________________
सामान्यविशेषैकान्ते दोषाः ]
५१
प्रत्यक्षप्रसिद्धिविषयत्वाल्लोकस्याप्रमाणीकृतत्वात् प्रत्यक्षस्य च इहेव तवैव सर्वत्रापि सपक्षास पक्षवृत्त्यवृत्त्योरसत्त्वापत्तेः । अविशेषैकान्ते तावत् कुतोऽन्यपक्षोऽसपक्षो
द्वादशारं नयचक्रम्
धर्मापत्तौ लोमशालोम्नोरैक्ये सति अयं हेतुर्धर्मपरिकल्पकृताद्भेदाद् हरिणालोमत्वे साध्ये सपक्षे निर्लोमन्यवृत्तेः असपक्षे च लोमशे वृत्तेर्विरुद्धो हेतुः 'चतुष्पात्त्वे सति उत्प्लुत्य गमनात्' इत्यापद्यते, सपक्षासपक्षवेर्तित्वात् साधारणानैकान्तिको वा, लोमशालोंमैक्ये पक्षाभेदाद् धर्माभेदे च सपक्षासपक्षाभावाद - ० साधारण नैकान्तिको वा । तस्मादेषोऽतर्कः । अतर्कत्वाच्चास्य हरिणादिस्वरूपविपरीतप्रतिपादनमप्रमाणम् । चेदित्याशङ्कायाम्, एवं चेन्मन्यसे, तन्न, दृष्टान्तस्य प्रत्यक्षप्रसिद्धिविषयत्वात् । दृष्टान्तो हि लोके प्रत्यक्षप्रमाणप्रसिद्धो घटपटादिरर्थः, तद्विषयं च साध्यसाधनसमन्वयव्यतिरेकविभावनम्, सर्वानुमानस्य सर्वावयवानां च तद्बलेन साध्यसिद्धौ सामर्थ्यसिद्धेः । यथोक्तम् - दृष्टान्तबलाद्ध्यवयवसिद्धिः, तदाश्रयत्वात् सर्वावयवानाम् । तेन दृष्टान्तस्वतस्त्वमन्विष्यते । प्रत्यक्षत्वाश्च तस्य तद्वद् वस्तुप्रतिपत्तेरशेषं 10 तव सिद्धान्तदर्शनमवभोत्स्यते । प्रत्यक्षग्राहे च सिध्यति परोक्षग्राहः सिध्येत्, तदसिद्धौ सम्भाव- ३४-२ नाभाव एव [ ] इति । ततस्तस्य दृष्टान्तस्यासिद्धिः, लोकस्याप्रमाणीकृतत्वात् प्रत्यक्षस्य च । दृष्टान्तस्याभावे कुतो दाष्टन्तिकसाध्यसाधनसमन्वयव्यतिरेका इति प्रत्यक्षनिराकरणे तर्कासिद्धिरेव, कुतस्तर्कातर्कत्वविचारः ? इति तदवस्थो हरिणादिस्वरूपविपरीतापत्तिदोषः ।
1
1
किचान्यत् - हेवेत्यादि यावदसत्त्वापत्तेरिति । यथा हरिणस्वरूपनिराकरणे भवान् " यं यं दोषं 15 ममापादयति स स तवैव, अत्र च वीप्सार्थो द्रष्टव्यः - तव तवैव ऐकान्तवादिनः, एवकारोऽवधारणे, यथास्मिन् साधने 'मम दोषो नास्ति, तवैव' इति त्वदभ्युपगमानुरूप्येणोपपादितं तथा नात्रैव, किं तर्हि ? सर्वत्रान्यत्रापि पक्षहेतुदृष्टान्तेषु दोषास्तवैव न ममेत्यर्थः । अप्रमाणीकृतत्वाल्लोकस्य प्रत्यक्षस्य च इति वर्तते, कारणान्तरोपन्यासोऽप्येषोऽभिधीयते - सपक्षास पक्षवृत्त्यवृत्त्योर सत्त्वापत्तेः । यदिष्टं भवतामन्वयव्यतिरेकाभ्यामर्थानुमानम्, तौ च सपक्षासपक्षयोर्वृत्त्यवृत्ती, तद्बलेन साध्यसिद्धिः, तयोरेव च - सत्त्वमापद्यते । ततस्तैस्याः सपक्षासपक्षवृत्त्यवृत्त्योर्यथासङ्ख्यमसत्त्वापत्तेः तवैव अविशेषैकान्तवादिनो "विशेषैकान्तवादिनः तदुभयानेकत्वैकान्तवादिनो वेति हेतूदेशमात्रमेतत् । तदिदानीं प्रत्येकं विधीयते - तत्र तावदविशेषैकान्ते कुतोऽन्यपक्षः, असपक्षः, व्यावृत्तिर्वा ? अविशेषः सामान्यम्, 'अविशेष एव ' इत्येकान्तः सर्वं सर्वात्मकमिति, 'तस्मिन्नविशेषैकान्ते तव प्राहे कुतोऽन्यपक्षः, अन्यस्य पक्षोऽन्यपक्षः, प्रति
20
१ वर्तित्वधारणा प्र० ॥ २ भावसाधारणा॰ प्र॰ ॥ ३° पादनप्रमाणम् य० । 'पादितप्रमाणम् भा० ॥ ४ तत्र प्र० ॥ ५ मन्विध्यते प्र० ॥ ६ तत्सिद्धान्तदर्शनमेवं भोत्स्यते य० ॥ ७ संभावनाभाव एव प्र० ॥ ८ तर्कासिद्धेरेव कुतसुत र्कातर्कत्व' भा० ॥ ९ इहैवे प्र० । अत्र पूर्वापर प्रत्यवेक्षया इहेव इति पाठ एव साधुरित्याभाति । तुलना - " इति साधूच्यते - तवैव अविशेषैकान्तवादिनः सपक्षास पक्षवृत्त्य वृत्त्योईरिणा दिखरूपविपरीता पादनसाधनेष्विव असत्त्वापत्तिरिति" - पृ० ५२०१३ | १० तथा हरिण प्र० । ११ यं यं दोषं यं ममापादयति भा० । यं यं दोषमापादयति य० । १२ एकान्तरवादिनः प्र० ॥ १३ तथा मात्रैव प्र० ॥ १४ वासत्वमा प्र० ॥ १५ ‘तस्याः' इति पञ्चम्यन्तमेतत् । तस्या असत्त्वापत्तेरित्यभिसम्बन्धः ॥ १६ विशेषैकान्तवादिनः इति पाठो य० प्रतिषु नास्ति ॥ ९७ तन्मित्रविशेषांते तव प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org