________________
सामान्यविशेषकान्ते दोषाः] द्वादशारं नयचक्रम् ।
दृष्टान्ताभ्युपगमात् प्रत्यक्षप्रमाणीकरणाल्लोकत्वापत्तेः प्रतिज्ञातव्याघातः।
शास्त्रत्वादलोकत्वमिति चेत् , न, लोकाश्रयत्वात् तेषां शास्त्राणाम् । तानि हि शास्त्राणि सामान्यविशेषकारणकार्यमात्राणां सर्वत्राध्यारोपेण प्रणीतानि । निर्मूलत्वात् , खपुष्पवत् ; तथा साधनस्यापि कृतकत्वस्य । कृतमित्यनुकम्पितं कुत्सितमज्ञातं वा कृतकम् । निर्मूलत्वं पुनद्रव्यादत्यन्तभिन्नत्वादिति धर्मयोरभावः । धर्मिणोरपि शब्दघटयोः अगुणाकर्मत्वादिभ्यो :हेतुभ्यः पूर्वोक्तवदभाव एव । तत्सङ्ग्रहहेतुरप्युच्यते - तथाऽपूर्वत्वात् । अपूर्वत्वममूलत्वम् , द्रव्यगुणादीनां परस्परतोऽत्यन्तमन्यत्वात् । एवं तावत् सपक्षासपक्षवृत्त्यवृत्तिविपरीतत्वात् तवैव अतर्कत्वदोषो दृष्टान्तबलात तर्कसिद्धेरित्यविशेषविशेषोभयानेकत्वैकान्तवादेषूक्ता दोषाः ।।
किश्चान्यत् , दृष्टान्तस्य प्रत्यक्षत्वात् , अनुमानत्वाद्धेतोः, उपनयस्य उपमानत्वात् , आगमत्वात् ३६१ प्रतिज्ञायाः, दृष्टान्ताभ्युपगमात् प्रत्यक्षप्रमाणीकरणमापन्नम् । तस्माच्च लोकत्वम् , दृष्टान्तसंवादित्व- 10 प्रतिपादनार्थत्वाच्छास्त्रार्थस्य तार्किकाणां तकरुपतिष्ठतां व्याख्यार्थम् । यथोक्तम् - लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः [न्यायसू० ३।३।२५] इति । तथा लोको दृष्टान्तः, तद्विरुद्धं यदभिधीयते तद् दृष्टान्तविरुद्धमिति । ततः को दोष इति चेत्, प्रतिज्ञातव्याघातः। किं प्रतिज्ञातम् ? शास्त्रनिरूपणविपरीतमप्रमाणम् , न हरिणस्वरूपादि, निरपवादत्वादिति, तद्यार्हन्यते शास्त्रप्रमाणीकरणे, प्रत्यक्षबलाल्लोकस्य प्रवृत्तत्वात् । .
15 शास्त्रत्वादलोकत्वमिति चेत् । स्यान्मतम् - ननूक्तं शास्त्रकाराः स्वदृष्टार्थप्रतिपादन- ... कुशला बुद्धिसंवादार्थ दृष्टान्तप्राणैस्तः शास्त्रार्थान् प्रतिपादयन्ति, न पुनः शास्त्रार्था लोके प्रत्यक्षीकर्तुं शक्याः । तत एव तदर्थवाचीनि शास्त्राण्यलोकः [ ] इति। तच्च न, लोकाश्रयत्वात् तेषां शास्त्राणाम् । तानि हि शास्त्राणि, यस्मादर्थे हिशब्दः, यस्मात् तानि सामान्यविशेषकारणकार्यमात्राणां सामान्यमात्रस्य देनि कारणमात्रस्य स्नेहशौक्लयादेदृष्टस्य विशेषमात्रस्य 20 चार्चिष्षु नवनवोत्पादविनाशरूपस्य दृष्टस्य सर्वत्राध्यारोपेण प्रणीतानि। क्षीरस्यैव स्नेहादिसामान्यस्य कारणाख्यस्य संस्थानमात्रं दृष्ट्वा दध्याद्यवस्थाविशेषमन्तरेण तस्य सामान्यस्य स्थित्यभावमपश्यद्भिः- 'यथेदं संस्थानमात्रम, न कार्य न विशेषस्तथान्येऽपि घटपटादयोऽर्थास्त्रिगुणप्रधानसंस्थानमात्रम्' इति सर्वत्राध्यारोप्य तदर्थानि शास्त्राणि प्रणीतानि 'कारणमेव सामान्यमेव सर्वत्र' इत्येतस्यार्थस्य प्रतिपादनप्रसङ्गेन ।३६-२ तथा अर्चिषां प्रतिक्षणोत्पत्तिविनाशपार्थक्यानि दृष्ट्वा रूपरसस्पर्शगन्धमूर्त्यादिसामान्यावस्थानमन्तरेण 25 तदसम्भवमपश्यद्भिः 'यथेदं विशेषमात्रम्, न सामान्यं न कारणं तथान्येऽपि महीमहीध्रसरित्समुद्रद्वीप: गगनतारानक्षत्रग्रहगणादयो भावाः' इति सर्वत्राध्यारोप्य तदर्थानि शास्त्राणि तत्प्रतिपादनप्रसङ्गवचनरचनाविभङ्गतरङ्गापारतोयसमुद्रीभूतानि प्रेणीतानि ।
- १°वादेष्टक्ता प्र० ॥ २ व्याख्यार्थयथोक्तलौकिक प्र० ॥ ३ यथा लोको य० ॥ ४ तद्विरुद्धपदभिधीयते य० ॥ ५ दृश्यतां पृ० ४७ पं० ३ ॥ ६°हन्यते प्रमाणी भा० ॥ ७ लोकप्रत्यक्षीकर्तु भा० वि० । लोकं प्रत्यक्षीकर्तु भा० वि० विना ॥ ८ शास्त्रान्यलोकः प्र० ॥ ९दग्निकारण य० ॥ १० त्राव्यारोपेण भाः । त्राप्यारोपेण य० ॥ ११ ऑस्ति गुण भा० । स्तेिगुण य० ॥ १२°पार्थस्यानि य० ॥ १३ प्रापितानि प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org