________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[प्रथमे विध्यरे अन्यत्र दृष्टस्याध्यारोपाद् घटतत्त्ववदलौकिकत्वमिति चेत्, न, व्यामोहस्य मृगतृष्णिकादिवदलौकिकत्वात्तथा ।
तथाच तत्र प्रतिज्ञादीनामप्यनुपपत्तिः, यदि यथा लोकेन गृह्यते न तथा वस्तु, प्रतिज्ञा तावद् यथा गृह्यमाणा अविशेषादेर्न तथा स्यात् । ततश्चांशे 5 अन्यत्र दृष्टस्याध्यारोपाद् घटतत्त्ववदलौकिकत्वमिति चेत् । स्यान्मतम् - 'लौकिकम्'
इति इन्द्रियग्राह्यमुच्यते घटरूपादिवत् । येदत्र घटे घटतत्त्वं पृथुकुक्ष्याद्याकारविशेषस्तदन्यत्र घटान्तरेऽध्यारोप्यते, तच्च नास्ति अध्यारोपादेव । लोकसंवादात्तु प्रतिपादनार्थोऽध्यारोपः । एवं शास्त्राणामप्यध्यारोपादेवालौकिकत्वमिति नास्ति प्रतिज्ञातव्याघातदोषो यं भवान् मन्यते लोकत्वापत्तेरिति ।
अत्र भ्रूमः - न, व्यामोहस्य मृगतृष्णिकावदलौकिकत्वात् तथा । तेन प्रकारेण तथा, सत्यम् , 10 भवति तदलौकिकमविशुद्धत्वाद् मृगतृष्णिकादिज्ञानवत् । विशुद्धलोकस्य न पुनरुपपद्यते, मृगतृष्णिकावदेव
तस्य व्यामोहस्याप्रामाण्यप्रसङ्गात् । ऊँषरभूप्रदेशे ग्रैष्मोष्मसन्तप्तचक्षुषो रविकिरणाः पतिताः प्रत्युत्पतन्तो दूराद् व्यामोहहेतवस्तोयवदाभासन्ते । तस्माच्छास्त्रविज्ञानस्य मृगतृष्णिकाविज्ञानवदप्रामाण्यप्रसङ्गादसमञ्जसोद्राहम् ।
किश्वान्यत्-तथा च तत्र प्रतिज्ञादीनामप्यनुपपत्तिः । न केवलं शास्त्रविज्ञानाप्रामाण्यमेव, 10 किं तर्हि ? तेन प्रकारेण तथा च ऐवं च कृत्वा तत्र सति तस्मिन्नलौकिके मृगतृष्णिकावत् प्रतिज्ञादी३७-१ नामप्यवयवानामनुपपत्तिः । कथम ? यदि यथा लोकेन गृह्यते न तथा वस्तु । यदीति परा
भ्युपगमं दर्शयति, यदि प्रतिपादनकौशलेन प्रतिपादनबुद्धिसंवादमात्रत्वेन दृष्टान्तमुपादाय यथाहं युक्त्योपपादयामि शास्त्रेण च तथा तद् वस्तु न तु यथा लोकेन गृह्यते तथेति भवतोऽभिप्रायः । तत्र प्रतिज्ञा
तावद् यथोक्ता गृह्यमाणा अविशेषादेन तथा स्यात् । अविशेषैकान्तवादे तावत् सर्वस्य सर्वात्मक20 त्वात् 'नित्यः शब्दः' इति प्रतिज्ञा यथा श्रोत्रेण गृह्यते न तथा भवितुमर्हति । किं कारणम् ? नेत्रादि
ग्राह्यरूपाद्यात्मिकापि सेति कृत्वा । एवं विशेषकान्तवादेऽपि 'अनित्यः शब्दः' इति प्रतिज्ञा 'अ'कार'नि'कारादिवर्णविज्ञानानां देशकालकृतात्यन्तनानात्वक्षणिकत्वशून्यत्वनिरुपाख्यत्वात् परस्परापेक्षाभावे सर्वभावाभावे च यथा गृह्यते न तथा स्यात् । एवमुभयानेकत्वैकान्ते पूर्ववदन्यतरग्राह्यस्य इतरपक्षनिरपेक्षस्याभावात् । 25 ततश्चांशे प्रत्यक्षविरोधः । ततश्चेति तस्मादेव हेतो.के गृह्यमाणस्य विपरीतत्वादविशेषैकान्ते तावत् प्रत्यक्षविरोधः, अंशे भागे, तस्यैव वस्तुनः अविशेषकान्तवादिपरिकल्पितस्य प्रत्यक्षोपलभ्यस्य विशे
१ अन्यत्र दृष्टस्याध्यारोद् घटतत्वदवलौकिक प्र०॥ २ यदउ घटे प्र० ॥ ३°तत्वं धिकुक्ष्याचा' प्र.। अग्रेऽपि किञ्चिदीदृश एव अशुद्धः पाठ इत्थं दृश्यते-“घटेनैव घटः क्रियत इति मृत्पिण्डघटेन ऊद्धेग्रीवकुण्डलौष्ठपृथि(थु)कुक्षिबुनादिघटः क्रियते प्रकाश्यते, करोतेः प्रकाशार्थत्वात्"-नयचक्रवृ० पृ. २१५-२ । एतदनुसारेण अत्रापि पृथुकुक्ष्या इति शुद्धं सम्भाव्यते । यथाश्रुतापहे तु विक्ष्या' इति पाठः कल्प्यः, 'विशाला कुक्षिविकुक्षिः पृथुकुक्षिः' इति च तदर्थों ज्ञेयः॥ ४ पाद्येव य.॥ ५ दृश्यतां पृ० ५३ पं०१॥ ६ जटरभू भा० ॥ ७च्छास्त्रविज्ञानस्य भा० ॥ ८पत्तिः केवलं य०॥ ९एवं कृत्वा य० ॥ १०°नामुपपत्तिः भा०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org