियग्राह्यस्य शब्दस्य तावन्मात्रकालावस्थातुः पूर्वोत्तरवर्णसम्बन्धतबुद्ध्यवस्थानेसोपाख्यत्वप्रत्यक्षत्वात् प्रत्यक्षविरोधः । तथैव स्ववचनस्योपपत्तेः स्ववचनेन अनित्यशब्दप्रतिज्ञा विरुध्यते । अत एव चाभ्युपगमेन विरोधः। पूर्ववत् स एव हेतुरत्रापि । तथा उभयानेकत्वैकान्ते प्रागभिहितसाधना- 10 न्येवात्र व्यापार्याणि 'अद्रव्यत्वाद् वन्ध्यापुत्रवद् नानित्यत्वम् , न शब्दोऽस्ति' इत्यादिस्वरूपाभावः । अचाक्षुषप्रत्यक्षगुणस्य संतोऽपवर्गः कर्मभिः साधर्म्यम् , सतो लिङ्गाभावात् [वै० सू० २।२।२५-२६] कार्यत्वात् कारणतो विकारात् इत्यादिशास्त्रविहितहेतुव्याख्यानार्थं प्रतिपादनकाले तत्प्रयोगात् प्रत्यक्षीकरणाचानित्यत्वशब्दत्वाद्यभावात् प्रत्यक्षविरोधः । स्ववचनस्य तत्कालस्य तथावस्थानाभ्युपगमात् ववचनविरोधः। पूर्वाभ्युपगमेन चेदानीन्तनस्य विरोधादभ्युपगमविरोधः। पूर्ववत् स्वोक्तविपर्ययरूपाभ्युपगमादिति 15 सर्वत्र हेतुरिति ।
अथ तथा । अथैते दोषा मा भूवन वितथत्वाश्रया इति 'तथैव' इत्यभ्युपगम्यते परैः । ततो न तर्हि लोकगृहीतमन्यथा इत्यापन्नम् । लोकत्वाच्च प्रतिज्ञातव्याघातस्तदवस्थ इति ।
किञ्चित् तथा किञ्चिदन्यथा, उन्मत्तप्रतिपत्तिवदिति चेत् । स्यान्मतम् - किञ्चिल्लोकेन गृहीतं तथैव भवति प्रतिज्ञादि, किश्चिदन्यथा घटादि, लोकस्यापरीक्षकत्वात्। परीक्षकाश्च पद-वाक्य-प्रमाणविदः । 20 दृष्टान्त उन्मत्तप्रतिपत्तिः । यथोन्मत्तोऽपरीक्षकः पदवाक्यप्रमाणानभिज्ञः किश्चित् तथा प्रतिपद्यते किञ्चिदन्यथा, तत्प्रतिपत्तिश्चाप्रमाणं सदसतोरविशेषाद् यदृच्छोपलब्धेश्व, तद्वल्लोकप्रतिपत्तिरपीति । ३८-१
अत्रोच्यते - एवं तर्हि साक्षाल्लोकपक्षापत्त्याभ्युपगमविरोधः । साक्षादिति प्रत्यक्षत एव लोकपक्षापत्तिः । कथम् ? किश्चिन्द्रहणात् तथाग्रहणादन्यथाग्रहणाच्च । किश्चित्त्वादेव न सर्वे सर्वात्मकम् , सर्वासर्वत्वसिद्धिश्च विभागनिर्देशात् 'किञ्चित्' इति । एवं तेन प्रकारेण तथा इति स चान्य- 20
१शब्दनिःशेषत्वेष्टेः भा० ॥२ सर्वात्मकत्वेन्यधुना य० । सर्वात्मकत्वेभ्यधुना भा० ॥ ३°स्ववचनान्यपगमा प्र०॥ ४°वस्थास्तु प्र० ॥ ५'नसोवाख्यत्व प्र. ॥ ६ प्रत्यविरोधः य० ॥ ७ तथैव च तस्योपपत्तेः य० ॥ ८ सतोपसर्गः प्र० ॥ "अचाक्षुषप्रत्यक्षगुणस्य सतोऽपवर्गः कर्मभिः साधर्म्यम् । सतो लिङ्गाभावात् । नित्यवैधात् । अनित्यश्चायं कारणतः । न चासिद्धम् , विकारात् ।”-वै० सू० २।२।२५-२९॥ ९ कायत्वात् प्र०॥१० भा० विनान्यत्र-व्याख्यातार्थ प्रति पा० डे० ली। व्याख्यानार्थप्रति १० ही० । व्याख्यातार्थप्रति वि० ॥ ११ साक्षाल्लोकपह्याभ्युपगम प्र०। अत्र साक्षाल्लोकपक्षापत्त्याभ्युपगम इत्येव पाठो युक्तः, टीकायां तथैव व्याख्यातत्वात् । दृश्यतां पृ. ५७ पं० १९ ॥१२ कथंचिद्रहणात् प्र० ॥१३ सर्वसर्वात्म° प्र.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org