________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [प्रथमे विध्यरे व्यावृत्तिा, तत्त्व एव तथाभिव्यक्तेः? विशेषैकान्ते कुतस्तत्पक्षः सपक्षस्तत्सत्त्वं वा,
तथाऽस्थितेः? उभयानेकत्वैकान्ते साध्यसाधनधर्मधर्मिण एव कुतः, तथाऽपूर्वत्वात्? ३५-१ वादिनोऽन्यस्याभावात् तवापि चान्येनाविशेषात् सर्वसर्वात्मकैकत्वाविशेषात् । अथवा अन्यस्य वचनस्या
भावात् त्वद्वचनात्मकत्वादेव सर्ववचनानां त्वदन्यवंचनत्वविशेषाभावादेव वा । अथवा किं नः परवादि5 वंचनयोरभावाभ्युपगम-निष्ठरवचनाभ्याम् ? अन्यश्चासौ पक्षश्चेत्यन्यपक्षोऽर्थोऽस्तु, स कुतः, त्वत्पक्षसर्वै
कात्मकत्वादाविशेषैकान्तात् ? एवं नित्यः शब्दः, अकृतकत्वात् , आकाशवत्' इति वादिनोऽनित्यशब्दपक्षवक्तृवचनवाच्यानामभावः । तद्वत् तदनित्यधर्मसामान्येन समानस्य घटादेरभावान्नित्यैकान्तवादिनोऽसपक्षाभावः । तदभावाद् व्यावृत्त्यभावः । वाशब्दात् कुतः स्वपक्षः सपक्षः तद्वृत्तिर्वा, सर्वसर्वात्मकैकत्वाभेदादेव ? स्यान्मतम् - आविर्भावतिरोभावयोरभूत्वा भावाद् भूत्वा चाभावादनित्यत्वकृतकत्वे स्त एव 10 अविशेषवादिनोऽपीति । एतच्चायुक्तम् , कुतः ? तत्त्व एव तथाभिव्यक्तेः । तत्त्वमेकत्वम् , तस्मिंस्तत्त्व
एव तथा तेन प्रकारेण तथा अभिव्यक्तेः । किमुक्तं भवति ? मृद एवाभिन्नाया अन्तर्सनाविर्भावतिरोभावमात्रत्वादङ्गुलिवक्रप्रगुणावस्थयोरिव अवस्थाविशेषाभिव्यक्तेः किमन्या मृत् सा पिण्डशिवक घटाद्यवस्थासु ? तस्मात् तत्त्व एव तथाभिव्यक्तेः कुतोऽन्यपेक्षोऽसपक्षो व्यावृत्तिस्तत्पक्षः सपक्षस्तत्सत्त्वं चेति साधूच्यते-तवैव
अविशेषैकान्तवादिनः सपक्षासपार्वृत्त्यवृत्त्योहरिणादिस्वरूपविपरीतापादनसाधनेष्विव असत्त्वापत्तिरिति । : 15. . तथा विशेषकान्ते कुतस्तत्पक्षः सपक्षस्तत्सत्त्वं वा ? देशतः परमाणुशो रूपादिशो विज्ञान
मात्रशोऽनुपाख्यत्वशश्च भेदात् कालतोऽत्यन्तपरमनिरुद्धक्षणार्दूर्द्धमनवस्थानाञ्च कुतस्तत्पक्षः, अत्रापि तस्य ३५-२ पक्षो वक्तुर्वचनस्य वा, स एव पक्षः' इत्यर्थ एव वा, 'अनित्यः शब्दः' इति धर्मधर्मिणोर्विशेषणविशेष्ययो
श्चासम्भवात् । कुतः सपक्षः, अर्थान्तरसम्बद्धसामान्याभावात् , साध्याभावसामान्याभ्युपगमे सँपक्षासपक्षाविशेषप्रसङ्गात् । कुतः सत्त्वं तत्र, तदभावात् कृतकत्वादिसविकल्पधर्मान्तराभावात् परस्परविलक्षणनिर्व्या20 पारधर्ममात्रत्वात् सर्वधर्माणां निरुपाख्यत्वशून्यत्वपरमार्थत्वाच्च । पूर्ववच्च "प्रतिवादिपक्षासपक्षव्यावृत्त्यभावो • वाशब्दात् । “पूर्ववच्चोपसंहृत्य तदर्थावबोधनो हेतुरुच्यते - तथाऽस्थितेः । तेन प्रकारेण तथा क्षणिकनिर्व्यापारशून्यत्वप्रकारेण अस्थितेः कस्यचिदर्थस्येति विशेषैकान्तेऽपि सर्वत्र सपक्षवृत्त्याद्यसत्त्वापत्तिरित्थमिति।
तथा उभयानेकत्वैकोन्ते । उभयमिति सामान्यविशेषौ, 'तदुभयमैनेकं भिन्नं परस्परतः' इत्येतस्मिन्नप्येकान्ते साध्यसाधनधर्मधर्मिण एव कुतः ? साध्यस्य वदनित्यत्वस्याभावः, धर्ममात्रस्य
. १°न्यस्यभाषात् प्र० ॥ २°वचनत्वंविशेषा य० ॥ ३ किं न पर प्र० ॥ ४ रचनयो भा० ॥ ५"रभावाद्युपगमनिष्ठुरवचनान्याम् प्र० ॥ ६ त्वत्पक्षं सर्वै प्र० । अत्र त्वत्पक्षे सर्वे इत्यपि पाठः स्यात् ॥ ७°कात्मत्वाद य० ॥ ८ नित्यशब्दः प्र० ॥ ९ चाभावानित्यत्व प्र० ॥ १० 'विशेषोभिव्यक्तः य० ॥ ११ घटाव्यवस्थासु प्र० ॥ १२°न्यपक्षे। सपक्षे । व्यावृत्ति भा० । 'न्यपक्षे सपक्षाव्यावृत्ति य० ॥ १३ ते चैव य० । दृश्यतां पृ० ५१ पं० १॥१४ वृत्त्यवृत्त्याहरिणा य० ॥ १५ वा देरातः पर भा०।चादेरातः पर य०॥ १६ दृश्यतां पृ० २६ टि० ७॥ १७ पक्षे। वक्तु भा० ।पक्षेर्वक्तु य० ॥ १८ सपक्षासपक्षविशेष य०॥ १९ पाख्यशून्यत्व भा० ॥२० प्रतिवादिपक्षव्यावृत्त्यभावो प्र. । यथा पूर्व वाशब्दात् खपक्ष-सपक्ष-तद्वृत्त्यभावो विवक्षितस्तथात्रापि वाशब्दात् प्रतिवादिपक्षासपक्षव्यावृत्त्यभावो विवक्षित इति भावः । दृश्यतां पं० ८ ॥ २१ पूर्वावश्चों य०॥२२ कान्तेन उभयमिति य० ॥२३ °मनेकांभिन्नं भा०। मनेकाभिन्नं य० ॥२४ तावनित्वस्याभावःप्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org